परिचयः - सुभाषितम् #04


धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
धनानि धन / नपुं / द्वि.वि / ब.व money
जीवितम् जीवित / नपुं / द्वि.वि / ब.व

पदविवरणम् :-
जीव् + क्त = जीवित / नपुं
life
अव्ययम्

सन्धिविवरणम् :-
च + एव
= च् + (अ + ए ⇒ ऐ) + व [वृद्धिसन्धिः ६.१.८८]
= चैव
and
एव अव्ययम् even
परार्थे अव्ययम्

सन्धिविवरणम् :-
पर + अर्थे
= पर् + (अ + अ ⇒ आ) + र्थे [सवर्णदीर्घसन्धिः ६.१.१०१]
= परार्थे
for other's sake
प्राज्ञः प्राज्ञ / पुं / प्र.वि / ए.व A wise man
उत्सृजेत् उत् + सृज् + विधिलिङ् / प्र.पु / ए.व shall leave
सन्निमित्ते सन्निमित्त / पुं / स.वि / ए.व

पदविवरणम् :-
सत् + नि + मिद् + क्त = सन्निमित्त / पुं

सन्धिविवरणम् :-
सत् + निमित्ते
= स + (त् ⇒ द्) + निमित्ते [जश्त्वसन्धिः ८.२.३९]
= स + (द् ⇒ न् + न्) + इमित्ते [अनुनासिकसन्धिः ८.४.४५]
= सन्निमित्ते
for a good reason
वरम् वर / पुं / द्वि.वि / ए.व

सन्धिविवरणम् :-
वरम् + त्यागः
= वर + (म् ⇒ ं) + त्यागः [अनुस्वारसन्धिः ८.३.२३]
= वरं त्यागः
is better / is best
त्यागः त्याग / पुं / प्र.वि / ए.व

पदविवरणम् :-
त्यज् + भावे घञ् = त्याग / पुं

सन्धिविवरणम् :-
त्यागः + विनाशे
= त्याग् + अ + (: ⇒ उ) + विनाशे [विसर्ग-उकारादेशसन्धिः]
= त्याग् + (अ + उ ⇒ ओ) + विनाशे [गुणसन्धिः ६.१.८७]
= त्यागो विनाशे
sacrifice
विनाशे विनाश / पुं / स.वि / ए.व

पदविवरणम् :-
वि + नश् + घञ् = विनाश / पुं
destruction
नियते नियत / पुं / स.वि / ए.व

पदविवरणम् :-
नि + यम् + क्त = नियत / पुं & नपुं
is sure / clear
सति सत् / पुं / स.वि / ए.व

पदविवरणम् :-
अस् + शतृँ = सत् / पुं

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

when

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
प्राज्ञः धनानि जीवितं च एव परार्थे उत्सृजेत् । Wise man gives up his money and life (i.e., engages himself in service) for other's sake.
विनाशे नियते सति सन्निमित्ते त्यागः वरम् भवेत् । When destruction (of one's money and life) is sure to come, it is better / best to sacrifice (money and life) for a good reason.

Comments