॥ स्वागतम् ॥
- Get link
- Other Apps
Home
सदाशिवसमारम्भां शंकराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
॥ श्रीगुरुभ्यो नमः ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
॥ श्रीगुरुभ्यो नमः ॥
A brief introduction
I have a passion for learning Samskritam. The study of Samskritam is as much a science as it is an art. To learn the basics of a variety of topics I have followed the four course study material provided by Samskrita Bharati. Each course has been reviewed and presented in a simple manner for understanding and practise. Sharing the joys of learning Samskritam through this blog.
Some useful websites
- For verb conjugations, Pāṇini's Aṣṭādhyāyī sutras and many more visit https://ashtadhyayi.com/
- For verb conjugations, noun declensions, participle declensions visit https://sanskritabhyas.in/
- For a comprehensive list of nouns and their gender visit http://amara.aupasana.com/
- For a comprehensive sanskrit dictionary visit https://kosha.sanskrit.today/
- For additional study material and quiz from each SB lesson visit https://saakalyam.org/
- For analysing prasodies and meters visit https://sanskrit.iitk.ac.in/jnanasangraha/chanda/text
- For innumerable sanskrit courses visit https://www.sanskritfromhome.org/
- To type in sanskrit visit https://www.pramukhime.com/windows-application
प्रवेशः । (Praveśa)
# | सूक्तयः |
---|---|
1 | आरब्धम् उत्तमजनाः न परित्यजन्ति । |
2 | क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । |
3 | सोत्साहानां नास्त्यसाध्यं नराणाम् । |
4 | उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः । |
5 | क्रियासिद्धिः सत्वे भवति, महतां नोपकरणे । |
6 | चित्ते वाचि क्रियायां च महतामेकरूपता । |
7 |
मूढः परप्रत्ययनेयबुद्धिः ।
⇒ महाकविश्रीकालिदासविरचितं मालविकाऽग्निमित्रम् ॥१.२॥
|
8 |
ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि ।
⇒ महाकविश्रीमाघप्रणीतं शिशुपालवधम् ॥२.१२॥
|
9 |
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
⇒ महाकविश्रीकालिदासविरचितं कुमारसम्भवम् ॥१.५९॥
|
10 |
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
⇒ महाकविश्रीभवभूतिप्रणीतम् उत्तररामचरितम् ॥४.११॥
|
11 |
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैश्शिरसामतीव ।
⇒ महाकविश्रीकालिदासविरचितं कुमारसम्भवम् ॥१.१२॥
|
12 | जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् । |
# | सुभाषितानि |
---|---|
1 |
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ |
2 |
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ |
3 |
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ |
4 |
सदयं हृदयं यस्य भाषितं सत्यभूषितम् । कायः परहिते यस्य कलिस्तस्य करोति किम् ॥ |
5 |
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥ |
6 |
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यापि परार्थाय वृक्षाः सत्पुरुषाः इव ॥ |
7 |
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
⇒ श्रीचाणक्यविरचितं चाणक्यनीति ॥३.१०॥
|
8 |
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुरिति कीर्तितः ॥ |
9 |
न किञ्चित् सहसा कार्यं कार्यं कार्यविदा क्वचित् । क्रियते चेत् विविच्यैव तस्य श्रेयः करस्थितम् ॥ |
10 |
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स तु भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥५०॥
|
परिचयः । (Parichaya)
# | सूक्तयः |
---|---|
1 |
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
⇒ श्रीमद्वाल्मीकिरामायणम् (६-युद्धकाण्डम्; ८८-सर्गः; १३-श्लोकः) ॥६.८८.१३॥
|
2 |
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥८६॥
|
3 |
नियतो यत्र धर्मो वै तमशङ्कः समाचर ।
⇒ महाभारतम् (१२-शांतिपर्व; ५८-अध्यायः) ॥१२.५८.११२॥
|
4 |
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥८१॥
|
5 |
बहुविघ्नास्तु सदा कल्याणसिद्धयः ।
⇒ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः (३-लावाणकलम्बकः; ५-पञ्चमस्तरङ्गः; ३-श्लोकः) ॥३.५.३॥
|
6 |
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।
⇒ नारायणभट्टविरचितः हितोपदेशः - प्रस्तावना ॥०.३॥
|
7 |
अनुक्तमप्यूहति पण्डितो जनः ।
⇒ नारायणभट्टविरचितः हितोपदेशः - सुहृद्भेदः (कथा २) ॥४९॥
|
8 | अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी । |
9 |
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ।
⇒ श्रीचाणक्यविरचितं चाणक्यनीति ॥१६.०८॥
|
10 | तस्य तदेव मधुरं यस्य मनो यत्र संलग्नम् । |
11 |
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
⇒ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः (२-कथामुखलम्बकः; ४-चतुर्थस्तरङ्गः; ४१-श्लोकः) ॥२.४.४१॥
|
12 | योग्यत्वाद् यः समुत्कर्षो निरपायः स सर्वथा । |
# | सुभाषितानि |
---|---|
1 |
आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ |
2 |
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ |
3 |
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥
⇒ आदिशङ्करभगवत्पादविरचितं भज गोविन्दम् ॥१५॥
|
4 |
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥
⇒ काशिनाथशर्मना सूक्तिसंग्रहः सुभाषितरत्नभाण्डागारम् (७ संकीर्णप्रकरणम्; श्लोकः ३४६); पृष्टम् ३८६
|
5 |
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ |
6 |
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ |
7 |
स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥
⇒ श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकम् ॥४०॥
|
8 |
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ |
9 |
पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते निहिताभियोगाः ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥७३॥
|
10 |
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ॥
⇒ महाकविश्रीमाघप्रणीतं शिशुपालवधम् ॥२.७९॥
|
11 |
यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम् तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम् तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥०८॥
|
12 |
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥६३॥
|
13 |
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ |
14 |
रत्नैर्महाब्धेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥८०॥
|
15 |
पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥७२॥
|
16 |
लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥०५॥
|
17 |
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भः लोकस्तथाप्यहितमाचरतीति चित्रम् ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥१०९॥
|
18 |
त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥ |
19 |
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च नास्ति सत्यम् सत्यं न तद्यच्छलनानुविद्धम् ॥
⇒ महाभारतम् (०४-उद्योगपर्व; ३४-अध्यायः) ॥०४.३४.४९॥
|
20 |
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् । महामेघः क्षारं पिबति कुरुते वारि मधुरं फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम् ॥ |
21 |
वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्माणि समाचरन्ति ॥
⇒ श्रीविष्णुशर्मसंकलितं पञ्चतन्त्रकम्
(४-चतुर्थं तन्त्रं लब्धप्रणाशम्; १०-दशमी कथा; ७१-श्लोकः) ॥४.१०.७१॥ |
# | श्लोकाः |
---|---|
1 |
कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ |
2 |
इक्ष्वाकुवम्शप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ०८-श्लोकः) ॥०१.०१.०८॥
|
3 |
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् । यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; १९-२१-श्लोकः) ॥०१.०१.१९-२१॥
|
4 |
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकेयी । पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २१-२२-श्लोकः) ॥०१.०१.२१-२२॥
|
5 |
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २३-श्लोकः) ॥०१.०१.२३॥
|
6 |
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २४-श्लोकः) ॥०१.०१.२४॥
|
7 |
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २५-श्लोकः) ॥०१.०१.२५॥
|
8 |
रामस्य दयिता भार्या नित्यं प्राणसमा हिता । सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २६-२८-श्लोकः) ॥०१.०१.२६-२८॥
|
9 |
पौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गिवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; २८-२९-श्लोकः) ॥०१.०१.२८-२९॥
|
10 |
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३१-३२-श्लोकः) ॥०१.०१.३१-३२॥
|
11 |
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा । राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३२-३३-श्लोकः) ॥०१.०१.३२-३३॥
|
12 |
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३३-३४-श्लोकः) ॥०१.०१.३३-३४॥
|
13 |
स जगाम वनं वीरो रामपादप्रसादकः । गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ॥ अयाचद्भ्रातरं राममार्यभावपुरस्कृतः । त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३४-३६-श्लोकः) ॥०१.०१.३४-३६॥
|
14 |
रामोऽपि परमोदारस्सुमुखस्सुमहायशाः । न चैच्छत् पितुरादेशाद्राज्यं रामो महाबलः ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३६-श्लोकः) ॥०१.०१.३६॥
|
15 |
पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः । निवर्तयामास ततो भरतं भरताग्रजः ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३७-श्लोकः) ॥०१.०१.३७॥
|
16 |
स काममनवाप्यैव रामपादावुपस्पृशन् । नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३८-श्लोकः) ॥०१.०१.३८॥
|
17 |
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः । रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ३९-४०-श्लोकः) ॥०१.०१.३९-४०॥
|
18 |
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह । सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ४१-४२-श्लोकः) ॥०१.०१.४१-४२॥
|
19 |
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् । खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥
⇒ श्रीमद्वाल्मीकिरामायणम् (०१-बालकाण्डम्; ०१-सर्गः; ४२-श्लोकः) ॥०१.०१.४२॥
|
शिक्षा । (Śikṣā)
# | सूक्तयः |
---|---|
1 |
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।
⇒ महाकविश्रीकालिदासविरचितं अभिज्ञानशाकुन्तलम्
(१-प्रथमोऽङ्कः; २२-श्लोकः) ॥१.२२॥ |
2 |
मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने ।
|
3 | भवितव्यानां द्वाराणि भवन्ति सर्वत्र । |
4 |
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।
⇒ श्रीविष्णुशर्मसंकलितं पञ्चतन्त्रकम्
(१-प्रथमं तन्त्रं मित्रभेदः; १-प्रथमा कथा; ३२-श्लोकः) ॥१.१.३२॥ |
5 |
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
⇒ मनुस्मृति / मानवधर्मशास्त्र ॥२.१३॥
|
6 |
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
⇒ कठोपनिषद् (२-अध्याय; ३-वल्ली; ११-श्लोकः) ॥२.३.११॥
|
7 |
वज्रादपि हि धीराणां चित्तरत्नमखण्डितम् ।
⇒ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः
(१२-शशाङ्कवतीलम्बकः; ०८-अष्टमतरङ्गः; ५६-श्लोकः) ॥१२.०८.५६॥ |
8 |
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
⇒ महाभारतम् (०५-उद्योगपर्व; ९०-अध्यायः) ॥०५.९०.५३॥
|
9 | अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः । |
10 |
उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत ।
⇒ कठोपनिषद् (१-अध्याय; ३-वल्ली; १४-श्लोकः) ॥१.३.१४॥
|
11 |
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
⇒ महाभारतम् (०३-आरण्यकपर्व; २०९-अध्यायः) ॥०३.२०९.४२॥
|
12 |
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
⇒ श्रीमद्भगवद्गीता ॥१८.४५॥
|
# | सुभाषितानि |
---|---|
1 |
दम्भेन लोभेन भिया ह्रिया वा प्रायो विनीतो जन एष सर्वः । वैराग्यतस्त्वाहृदयं विनीतम् नरं वरं दुर्लभमेव मन्ये ॥ |
2 |
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ |
3 |
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥४३॥
|
4 |
व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत् । काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते ॥
⇒ श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकम् ॥२१॥
|
5 |
शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥
⇒ नारायणभट्टविरचितः हितोपदेशः - मित्रलाभः (कथा ६) ॥१७०॥
|
6 |
आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञो विपदा नाभिभूयते ॥
⇒ मनुस्मृति / मानवधर्मशास्त्र ॥७.१७९॥
|
7 |
यः प्रीणयेत्सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं यत् एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥६८॥
|
8 |
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥६४॥
|
9 |
एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥७४॥
|
10 |
क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥८१॥
|
11 |
कदर्थितस्यापि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम् । अधोमुखस्यापि कृतस्य वह्नेः नाधः शिखा यान्ति कदाचिदेव ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥१०६॥
|
12 |
नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥
⇒ काशिनाथशर्मना सूक्तिसंग्रहः सुभाषितरत्नभाण्डागारम्
(२ सामान्यप्रकरणम्; सज्जनप्रशंसा; श्लोकः १३); पृष्टम् ४५ |
13 |
सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च । एतानि यो धारयते स विद्वान् न तत्र शास्त्राध्ययनं हि कारणम् ॥ |
14 |
करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥६५॥
|
15 |
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम् तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥१०७॥
|
16 |
फलमलमशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थं वाससे वल्कलं च । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम् अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥२२॥
|
17 |
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयम् माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम् सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥३५॥
|
18 |
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥
⇒ भर्तृहरिविरचितं वैराग्यशतकम् ॥४५॥
|
19 |
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥८२॥
|
20 |
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥
⇒ आदिशङ्करभगवत्पादविरचितं भज गोविन्दम् ॥१२॥
|
# | श्लोकाः |
---|---|
1 |
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ |
2 |
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ |
3 |
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०१॥
|
4 |
सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०२॥
|
5 |
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०३॥
|
6 |
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०४॥
|
7 |
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०५॥
|
8 |
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०६॥
|
9 |
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०७॥
|
10 |
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०८॥
|
11 |
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.०९॥
|
12 |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१०॥
|
13 |
अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
⇒ श्रीमद्भगवद्गीता ॥०१.११॥
|
14 |
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१२॥
|
15 |
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१३॥
|
16 |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१४॥
|
17 |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१५॥
|
18 |
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१६॥
|
19 |
काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१७॥
|
20 |
द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१८॥
|
21 |
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽव्यनुनादयन् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.१९॥
|
22 |
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२०॥
|
23 |
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२१॥
|
24 |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२२॥
|
25 |
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२३॥
|
26 |
सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२४॥
|
27 |
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२५॥
|
28 |
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२६॥
|
29 |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२७॥
|
30 |
अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२८॥
|
31 |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥
⇒ श्रीमद्भगवद्गीता ॥०१.२९॥
|
32 |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३०॥
|
33 |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३१॥
|
34 |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३२॥
|
35 |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३३॥
|
36 |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा । एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३४॥
|
37 |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३५॥
|
38 |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३६॥
|
39 |
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३७॥
|
40 |
कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३८॥
|
41 |
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥
⇒ श्रीमद्भगवद्गीता ॥०१.३९॥
|
42 |
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४०॥
|
43 |
सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४१॥
|
44 |
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४२॥
|
45 |
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४३॥
|
46 |
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४४॥
|
47 |
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४५॥
|
48 |
सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
⇒ श्रीमद्भगवद्गीता ॥०१.४६॥
|
कोविदः । (Kovida)
# | सूक्तयः |
---|---|
1 |
आ नो भद्राः क्रतवो यन्तु विश्वतः ।
⇒ ऋग्वेदः १-मण्डलम् ॥०१.८९.०१॥
|
2 |
महीयांसः प्रकृत्या मितभाषिणः ।
⇒ महाकविश्रीमाघप्रणीतं शिशुपालवधम् ॥२.१३॥
|
3 | महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । |
4 | यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । |
5 | अलक्ष्मीराविशत्येनं शयानमलसं नरम् । |
6 |
आपत्काले च सम्प्राप्ते यन्मित्रं मित्रमेव तत् ।
⇒ श्रीविष्णुशर्मसंकलितं पञ्चतन्त्रकम्
(२-द्वितीयं तन्त्रं मित्रसंप्राप्तिः; ४-चतुर्थी कथा; ११८-श्लोकः) ॥२.०४.११८॥ |
7 |
यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
⇒ श्रीमद्भगवद्गीता ॥३.२१॥
|
8 | निसर्गः स हि धीराणां यदापद्यधिकं दृढाः । |
9 |
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
⇒ श्रीमद्भगवद्गीता ॥०६.०५॥
|
10 |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।
⇒ श्रीमद्भगवद्गीता ॥०५.११॥
|
11 |
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
⇒ श्रीमद्भगवद्गीता ॥०४.३८॥
|
12 |
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
⇒ बृहन्नारदीयपुराणम् ॥३१.७०॥
|
# | सुभाषितानि |
---|---|
1 |
आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकाराथं यो जीवति स जीवति ॥ |
2 |
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ |
3 |
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥३७॥
|
4 |
अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥ |
5 |
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ |
6 |
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥१२॥
|
7 |
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा । पापं तापं दैन्यं च घ्नन्ति सन्तो महाशयाः ॥ |
8 |
भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥१०२॥
|
9 |
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥ |
10 |
मनसि वचसि काये पुण्यपीयूषपूर्णाः त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥
⇒ भर्तृहरिविरचितं नीतिशतकम् ॥७८॥
|
11 |
पादपानां भयं वातात् पद्मानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥ |
12 |
अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ |
13 |
दूरीकरोति दुरितं विमलीकरोति चेतश्चिरन्तनमघं चुलुकीकरोति । भूतेषु किञ्च करुणां बहुलीकरोति सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ |
14 |
किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥ |
15 |
व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥ |
16 |
सुहृद्भिरापतैरसकृद्विचारितं स्वयं च बुद्ध्या प्रविचारिताश्रयम् । करोति कार्यं खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥ |
17 |
मरणं प्रकृतिः शरीरिणां विकृतिर्जावितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥ |
18 |
अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ |
19 |
प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः । उपदेशो यथाकालं विद्वेषो न कदाचन ॥ |
20 |
कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति । तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ |
# | रघुवंशस्य श्लोकाः |
---|---|
1 |
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.१॥
|
2 |
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.२॥
|
3 |
आस्वादवद्भिः कवलैस्तृणानां कन्डूयनैर्दंशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.५॥
|
4 |
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् । अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.१०॥
|
5 |
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.२५॥
|
6 |
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.२६॥
|
7 |
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.३०॥
|
8 |
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.३३॥
|
9 |
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.३५॥
|
10 |
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.३७॥
|
11 |
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.४०॥
|
12 |
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्य तां धेनुरियं महर्षेः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.४५॥
|
13 |
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.४६॥
|
14 |
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.४७॥
|
15 |
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.४८॥
|
16 |
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.५२॥
|
17 |
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.५५॥
|
18 |
तथेति गामुक्तवते दिलीपः सद्यःप्रतिष्टम्भविमुक्तबाहुः । सन्न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.५९॥
|
19 |
तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६०॥
|
20 |
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६१॥
|
21 |
तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि । ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६२॥
|
22 |
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६३॥
|
23 |
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमदिदेश ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६५॥
|
24 |
स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशोमूर्तमिवातितृष्णः ॥
⇒ महाकविश्रीकालिदासविरचितं रघुवंशम् ॥२.६९॥
|
पाठक्रमः | विशेषताः | संस्कृतग्रन्थकाराः |
---|---|---|
(०१) प्रथमः | इतिहासकर्तारौ (०२) |
(०१) वाल्मीकिः
(०२) व्यासः |
(०२) द्वितीयः | व्याकरणशास्त्रज्ञाः (०५) |
(०३) पाणिनिः
(०४) कात्यायनः (०५) पतञ्जलिः (०६) भट्टोजिदीक्षितः (०७) नागेशभट्टः |
(०३) तृतीयः | ज्योतिश्शास्त्रज्ञाः (०४) |
(०८) आर्यभटः
(०९) वराहमिहिरः (१०) ब्रह्मगुप्तः (११) भास्कराचार्यः |
(०४) चतुर्थः | कवयित्रयः (०६) |
(१२) विज्जिका
(१३) तिरुमलाम्बा (१४) रामभद्राम्बा (१५) गङ्गादेवी (१६) देवकुमारिका (१७) क्षमाराव् |
(०५) पञ्चमः | चम्पूकाराः (०५) |
(१८) भोजदेवः
(१९) अनन्तभट्टः (२०) त्रिविक्रमभट्टः (२१) नीलकण्ठदीक्षितः (२२) वेङ्कटाध्वरिः |
(०६) षष्ठः | सूत्रकाराः (०५) |
(२३) गौतमः
(२४) कणादः (२५) जैमिनिः (२६) बादरायणः (२७) भरतः |
(०७) सप्तमः | कवयः (०४) |
(२८) कालिदासः
(२९) भारविः (३०) माघः (३१) श्रीहर्षः |
(०८) अष्टमः | कथाकाराः (०४) |
(३२) क्षेमेन्द्रः
(३३) सोमदेवः (३४) विष्णुशर्मा (३५) नारायणभट्टः |
(०९) नवमः | नाटककाराः (०५) |
(३६) अश्वघोषः
(३७) भासः (३८) भवभूतिः (३९) शूद्रकः (४०) भट्टनारायणः |
(१০) दशमः | गद्यकाराः (०४) |
(४१) सुबन्धुः
(४२) बाणः (४३) दण्डी (४४) धनपालः |
व्यावहारिक-शब्दाः । (Vocabularies)
क्रमः | व्यावहारिक-शब्द-वर्गः | शब्दसङ्क्या |
---|---|---|
१ | कर्मकाराः / वृत्तिकाराः (Profession) | ६० |
२ | विकलाङ्गः (Disabled persons) | ८ |
३ | ग्राम्यमृगवर्गः (Domestic animals) | १४ |
४ | वन्यमृगवर्गः (Wild animals) | २३ |
५ | जलमृगवर्गः (Aquatic animals) | १७ |
६ | पक्षिवर्गः (Birds) | ३० |
७ | कीटवर्गः (Insects) | २२ |
८ | पुष्पाणि (Flowers) | २५ |
९ | शरीरावयवाः (Parts of the body) | ६६ |
१० | धारणवर्गः (Wearables) | ४२ |
११ | आभूषणानि / अलङ्कारवस्तूनि (Ornaments) | २८ |
१२ | विद्यालयवर्गः (Education related) | ८६ |
१३ | वर्णवर्गः (Colours) | १७ |
१४ | फलवर्गः (Fruits) | ३३ |
१५ | शाकवर्गः (Vegetables) | ४९ |
सङ्ख्याः । (Numbers)
In progress
In progress
In progress
सन्धयः । (Joins)
छन्दांसि । (Prosodies)
उक्ता छन्दः (१ अक्षरम्) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
श्रीः ( ग् श्रीः । ) |
गः ( ऽ ) |
2 |
अत्युक्ता छन्दः (२ अक्षरे) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
स्त्री ( गौ स्त्री । ) |
गग ( ऽऽ ) |
4 |
मदः ( लल मद । ) |
लल ( ।। ) |
2 |
मध्या छन्दः (३ अक्षराणि) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
नारी ( मो नारी । ) |
म ( ऽऽऽ ) |
6 |
मृगी ( रो मृगी । ) |
र ( ऽ।ऽ ) |
5 |
मदनः ( सो मदनः । ) |
स ( ।।ऽ ) |
4 |
केसा ( य केसा । ) |
य ( ।ऽऽ ) |
5 |
प्रतिष्ठा छन्दः (४ अक्षराणि) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
कन्या ( म्गौ चेत् कन्या । ) |
मग ( ऽऽऽ ऽ ) |
8 |
लासिनी ( ज्ग लासिनी । ) |
जग ( ।ऽ। ऽ ) |
6 |
सुमुखी ( भ्गौ सुमुखी । ) |
भग ( ऽ।। ऽ ) |
6 |
व्रीडा ( यगौ व्रीडा । ) |
यग ( ।ऽऽ ऽ ) |
7 |
समृद्धिः ( र्गौ समृद्धिः । ) |
रग ( ऽ।ऽ ऽ ) |
7 |
सुमतिः ( सुमतिः स्गौ । ) |
सग ( ।।ऽ ऽ ) |
6 |
सुप्रतिष्ठा छन्दः (५ अक्षराणि) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
पंक्ति ( भ्गौ गिति पंक्तिः । ) |
भगग ( ऽ।। ऽऽ ) |
8 |
सती ( सती जगौ गः । ) |
जगग ( ।ऽ। ऽऽ ) |
8 |
मन्दा ( मन्दा तलगैः । ) |
तलग ( ऽऽ। ।ऽ ) |
8 |
प्रीतिः ( र्गौ गिति प्रीतिः ) |
रगग ( ऽ।ऽ ऽऽ ) |
9 |
गायत्री छन्दः (६ अक्षराणि) | ||
---|---|---|
वृत्तम् ( वृत्तलक्षणं च ) | गणाः ( चिन्हानि च ) | मात्राणि |
तनुमध्या ( त्यौ स्तस्तनुमध्या । ) |
तय ( ऽऽ। ।ऽऽ ) |
10 |
शशिवदना ( शशिवदना न्यौ । ) |
नय ( ।।। ।ऽऽ ) |
8 |
वसुमती ( त्सौ चेद्वसुमती । ) |
तस ( ऽऽ। ।।ऽ ) |
9 |
कामलतिका ( कामलतिका भ्यौ । ) कामललिता ( कामललिता भ्यौ । ) कामतिलका ( कामतिलका भ्यौ । ) |
भय ( ऽ।। ।ऽऽ ) |
9 |
विद्युन्माला ( विद्युन्माला मो मः । ) विद्युल्लेखा ( विद्युल्लेखा मो मः । ) सावित्री ( मौ सावित्रीमाहुः । ) |
मम ( ऽऽऽ ऽऽऽ ) |
12 |
नदी ( म्रौ यस्याः सा नदी । ) |
मर ( ऽऽऽ ऽ।ऽ ) |
11 |
मुकुलम् ( म्सौ प्रोक्तं मुकुलम् । ) सोमकुलम् ( स्यान्म्सौ सोमकुलम् । ) |
मस ( ऽऽऽ ।।ऽ ) |
10 |
सोमराजी ( ययौ सोमराजी । ) |
यय ( ।ऽऽ ।ऽऽ ) |
10 |
विमला ( विमला सयौ स्यात् । ) |
सय ( ।।ऽ ।ऽऽ ) |
9 |
मालिनी ( मालिनी र्माभ्यां स्यात् । ) |
रम ( ऽ।ऽ ऽऽऽ ) |
11 |
स्रग्विणी ( स्याद्ररौ स्रग्विणी । ) |
रर ( ऽ।ऽ ऽ।ऽ ) |
10 |
सुनन्दा ( म्याभ्याम् स्यात् सुनन्दा । ) |
मय ( ऽऽऽ ।ऽऽ ) |
11 |
कुलकम् ( स्याद्रसौ कुलकम् । ) |
रस ( ऽ।ऽ ।।ऽ ) |
9 |
रमणी ( सयुगं रमणी । ) |
सस ( ।।ऽ ।।ऽ ) |
8 |
- Get link
- Other Apps