परिचयः - सुभाषितम् #05


श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
श्लोकार्धेन श्लोकार्ध / पुं / तृ.वि / ए.व

पदविवरणम् :-
श्लोक् + अच् = श्लोक / पुं
अर्धः / पुं & नपुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
श्लोकस्य अर्धः = श्लोकार्धः / पुं & नपुं
by half a verse
प्रवक्ष्यामि प्र + ब्रू | वच् + लृट् / उ.पु / ए.व will tell
यत् यद् / नपुं / प्र.वि / ए.व whatever
उक्तम् उक्त / नपुं / प्र.वि / ए.व

पदविवरणम् :-
ब्रू | वच् + क्त / पुं & नपुं

सन्धिविवरणम् :-
उक्तम् + ग्रन्थकोटिभिः
= उक्त + (म् ⇒ ं) + ग्रन्थकोटिभिः [अनुस्वारसन्धिः ८.३.२३]
= उक्तं ग्रन्थकोटिभिः
is told
ग्रन्थकोटिभिः ग्रन्थकोटि / स्त्री / तृ.वि / ब.व

पदविवरणम् :-
ग्रन्थ / पुं
कोटि / स्त्री

समासविवरणम् :-
[कर्मधारयसमासः]
ग्रन्थः च सा कोटिः च = ग्रन्थकोटिः / स्त्री
by crores of books
परोपकारः परोपकार / पुं / प्र.वि / ए.व

पदविवरणम् :-
पर / पुं
उप + कृ + घञ् = उपकार / पुं

सन्धिविवरणम् :-
पर + उपकारः
= पर् + (अ + उ ⇒ ओ) + पकारः [गुणसन्धिः ६.१.८७]
= परोपकारः

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य उपकार = परोपकार / पुं
service to others
पुण्याय पुण्य / नपुं / च.वि / ए.व

पदविवरणम् :-
पू [पूञ् पवने] + यत् = पुण्य / नपुं
gives religious merit
पापाय पाप / नपुं / च.वि / ए.व gives sin
परपीडनम् परपीडन / नपुं / प्र.वि / ए.व

पदविवरणम् :-
पर / पुं
पीड् + भावे ल्युट् = पीडन / नपुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य पीडनम् = परपीडनम् / नपुं
inflicting pain to others

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
ग्रन्थकोटिभिः यत् उक्तं (तत् अहं) श्लोकार्धेन प्रवक्ष्यामि । I will tell with half a verse, what has been told in crores of books.
परोपकारः पुण्याय (च) परपीडनम् पापाय (कल्पयति) । Help / service to others gives merit and hurting others leads to sin.

Comments