Posts

Showing posts from October, 2022

॥ ०२ - श्रीमद्भगवद्गीता ॥

Home ॥ श्रीमद्भगवद्गीता ॥ Go Top द्वितीयोध्यायः । सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ ❋ आङ्ग्लभाषया तात्पर्यम् । Sañjaya said: Seeing Arjuna full of compassion, his mind depressed, his eyes full of tears, Madhusūdana, Śrī Kṛṣṇa, spoke the following words. ❋ सन्धिं विभज्य श्लोकः । सञ्जयः उवाच । तं तथा कृपया-आविष्टम्-अश्रु~पूर्ण~आकुल~ईक्षणम् । विषीदन्तम्-इदं वाक्यम्-उवाच मधु~सूदनः ॥ १ ॥ ❋ अन्वयः । सञ्जयः उवाच । तथा कृपया आविष्टम् अश्रु~पूर्ण~आकुल~ईक्षणं विषीदन्तं तं, मधु~सूदनः इदं वाक्यम् उवाच । ❋ प्रतिपदार्थं व्याकरणविशेषणं च । सञ्जयः = Sañjaya सञ्जय / पुं / प्र.वि / ए.व उवाच = spoke, told ब्र