॥ ०२ - श्रीमद्भगवद्गीता ॥



॥ श्रीमद्भगवद्गीता ॥


Go Top
द्वितीयोध्यायः ।
सञ्जय उवाच ।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Sañjaya said: Seeing Arjuna full of compassion, his mind depressed, his eyes full of tears, Madhusūdana, Śrī Kṛṣṇa, spoke the following words.

❋ सन्धिं विभज्य श्लोकः ।
सञ्जयः उवाच ।
तं तथा कृपया-आविष्टम्-अश्रु~पूर्ण~आकुल~ईक्षणम् ।
विषीदन्तम्-इदं वाक्यम्-उवाच मधु~सूदनः ॥ १ ॥

❋ अन्वयः ।
सञ्जयः उवाच । तथा कृपया आविष्टम् अश्रु~पूर्ण~आकुल~ईक्षणं विषीदन्तं तं, मधु~सूदनः इदं वाक्यम् उवाच ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • सञ्जयः = Sañjaya
  • उवाच = spoke, told
  • तम् = him
  • तथा = then
  • कृपया = by compassion
  • आविष्टम् = him, who was overwhelmed
  • अश्रु~पूर्ण~आकुल~ईक्षणम् = him, whose eyes are filled with and full of tears → Arjuna
  • विषीदन्तम् = him, who is lamenting, sorrowing, despairing
  • इदम् = (object) this
  • वाक्यम् = (object) sentence
  • उवाच = spoke, told
  • मधु~सूदनः = the slayer of Madhu (Madhusūdana → Śrī Kṛṣṇa)
❋ सन्धिविवरणम् ।
  • सञ्जयः + उवाच = सञ्जय उवाच
  • तम् + तथा = तं तथा
  • कृपया + आविष्टम् = कृपयाविष्टम्
  • पूर्ण + आकुल = पूर्णाकुल
  • आकुल + ईक्षणम् = आकुलेक्षणम्
  • इदम् + वाक्यम् = इदं वाक्यम्
श्रीभगवानुवाच ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Śrī Kṛṣṇa, the splendorous God, said: O! Arjuna! How have these impurities come upon you? They are not at all befitting a man who knows the value of life. They do not lead to higher planets, but to infamy.

❋ सन्धिं विभज्य श्लोकः ।
श्री~भगवान्-उवाच ।
कुतः-त्वा कश्मलम्-इदं विषमे समुपस्थितम् ।
अनार्यजुष्टम्-अस्वर्ग्यम्-अकीर्तिकरम्-अर्जुन ॥ २ ॥

❋ अन्वयः ।
श्रीभगवान् उवाच । (हे) अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • श्री~भगवान् = the splendorous God, deity, the worshipful
  • उवाच = spoke, told
  • कुतः = from where
  • त्वा = (object) you
  • कश्मलम् = foul, dirty, impure
  • इदम् = this
  • विषमे = in adversity, in difficult times
  • समुपस्थितम् = him, who has arrived, attained, acquired
  • अन्~आर्य~जुष्टम् = (object) that which is practised by those who are not venerable
  • अ~स्वर्ग्यम् = (object) that which does not procure a place in heaven
  • अ~कीर्ति~करम् = (object) that which is the cause to infamy
  • अर्जुन = O! Arjuna!
❋ सन्धिविवरणम् ।
  • कुतः + त्वा = कुतस्त्वा
  • इदम् + विषमे = इदं विषमे
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! the son of Pṛthā (aka Kuntī) (refers to Arjuna)! Go. Do not yield to this impotence / cowardice. This does not befit you. O! the scorcher of the enemies! Let go this vile, lowly weakness of heart and arise.

❋ सन्धिं विभज्य श्लोकः ।
क्लैब्यं मा स्म गमः पार्थ न-एतत्-त्वयि-उपपद्यते ।
क्षुद्रं हृदय~दौर्बल्यं त्यक्त्वा-उत्तिष्ठ परम्-तप ॥ ३ ॥

❋ अन्वयः ।
(हे) पार्थ ! गमः । (त्वं) क्ल‍ैब्यं मा स्म । एतत् त्वयि न उपपद्यते । (हे) परन्तप ! क्षुद्रं हृदय~दौर्बल्यं त्यक्त्वा उत्तिष्ठ ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • क्लैब्यम् = (object) the state of unmanliness, weakness, timidity, cowardice, impotence
  • मा = do not
  • स्म = become
  • गमः = go
  • पार्थ = O! the son of Kuntī! (Pārtha → popularly Arjuna)!
  • एतत् = this
  • त्वयि = in you
  • न उपपद्यते = is not befitting
  • क्षुद्रम् = (object) that which is lowly, vile
  • हृदय~दौर्बल्यम् = weakness of heart
  • त्यक्त्वा = abandon, leave
  • उत्तिष्ठ = get up
  • परम्-तप = O! scorcher, chastiser or subduer of the enemies!
❋ सन्धिविवरणम् ।
  • क्लैब्यम् + मा = क्लैब्यं मा
  • न + एतत् = नैतत्
  • त्वयि + उपपद्यते = त्वय्युपपद्यते
  • क्षुद्रम् + हृदयदौर्बल्यम् = क्षुद्रं हृदयदौर्बल्यम्
  • हृदयदौर्बल्यम् + त्यक्त्वा = हृदयदौर्बल्यं त्यक्त्वा
  • त्यक्त्वा + उत्तिष्ठ = त्यक्त्वोत्तिष्ठ
  • परम् + तप = परन्तप
अर्जुन उवाच ।
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Arjuna said: O! the slayer of Madhu! O! the slayer of enemies! How shall I counterattack, with arrows, in the battle, Bhīṣma and Droṇa, who are both worthy of worship?

❋ सन्धिं विभज्य श्लोकः ।
अर्जुनः उवाच ।
कथं भीष्मम्-अहं संख्ये द्रोणं च मधु~सूदन ।
इषुभिः प्रतियोत्स्यामि पूजा~अर्हौ-अरि~सूदन ॥ ४ ॥

❋ अन्वयः ।
(हे) मधु~सूदन ! (हे) अरि~सूदन ! कथम् अहं पूजार्हौ भीष्मं द्रोणं च संख्ये इषुभिः प्रतियोत्स्यामि ?

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • अर्जुनः = Arjuna
  • उवाच = spoke, told
  • कथम् = how
  • भीष्मम् = him, Bhīṣma
  • अहम् = I
  • संख्ये = in the battle
  • द्रोणम् = him, Droṇa
  • च = and
  • मधु~सूदन = O! the slayer of Madhu (Madhusūdana → Śrī Kṛṣṇa)!
  • इषुभिः = with bows
  • प्रतियोत्स्यामि = (in future) I would counterattack
  • पूजा~अर्हौ = (object) the two, who are worthy of worship
  • अरि~सूदन = O! the slayer of enemies (Arisūdana → Śrī Kṛṣṇa)!
❋ सन्धिविवरणम् ।
  • अर्जुनः + उवाच = अर्जुन उवाच
  • कथम् + भीष्मम् = कथं भीष्मम्
  • अहम् + संख्ये = अहं संख्ये
  • द्रोणम् + च = द्रोणं च
  • पूजा + अर्हौ = पूजार्हौ
  • पूजार्हौ + अरिसूदन = पूजार्हावरिसूदन
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ ५ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
After not killing the preceptors who are greatly experienced, it would be better to live in this world even by begging. On the other hand, after killing the preceptors, even though they are desirous of wealth, I would enjoy luxuries in this world that are smeared with blood.

❋ सन्धिं विभज्य श्लोकः ।
गुरून्-अहत्वा हि महा~अनुभावान्
श्रेयः भोक्तुं भैक्ष्यम्-अपि-इह लोके ।
हत्वा-अर्थ~कामान्-तु गुरून्-इह-एव
भुञ्जीय भोगान् रुधिर~प्रदिग्धान् ॥ ५ ॥

❋ अन्वयः ।
महानुभावान् गुरून् अहत्वा हि इह लोके भैक्ष्यं भोक्तुम् अपि श्रेयः (अस्ति) । अर्थ~कामान् गुरून् हत्वा तु इह भोगान् रुधिर~प्रदिग्धान् एव (अहं) भुञ्जीय ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • गुरून् = (object) they all who are valuable, respectable, older relative, a spiritual parent, religious preceptor, father or any venerable male relation
  • अ~हत्वा = having not killed
  • हि = indeed
  • महा~अनुभावान् = one who has great experience
  • श्रेयः = better (amongst the two options)
  • भोक्तुम् = to live on, to enjoy
  • भैक्ष्यम् = mendicity, begging
  • अपि = also
  • इह = here (in this place), now (at this time)
  • लोके = in this world
  • हत्वा = having killed
  • अर्थ~कामान् = (object) they all, who are desirous of wealth
  • तु = on the other hand, but
  • गुरून् = (object) they all who are valuable, respectable, older relative, a spiritual parent, religious preceptor, father or any venerable male relation
  • इह = here (in this place), now (at this time)
  • एव = too, even
  • भुञ्जीय = I would enjoy
  • भोगान् = (object) they all, who enjoy
  • रुधिर~प्रदिग्धान् = (object) they all, that are smeared, stained, covered with blood
❋ सन्धिविवरणम् ।
  • महा + अनुभावान् = महानुभावान्
  • श्रेयः + भोक्तुम् = श्रेयो भोक्तुम्
  • भोक्तुम् + भैक्ष्यम् = भोक्तुं भैक्ष्यम्
  • अपि + इह = अपीह
  • हत्वा + अर्थकामान् = हत्वार्थकामान्
  • अर्थकामान् + तु = अर्थकामांस्तु
  • इह + एव = इहैव
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
We do not know which of the two is good for us - a) Whether we would win or b) Whether they would win over us. After killing whom we do not wish to live, they, the sons of Dhṛtarāṣṭra, stand well-arranged in front of us.

❋ सन्धिं विभज्य श्लोकः ।
न च-एतत्-विद्मः कतरत्-नः गरीयः
यत्-वा जयेम यदि वा नः जयेयुः ।
यान्-एव हत्वा न जिजीविषामः
ते-अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

❋ अन्वयः ।
यत् वा (वयं) जयेम यदि वा (ते) नः/अस्मान् जयेयुः । कतरत् नः/अस्माकं गरीयः एतत् न विद्मः च । यान् एव हत्वा (वयं) न जिजीविषामः, ते धार्तराष्ट्राः प्रमुखे अवस्थिताः (अस्ति) ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • च = and
  • एतत् = (object) this
  • न विद्मः = we do not know
  • कतरत् = which (of the two)
  • नः = for us
  • गरीयः = more important (of the two)
  • यद् = (object) what
  • वा = or, else
  • जयेम = we win, conquer
  • यदि = if
  • वा = or, else
  • नः = (object) us
  • जयेयुः = they win, conquer
  • यान् = (object) who all
  • एव = too, even
  • हत्वा = having killed
  • न जिजीविषामः = we do not wish to live
  • ते = they
  • अवस्थिताः = standing, well-arranged
  • प्रमुखे = in front, facing
  • धार्तराष्ट्राः = the sons of Dhṛtarāṣṭra
❋ सन्धिविवरणम् ।
  • च + एतत् = चैतत्
  • एतत् + विद्मः = एतद्विद्मः
  • कतरत् + नः = कतरन्नः
  • नः + गरीयः = नो गरीयः
  • गरीयः + यत् = गरीयो यत्
  • यत् + वा = यद्वा
  • नः + जयेयुः = नो जयेयुः
  • ते + अवस्थिताः = तेऽवस्थिताः
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
I, whose own nature is impaired by the weakness of spirit, which itself is the defect, whose mind is bewildered with respect to his duty, am asking you. What perhaps is definitely better among the two, that you must tell me. I am your disciple. I have surrendered unto you. You must instruct me.

❋ सन्धिं विभज्य श्लोकः ।
कार्पण्य~दोष~उपहत~स्व~भावः
पृच्छामि त्वां धर्म~संमूढ~चेताः ।
यत्-श्रेयः स्यात्-निश्चितं ब्रूहि तत्-मे
शिष्यः-ते-अहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

❋ अन्वयः ।
कार्पण्य~दोष~उपहत~स्व~भावः धर्म~संमूढ~चेताः (अहं) त्वां पृच्छामि । यत् निश्चितं श्रेयः स्यात् , तत् मे/मम ब्रूहि । अहं ते/तव शिष्यः (अस्मि) । (अहं) त्वां प्रपन्नम् (अस्मि) । (त्वं) मां शाधि ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • कार्पण्य~दोष~उपहत~स्वभावः = he, whose own nature is impaired by the weakness of spirit, which itself is the defect
  • पृच्छामि = I ask
  • त्वाम् = (object) you
  • धर्म~संमूढ~चेताः = he, whose mind is bewildered with respect to his duty
  • यत् = which
  • श्रेयः = better (amongst the two options)
  • स्यात् = may be, perhaps
  • निश्चितम् = (adverb / क्रिया~विशेषणम्) definitely, certainly
  • ब्रूहि = you shall / must speak
  • तत् = that
  • मे = my, unto me
  • शिष्यः = disciple, pupil
  • ते = yours
  • अहम् = I
  • शाधि = you shall / must instruct
  • माम् = (object) me
  • त्वाम् = (object) you
  • प्रपन्नम् = him, who surrendered
❋ सन्धिविवरणम् ।
  • दोष + उपहत = दोषोपहत
  • त्वाम् + धर्मसंमूढचेताः = त्वां धर्मसंमूढचेताः
  • सम् + मूढ = संमूढ
  • यत् + श्रेयः = यच्छ्रेयः / यच्श्रेयः
  • स्यात् + निश्चितम् = स्यान्निश्चितम्
  • निश्चितम् + ब्रूहि = निश्चितं ब्रूहि
  • तत् + मे = तन्मे
  • शिष्यः + ते = शिष्यस्ते
  • ते + अहम् = तेऽहम्
  • अहम् + शाधि = अहं शाधि
  • माम् + त्वाम् = मां त्वाम्
  • त्वाम् + प्रपन्नम् = त्वां प्रपन्नम्
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
After obtaining a prosperous, unrivaled kingdom on earth, and even after obtaining the sovereignty of the demigods in heaven, that (solution) which will remove the grief that is drying up my senses, I do not see.

❋ सन्धिं विभज्य श्लोकः ।
न हि प्रपश्यामि मम-अपनुद्याद्
यत्-शोकम्-उच्छोषणम्-इन्द्रियाणाम् ।
अवाप्य भूमौ-असपत्नम्-ऋद्धं
राज्यं सुराणाम्-अपि च-आधिपत्यम् ॥ ८ ॥

❋ अन्वयः ।
भूमौ असपत्‍नम् ऋद्धं राज्यं अवाप्य सुराणाम् आधिपत्यम् (अवाप्य) च अपि मम इन्द्रियाणाम् उच्छोषणं शोकं यत् अपनुद्याद् , (तत्) न हि प्रपश्यामि ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • हि = indeed
  • न प्रपश्यामि = do not see
  • मम = my, unto me
  • अपनुद्याद् = would remove
  • यत् = which
  • शोकम् = (object) sorrow, grief
  • उच्छोषणम् = (object) drying up
  • इन्द्रियाणाम् = of the sense organs
  • अवाप्य = having obtained
  • भूमौ = on earth
  • अ~सपत्नम् = (object) unrivaled, without enemy
  • ऋद्धम् = (object) prosperous, wealthy, grown
  • राज्यम् = (object) kingdom
  • सुराणाम् = of the demigods (in heaven)
  • अपि = also
  • च = and
  • आधिपत्यम् = (object) power, supremacy, sovereignty, lordship
❋ सन्धिविवरणम् ।
सञ्जय उवाच ।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Sañjaya said: Having spoken thus to Śrī Kṛṣṇa (Hṛṣīkeśa), Arjuna, the one who has conquered sleep; the scorcher, chastiser or subduer of the enemies, told to Śrī Kṛṣṇa (Govinda), "I will not fight", and became quiet.

❋ सन्धिं विभज्य श्लोकः ।
सञ्जय उवाच ।
एवम्-उक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्ये-इति गोविन्दम्-उक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

❋ अन्वयः ।
हृषीकेशम् एवम् उक्त्वा, "न योत्स्ये" इति गोविन्दम् उक्त्वा, गुडाकेशः परन्तपः तूष्णीं बभूव ह ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • सञ्जयः = Sañjaya
  • उवाच = spoke, told
  • एवम् = in this manner
  • उक्त्वा = having spoken or said
  • हृषीक~ईशम् = him, who is the lord of the sense organs → Śrī Kṛṣṇa (Hṛṣīkeśa)
  • गुडाका~ईशः = he, who has conquered sleep / laziness → Arjuna
  • परम्-तपः = he, who is the scorcher, chastiser or subduer of the enemies → Arjuna
  • न योत्स्ये = I will not fight
  • इति = thus
  • गो~विन्दम् = him, who obtains गो (heaven, speech, cattle, earth)
  • उक्त्वा = having spoken or said
  • तूष्णीम् = (adverb / क्रिया~विशेषणम्) silently
  • बभूव = became
  • ह = (none)
❋ सन्धिविवरणम् ।
  • हृषीक + ईशम् = हृषीकेशम्
  • हृषीकेशम् + गुडाकेशः = हृषीकेशं गुडाकेशः
  • गुडाका + ईशः = गुडाकेशः
  • परम् + तपः = परन्तपः
  • योत्स्ये + इति = योत्स्य इति
  • तूष्णीम् + बभूव = तूष्णीं बभूव
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! the descendent of Bharata (Dhṛtarāṣṭra)! In the midst of the armies of both sides, Śrī Kṛṣṇa, the lord of the sense organs (Hṛṣīkeśa), as if smiling, spoke these words to the one who is grief-stricken (Arjuna).

❋ सन्धिं विभज्य श्लोकः ।
तम्-उवाच हृषीकेशः प्रहसन्-इव भारत ।
सेनयोः-उभयोः-मध्ये विषीदन्तम्-इदं वचः ॥ १० ॥

❋ अन्वयः ।
(हे) भारत ! उभयोः सेनयोः मध्ये हृषीकेशः प्रहसन् इव विषीदन्तं तम् इदं वचः उवाच ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • तम् = him
  • उवाच = spoke, told
  • हृषीक~ईशः = one who is the lord of the sense organs → Śrī Kṛṣṇa (Hṛṣīkeśa)
  • प्रहसन्
  • इव = like
  • भारत = O! descendant of Bharata (Bhārata → Dhṛtarāṣṭra)!
  • सेनयोः = of the two armies
  • उभयोः = of the both
  • मध्ये = in the middle
  • विषीदन्तम् = him, who is lamenting, sorrowing, despairing
  • इदम् = (object) this
  • वचः = (object) word
❋ सन्धिविवरणम् ।
  • हृषीक + ईशः = हृषीकेशः
  • सेनयोः + उभयोः = सेनयोरुभयोः
  • उभयोः + मध्ये = उभयोर्मध्ये
  • इदम् + वचः = इदं वचः
श्रीभगवानुवाच ।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Śrī Kṛṣṇa, the splendorous God, said: You lamented upon those not to be lamented for, and (yet) you speak words of wisdom. The learned do not lament upon the dead or upon the living.

❋ सन्धिं विभज्य श्लोकः ।
श्री~भगवान्-उवाच ।
अशोच्यान्-अन्वशोचः-त्वं प्रज्ञा~वादान्-च भाषसे ।
गत~असून्-अगत~असून्-च न-अनुशोचन्ति पण्डिताः ॥ ११ ॥

❋ अन्वयः ।
श्रीभगवान् उवाच । त्वं अशोच्यान् अन्वशोचः । (परन्तु त्वं) प्रज्ञा~वादान् च भाषसे । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • श्री~भगवान् = the splendorous God, deity, the worshipful
  • उवाच = spoke, told
  • अ~शोच्यान् = (object) they all, who should not be lamented upon
  • अन्वशोचः = you lamented
  • त्वम् = you
  • प्रज्ञा~वादान् = (object) words of wisdom
  • च = and
  • भाषसे = you speak
  • गत~असून् = (object) they all, whose life is gone, i.e., the dead
  • अ~गत~असून् = (object) they all, whose life is not gone, i.e., the living
  • च = and
  • न अनुशोचन्ति = do not sorrow, lament, despair
  • पण्डिताः = learned, scholars
❋ सन्धिविवरणम् ।
  • अन्वशोचः + त्वम् = अन्वशोचस्त्वम्
  • त्वम् + प्रज्ञावादान् = त्वं प्रज्ञावादान्
  • प्रज्ञावादान् + च = प्रज्ञावादांश्च
  • अगतासून् + च = अगतासूंश्च
  • न + अनुशोचन्ति = नानुशोचन्ति
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
On the other hand, never too did I not exist (in the past), nor you, nor these kings. And nor too hereafter do we all cease to exist (in the future).

❋ सन्धिं विभज्य श्लोकः ।
न तु-एव-अहं जातु न-आसं न त्वं न-इमे जन~अधिपाः ।
न च-एव न भविष्यामः सर्वे वयम्-अतः परम् ॥ १२ ॥

❋ अन्वयः ।
तु न जातु एव अहं न आसं, न त्वं, न इमे जन~अधिपाः । न अतः परं च एव सर्वे वयं न भविष्यामः ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • तु = on the other hand, but
  • न जातु एव = never too
  • अहम् = I
  • न आसम् = I did not exist (in the past)
  • न त्वम् = nor you
  • न इमे जन~अधिपाः = nor these protectors of mankind (kings)
  • न च एव = and nor too
  • न भविष्यामः = we will cease to exist (in the future)
  • सर्वे = all
  • वयम् = we
  • अतः परम् = hereafter
❋ सन्धिविवरणम् ।
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Just as, in this body of the soul, (the body) goes through childhood, youth and old age; so also (the soul) obtains another body. There, the wise are not fooled.

❋ सन्धिं विभज्य श्लोकः ।
देहिनः-अस्मिन्-यथा देहे कौमारं यौवनं जरा ।
तथा देह~अन्तर~प्राप्तिः धीरः-तत्र न मुह्यति ॥ १३ ॥

❋ अन्वयः ।
यथा अस्मिन् देहे कौमारं यौवनं जरा (प्राप्नोति), तथा देहिनः (अपि) देह~अन्तर~प्राप्तिः (भवति) । तत्र धीरः न मुह्यति ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • देहिनः = of the one that is enshrined in the body (of the soul)
  • अस्मिन् = in this
  • यथा = just as
  • देहे = in the body
  • कौमारम् = childhood
  • यौवनम् = youth
  • जरा = old age
  • तथा = so also, similarly
  • देह~अन्तर~प्राप्तिः = obtaining another body
  • धीरः = wise, sensible, learned
  • तत्र = there
  • न मुह्यति = are not fooled
❋ सन्धिविवरणम् ।
  • देहिनः + अस्मिन् = देहिनोऽस्मिन्
  • कौमारम् + यौवनम् = कौमारं यौवनम्
  • यौवनम् + जरा = यौवनं जरा
  • देह + अन्तर = देहान्तर
  • देहान्तरप्राप्तिः + धीरः = देहान्तरप्राप्तिर्धीरः
  • धीरः + तत्र = धीरस्तत्र
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! the son of Kuntī! On the other hand, contact of the (five) elements is the giver of (all dualities of material nature such as) cold & heat and pleasure & sorrow that have a characteristic of coming and going and are not everlasting. O! the descendant of Bharata (→ Arjuna)! You must tolerate them.

❋ सन्धिं विभज्य श्लोकः ।
मात्रा~स्पर्शाः-तु कौन्तेय शीत~उष्ण~सुख~दुःख~दाः ।
आगम~अपायिनः-अनित्याः-तान्-तितिक्षस्व भारत ॥ १४ ॥

❋ अन्वयः ।
(हे) कौन्तेय ! मात्रा~स्पर्शाः शीतोष्ण~सुखदुःख~दाः आगमापायिनः तु अनित्याः (सन्ति) । (हे) भारत ! (त्वं) तान् तितिक्षस्व ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • मात्रा~स्पर्शाः = contact of the (five) elements (भूमिरापोऽनिलोऽनलो नभः ।)
  • तु = on the other hand, but
  • कौन्तेय = O! the son of Kuntī (Kaunteya → popularly Arjuna)!
  • शीत~उष्ण~सुख~दुःख~दाः = the giver of cold & heat and pleasure & sorrow
    (These are examples of all dualities of material nature)
  • आगम~अपायिनः = they, who have a characteristic of coming and going
  • अ~नित्याः = perishable, transient, not everlasting
  • तान् = (object) they all
  • तितिक्षस्व = you must tolerate
  • भारत = O! descendant of Bharata (Bhārata → Arjuna)!
❋ सन्धिविवरणम् ।
  • मात्रास्पर्शाः + तु = मात्रास्पर्शास्तु
  • शीत + उष्ण = शीतोष्ण
  • आगम + अपायिनः = आगमापायिनः
  • आगमापायिनः + अनित्याः = आगमापायिनोऽनित्याः
  • अनित्याः + तान् = अनित्यास्तान्
  • तान् + तितिक्षस्व = तांस्तितिक्षस्व
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! the man like a bull! That wise man, who is indifferent in both pain and pleasure, to whom these (dualities of material nature) do not cause fear; he is eligible to the state of being immortal.

❋ सन्धिं विभज्य श्लोकः ।
यं हि न व्यथयन्ति-एते पुरुषं पुरुष~ऋषभ ।
सम~दुःख~सुखं धीरं सः अमृतत्वाय कल्पते ॥ १५ ॥

❋ अन्वयः ।
(हे) पुरुष~ऋषभ ! यं सम~दुःख~सुखं धीरं पुरुषं एते (मात्रास्पर्शाः) न हि व्यथयन्ति, सः अमृतत्वाय कल्पते ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • यम् = (object) to whom
  • हि = indeed
  • न व्यथयन्ति = do not cause fear, anger, irritation, vexation
  • एते = these
  • पुरुषम् = him, a man generally or individually, a male, man-kind
  • पुरुष~ऋषभ = best of man, a man like a bull
  • सम~दुःख~सुखम् = him, who is indifferent in both pain and pleasure
  • धीरम् = him, who is wise, sensible, learned
  • सः = (at a distance) he
  • अ~मृतत्वाय = to the state of being immortal
  • कल्पते = eligible
❋ सन्धिविवरणम् ।
  • यम् + हि = यं हि
  • व्यथयन्ति + एते = व्यथयन्त्येते
  • पुरुषम् + पुरुषर्षभ = पुरुषं पुरुषर्षभ
  • पुरुष + ऋषभ = पुरुषर्षभ
  • समदुःखसुखम् + धीरम् = समदुःखसुखं धीरम्
  • धीरम् + सः = धीरं सः
  • सः + अमृतत्वाय = सोऽमृतत्वाय
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
There is no existence of the unreal (the body). There is no non-existence of the real (the soul). The nature of both these have also been seen by the seers of the truth.

❋ सन्धिं विभज्य श्लोकः ।
न-असतः विद्यते भावः न अभावः विद्यते सतः ।
उभयोः-अपि दृष्टः-अन्तः-तु-अनयोः-तत्त्व~दर्शिभिः ॥ १६ ॥

❋ अन्वयः ।
असतः भावः न विद्यते । सतः अभावः न विद्यते । तु उभयोः अनयोः अन्तः अपि तत्व~दर्शिभिः दृष्टः (अस्ति) ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • अ~सतः = of the unreal
  • भावः = existence
  • न विद्यते = is not there
  • सतः = of the real
  • अ~भावः = non-existence
  • न विद्यते = is not there
  • उभयोः = of the both
  • अपि = also
  • दृष्टः = have seen
  • अन्तः = [1] end, final, conclusion; [2] nature
  • तु = on the other hand, but
  • अनयोः = of these
  • तत्त्व~दर्शिभिः = by the seers of the truth
❋ सन्धिविवरणम् ।
  • न + असतः = नासतः
  • असतः + विद्यते = असतो विद्यते
  • भावः + न = भावो न
  • न + अभावः = नाभावः
  • अभावः + विद्यते = अभावो विद्यते
  • उभयोः + अपि = उभयोरपि
  • दृष्टः + अन्तः = दृष्टोऽन्तः
  • अन्तः + तु = अन्तस्तु
  • तु + अनयोः = त्वनयोः
  • अनयोः + तत्त्व = अनयोस्तत्त्व
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
By whom all this is pervaded, you must understand that as which cannot be destroyed. No one is capable of destruction of that immutable.

❋ सन्धिं विभज्य श्लोकः ।
अविनाशि तु तत्-विद्धि येन सर्वम्-इदं ततम् ।
विनाशम्-अव्ययस्य-अस्य न कश्चित् कर्तुम्-अर्हति ॥ १७ ॥

❋ अन्वयः ।
येन सर्वम् इदं ततं, (त्वं) तत् तु अविनाशि विद्धि । अस्य अव्ययस्य विनाशं न कश्चित् कर्तुम् अर्हति ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • अ~विनाशि = that, which cannot be destroyed
  • तु = on the other hand, but
  • तत् = (object) that
  • विद्धि = you must understand
  • येन = by which
  • सर्वम् = all
  • इदम् = this
  • ततम् = pervaded
  • विनाशम् = that, which is destroyed
  • अ~व्ययस्य = of the immutable, imperishable, unchangeable
  • अस्य = of this
  • न कश्चित् = no one
  • कर्तुम् = to do
  • अर्हति = is capable, is worthy
❋ सन्धिविवरणम् ।
  • तत् + विद्धि = तद्विद्धि
  • इदम् + ततम् = इदं ततम्
  • अव्ययस्य + अस्य = अव्ययस्यास्य
  • कश्चित् + कर्तुम् = कश्चित्कर्तुम्
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
It is told that these bodies, of (the soul) that which is everlasting, which cannot be destroyed, which cannot be measured, which is in this body, have an end (built into them). O! the descendant of Bharata, therefore, you must fight.

❋ सन्धिं विभज्य श्लोकः ।
अन्तवन्तः इमे देहाः-नित्यस्य-उक्ताः शरीरिणः ।
अ~नाशिनः-अ~प्रमेयस्य तस्मात्-युध्यस्व भारत ॥ १८ ॥

❋ अन्वयः ।
नित्यस्य अनाशिनः अप्रमेयस्य शरीरिणः इमे देहाः अन्तवन्तः (इति) उक्ताः (सन्ति) । (हे) भारत ! तस्मात् (त्वं) युध्यस्व ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • अन्तवन्तः = they, in whom there is an end
  • इमे = these
  • देहाः = bodies
  • नित्यस्य = of the eternal, everlasting, continual, perpetual
  • उक्ताः = are said
  • शरीरिणः = of that, which is in the body
  • अ~नाशिनः = of that, which cannot be destroyed
  • अ~प्रमेयस्य = of that, what cannot be measured
  • तस्मात् = therefore
  • युध्यस्व = you must fight
  • भारत = O! descendant of Bharata (Bhārata → Arjuna)!
❋ सन्धिविवरणम् ।
  • अन्तवन्तः + इमे = अन्तवन्त इमे
  • देहाः + नित्यस्य = देहा नित्यस्य
  • नित्यस्य + उक्ताः = नित्यस्योक्ताः
  • अनाशिनः + अप्रमेयस्य = अनाशिनोऽप्रमेयस्य
  • तस्मात् + युध्यस्व = तस्माद्युध्यस्व
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Who understands him (soul) as the killer and who believes him (soul) as the killed; they both do not understand. Neither does he (the soul) kill, nor does he get killed.

❋ सन्धिं विभज्य श्लोकः ।
यः-एनं वेत्ति हन्तारं यः-च-एनं मन्यते हतम् ।
उभौ तौ न विजानीतः-न-अयं हन्ति न हन्यते ॥ १९ ॥

❋ अन्वयः ।
यः एनं (देहिनं) हन्तारं वेत्ति च यः एनं (देहिनं) हतम् मन्यते, उभौ तौ न विजानीतः । अयं (देही) न हन्ति न हन्यते (च) ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • यः = who
  • एनम् = him, this person
  • वेत्ति = thinks, understands
  • हन्तारम् = him, who is the killer
  • यः = who
  • च = and
  • एनम् = him, this person
  • मन्यते = believes
  • हतम् = him, who was killed
  • उभौ = both
  • तौ = they both
  • न विजानीतः = they two do not know, understand, realize
  • अयम् = he
  • न हन्ति = does not kill
  • न हन्यते = does not get killed
❋ सन्धिविवरणम् ।
  • यः + एनम् = य एनम्
  • एनम् + वेत्ति = एनं वेत्ति
  • हन्तारम् + यः = हन्तारं यः
  • यः + च = यश्च
  • च + एनम् = चैनम्
  • एनम् + मन्यते = एनं मन्यते
  • विजानीतः + न = विजानीतो न
  • न + अयम् = नायम्
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ २० ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Never is he (the soul) born, or does he die. Neither he (the soul) came into existence, nor will he (the soul) again come into existence. He (the soul), who has no birth, the eternal, the perpetual, the primaeval, does not get killed when the body is killed.

❋ सन्धिं विभज्य श्लोकः ।
न जायते म्रियते वा कदाचित्-
न-अयं भूत्वा भविता वा न भूयः ।
अ~जः-नित्यः शाश्वतः-अयं पुराणः-
न हन्यते हन्यमाने शरीरे ॥ २० ॥

❋ अन्वयः ।
अयं न कदाचित् जायते म्रियते वा, न भूत्वा न भूयः भविता वा । शरीरे हन्यमाने (अपि) अजः नित्यः शाश्वतः पुराणः अयं न हन्यते ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • जायते = be born
  • म्रियते = die
  • वा = or, else
  • न कदाचित् = never
  • अयम् = he
  • न भूत्वा = did not exist
  • न भविता = does not come to existence
  • वा = or, else
  • भूयः = again
  • अ~जः = no birth, no beginning
  • नित्यः = eternal, everlasting, continual, perpetual
  • शाश्वतः = ever-existing, eternal, everlasting, perpetual
  • अयम् = he
  • पुराणः = primaeval, ancient
  • न हन्यते = does not get killed
  • हन्यमाने शरीरे (सति) = when the body is being killed
❋ सन्धिविवरणम् ।
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! the son of Pṛthā (aka Kuntī) (refers to Arjuna)! The one who knows him (the soul), that is unborn, immutable, indestructible, eternal; he, the man, kills whom and how? causes to kill whom and how?

❋ सन्धिं विभज्य श्लोकः ।
वेद-अ~विनाशिनं नित्यं यः-एनम्-अ~जम्-अ~व्ययम् ।
कथं सः-पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

❋ अन्वयः ।
(हे) पार्थ ! यः एनम् अजम् अव्ययम् अविनाशिनं नित्यं वेद, सः पुरुषः कथं कं हन्ति ? (कथं) कं घातयति ?

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • वेद = thinks, understands
  • अ~विनाशिनम् = him, who cannot be destroyed
  • नित्यम् = him who is eternal, everlasting, continual, perpetual
  • यः = who
  • एनम् = him, this person
  • अ~जम् = him, who has no birth or no beginning
  • अ~व्ययम् = him, who is immutable, imperishable, unchangeable
  • कथम् = how
  • सः = (at a distance) he
  • पुरुषः = a man generally or individually, a male, man-kind
  • पार्थ = O! the son of Kuntī! (Pārtha → popularly Arjuna)!
  • कम् = (object) who (mas)
  • घातयति = cause to be killed
  • हन्ति = kills
  • कम् = (object) who (mas)
❋ सन्धिविवरणम् ।
  • वेद + अविनाशिनम् = वेदाविनाशिनम्
  • अविनाशिनम् + नित्यम् = अविनाशिनं नित्यम्
  • नित्यम् + यः = नित्यं यः
  • यः + एनम् = य एनम्
  • कथम् + सः = कथं सः
  • सः + पुरुषः = स पुरुषः
अर्जुन उवाच ।
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Arjuna said: O! Janārdana! If it is your opinion that knowledge is superior to action then, O! Keśava! why do you engage me to do this terrible deed?

❋ सन्धिं विभज्य श्लोकः ।
अर्जुनः उवाच ।
ज्यायसी चेत्-कर्मणः-ते मता बुद्धिः-जन~अर्दन ।
तत्-किं कर्मणि घोरे मां नियोजयसि केश~व ॥ १ ॥

❋ अन्वयः ।
अर्जुनः उवाच । (हे) जनार्दन ! बुद्धिः कर्मणः ज्यायसी (इति) ते मता (भवति) चेत्, (हे) केशव ! (त्वं) तत् घोरे कर्मणि मां किं नियोजयसि ?

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • अर्जुनः = Arjuna
  • उवाच = spoke, told
  • ज्यायसी = better (amongst the two options)
  • चेत् = then
  • कर्मणः = of the action, of the work
  • ते = yours
  • मता = opinion, thought
  • बुद्धिः = intelligence
  • जन~अर्दन = [1] O! the destroyer of births! [2] O! the slayer of the asura by name Jana! [3] O! the one who is begged by the people!
  • तत् = then
  • किम् = why
  • कर्मणि = in the action, in the work
  • घोरे = in the gruesome, horrific, terrific, frieghtful, dreadful
  • माम् = (object) me
  • नियोजयसि = you engage
  • केशव = [1] O! the one with beautiful long hair! [2] O! the slayer of the Keśī, the horse-demon! [3] O! the lord of Brahmā and Śiva!
❋ सन्धिविवरणम् ।
  • अर्जुनः + उवाच = अर्जुन उवाच
  • चेत् + कर्मणः = चेत्कर्मणः
  • कर्मणः + ते = कर्मणस्ते
  • बुद्धिः + जनार्दन = बुद्धिर्जनार्दन
  • तत् + किम् = तत्किम्
  • माम् + नियोजयसि = मां नियोजयसि
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
By seemingly equivocal words, You seem to bewilder my mind. By which I can attain betterment, having ascertained that one thing, you must speak.

❋ सन्धिं विभज्य श्लोकः ।
व्यामिश्रेण-इव वाक्येन बुद्धिं मोहयसि-इव मे ।
तत्-एकं वद निश्चित्य येन श्रेयः-अहम्-आप्नुयाम् ॥ २ ॥

❋ अन्वयः ।
व्यामिश्रेण इव वाक्येन (त्वं) मे बुद्धिम् मोहयसि इव । येन अहं श्रेयः आप्नुयाम् तत् एकं (त्वं) निश्चित्य वद ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • व्यामिश्रेण = by equivocal (able to be understood in more than one way)
  • इव = like
  • वाक्येन = by the words, by the speech
  • बुद्धिम् = (object) intelligence
  • मोहयसि = you cause to bewilder or confuse
  • इव = like
  • मे = my, unto me
  • तत् = (object) that
  • एकम् = alone
  • वद = you must speak
  • निश्चित्य = having ascertained
  • येन = by which
  • श्रेयः = (object) better (amongst the two options)
  • अहम् = I
  • आप्नुयाम् = I would obtain
❋ सन्धिविवरणम् ।
  • व्यामिश्रेण + इव = व्यामिश्रेणेव
  • बुद्धिम् + मोहयसि = बुद्धिं मोहयसि
  • मोहयसि + इव = मोहयसीव
  • तत् + एकम् = तदेकम्
  • एकम् + वद = एकं वद
  • श्रेयः + अहम् = श्रेयोऽहम्
श्रीभगवानुवाच ।
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Śrī Kṛṣṇa, the splendorous God, said: O! the sinless one! In this world, the path of knowledge (by which union with God is to be obtained) of a follower of the Sānkhya system of philosophy, and the path of action (by which union with God is to be obtained) of an ascetic, are the two fold paths that were spoken by me earlier.

❋ सन्धिं विभज्य श्लोकः ।
श्री~भगवान्-उवाच ।
लोके-अस्मिन्-द्वि~विधा निष्ठा पुरा प्रोक्ता मया-अन्~अघ ।
ज्ञान~योगेन साङ्ख्यानां कर्म~योगेन योगिनाम् ॥ ३ ॥

❋ अन्वयः ।
श्रीभगवानुवाच । (हे) अनघ ! अस्मिन् लोके ज्ञानयोगेन साङ्ख्यानां (निष्ठा) कर्मयोगेन योगिनाम् (निष्ठा) (इति) पुरा मया प्रोक्ता द्विविधा निष्ठा (अस्ति) ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • श्री~भगवान् = the splendorous God, deity, the worshipful
  • उवाच = spoke, told
  • लोके = in this world
  • अस्मिन् = in this
  • द्वि~विधा = two folds
  • निष्ठा = intent on, devoted to, situated on, grounded on, resting on, dependent on
  • पुरा = past, before, formerly, old, ancient
  • प्रोक्ता = said
  • मया = by me
  • अन्~अघ = O! the sinless one!
  • ज्ञान~योगेन = by the path or exercise of knowledge through which union with God is to be obtained
  • साङ्ख्यानाम् = of a follower of the Sānkhya system of philosophy (ascribed by Sage Kapila)
  • कर्म~योगेन = by the path or exercise of action through which union with God is to be obtained
  • योगिनाम् = of an ascetic, devotee
❋ सन्धिविवरणम् ।
  • लोके + अस्मिन् = लोकेऽस्मिन्
  • मया + अनघ = मयानघ
  • साङ्ख्यानाम् + कर्मयोगेन = साङ्ख्यानां कर्मयोगेन
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Due to non-commencement of work, a man does not attain the state of actionlessness. And, due to renunciation too success (the state of actionlessness) is not attained.

❋ सन्धिं विभज्य श्लोकः ।
न कर्मणाम्-अन्~आरम्भात्-नैष्कर्म्यं पुरुषः-अश्नुते ।
न च संन्यसनात्-एव सिद्धिं समधिगच्छति ॥ ४ ॥

❋ अन्वयः ।
कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते । संन्यसनात् एव ( नैष्कर्म्यम् इति ) सिद्धिं न समधिगच्छति च ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • कर्मणाम् = of the actions, of the work
  • अन्~आरम्भात् = due to non-commencement
  • नैष्कर्म्यम् = (object) state of actionlessness, state of neglecting worldly actions
  • पुरुषः = a man generally or individually, a male, man-kind
  • न अश्नुते = does not gain, does not attain
  • च = and
  • संन्यसनात् = due to renunciation
  • एव = too, even
  • सिद्धिम् = (object) success, fulfilment, accomplishment
  • न समधिगच्छति = does not attain
❋ सन्धिविवरणम् ।
  • अनारम्भात् + नैष्कर्म्यम् = अनारम्भान्नैष्कर्म्यम्
  • नैष्कर्म्यम् + पुरुषः = नैष्कर्म्यं पुरुषः
  • पुरुषः + अश्नुते = पुरुषोऽश्नुते
  • संन्यसनात् + एव = संन्यसनादेव
  • सिद्धिम् + समधिगच्छति = सिद्धिं समधिगच्छति
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Certainly, no one, can ever stay doing nothing, even for a moment. Certainly, by the innate qualities of nature, all the work are caused to be done, beyond (anyone's) control.

❋ सन्धिं विभज्य श्लोकः ।
न हि कश्चित्-क्षणम्-अपि जातु तिष्ठति-अ~कर्म~कृत् ।
कार्यते हि-अ~वशः कर्म सर्वः प्रकृति~जैः-गुणैः ॥ ५ ॥

❋ अन्वयः ।
न हि कश्चित् क्षणम् अपि जातु अकर्मकृत् तिष्ठति । प्रकृतिजैः गुणैः हि सर्वः कर्म अवशः कार्यते ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • हि = indeed
  • न कश्चित् = no one
  • क्षणम् = (object) the moment
  • अपि = also
  • जातु = at all, by all means, ever
  • तिष्ठति = stay, stand
  • अ~कर्म~कृत् = one who does no work
  • कार्यते = cause to do
  • हि = indeed
  • अ~वशः = helplessly, forcefully
  • कर्म = action, work
  • सर्वः = everything
  • प्रकृति~जैः = by the inborn nature, by the innate nature
  • गुणैः = by the qualities
❋ सन्धिविवरणम् ।
  • कश्चित् + क्षणम् = कश्चित्क्षणम्
  • तिष्ठति + अकर्मकृत् = तिष्ठत्यकर्मकृत्
  • हि + अवशः = ह्यवशः
  • प्रकृतिजैः + गुणैः = प्रकृतिजैर्गुणैः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
The one, who having restrained the senses of action and who, by the mind, sits and thinks of the well-being of sense organs; (he) is called a fool, a hypocrite.

❋ सन्धिं विभज्य श्लोकः ।
कर्म~इन्द्रियाणि संयम्य यः-आस्ते मनसा स्मरन् ।
इन्द्रिय~अर्थान्-विमूढ~आत्मा मिथ्या~आचारः सः-उच्यते ॥ ६ ॥

❋ अन्वयः ।
यः कर्मेन्द्रियाणि संयम्य मनसा इन्द्रियार्थान् स्मरन् आस्ते, सः विमूढात्मा मिथ्याचारः उच्यते ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • कर्म~इन्द्रियाणि = (object) sense organs of action
  • संयम्य = having restrained
  • यः = who
  • आस्ते = sits, sitting
  • मनसा = by the mind
  • स्मरन् = he, who is thinking
  • इन्द्रिय~अर्थान् = for the well-being of sense organs, for the sake of sense organs
  • विमूढ~आत्मा = bewildered soul
  • मिथ्या~आचारः = pretender, hypocrite
  • सः = (at a distance) he
  • उच्यते = being spoken, being told
❋ सन्धिविवरणम् ।
  • कर्म + इन्द्रियाणि = कर्मेन्द्रियाणि
  • यः + आस्ते = य आस्ते
  • इन्द्रिय + अर्थान् = इन्द्रियार्थान्
  • विमूढ + आत्मा = विमूढात्मा
  • मिथ्या + आचारः = मिथ्याचारः
  • सः + उच्यते = स उच्यते
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
O! Arjuna! On the other hand, having restrained the sense organs with the mind, one who, without attachment, begins the path or exercise of action through which union with God is to be obtained, with the sense organs of action; he excels.

❋ सन्धिं विभज्य श्लोकः ।
यः-तु-इन्द्रियाणि मनसा नियम्य-आरभते-अर्जुन ।
कर्म~इन्द्रियैः कर्म~योगम्-अ~सक्तः सः-विशिष्यते ॥ ७ ॥

❋ अन्वयः ।
(हे) अर्जुन ! इन्द्रियाणि मनसा नियम्य, यः तु कर्मेन्द्रियैः कर्मयोगम् असक्तः आरभते, सः विशिष्यते ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • यः = who
  • तु = on the other hand, but
  • इन्द्रियाणि = of the sense organs
  • मनसा = by the mind
  • नियम्य = having restrained, having controlled
  • आरभते = begin
  • अर्जुन = O! Arjuna!
  • कर्म~इन्द्रियैः = by / with the sense organs of action
  • कर्म~योगम् = (object) the path or exercise of action through which union with God is to be obtained
  • अ~सक्तः = he, who is unattached
  • सः = (at a distance) he
  • विशिष्यते = excels, is distinguished
❋ सन्धिविवरणम् ।
  • यः + तु = यस्तु
  • तु + इन्द्रियाणि = त्विन्द्रियाणि
  • नियम्य + आरभते = नियम्यारभते
  • आरभते + अर्जुन = आरभतेऽर्जुन
  • कर्म + इन्द्रियैः = कर्मेन्द्रियैः
  • सः + विशिष्यते = स विशिष्यते
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
You must do your ascertained duty. Certainly action is better than inaction. You will not succeed even in the maintenance of your body without action.

❋ सन्धिं विभज्य श्लोकः ।
नियतं कुरु कर्म त्वं कर्म ज्यायः-हि-अ~कर्मणः ।
शरीर~यात्रा-अपि च ते न प्रसिध्येत्-अ~कर्मणः ॥ ८ ॥

❋ अन्वयः ।
त्वं नियतं कर्म कुरु । अकर्मणः हि कर्म ज्यायः (अस्ति) । अकर्मणः ते (तव) शरीरयात्रा च अपि न प्रसिध्येत् ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • नियतम् = definite, ascertained, clear
  • कुरु = you must do
  • कर्म = (object) action, work
  • त्वम् = you
  • कर्म = action, work
  • ज्यायः = better (amongst the two options)
  • हि = indeed
  • अकर्मणः = than inaction, than no work
  • शरीर~यात्रा = maintenance of the body
  • अपि = also
  • च = and
  • ते = yours
  • न प्रसिध्येत् = it would not succeed
  • अकर्मणः = of inaction
❋ सन्धिविवरणम् ।
  • नियतम् + कुरु = नियतं कुरु
  • त्वम् + कर्म = त्वं कर्म
  • ज्यायः + हि = ज्यायो हि
  • हि + अकर्मणः = ह्यकर्मणः
  • शरीरयात्रा + अपि = शरीरयात्रापि
  • प्रसिध्येत् + अकर्मणः = प्रसिध्येद् अकर्मणः
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
This world is a bondage of work, except than the work for the sake of Vishnu / sacrifice. O! the son of Kuntī! For that sake, without attachment, you must perform the work well.

❋ सन्धिं विभज्य श्लोकः ।
यज्ञ~अर्थात्-कर्मणः-अन्यत्र लोकः-अयं कर्म~बन्धनः ।
तत्-अर्थं कर्म कौन्तेय मुक्त~सङ्गः समाचर ॥ ९ ॥

❋ अन्वयः ।
यज्ञार्थात् कर्मणः अन्यत्र अयं लोकः कर्मबन्धनः । (हे) कौन्तेय ! तदर्थं मुक्तसङ्गः (त्वं) कर्म समाचर ।

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • यज्ञ~अर्थात् = than for the sake of sacrifice
  • कर्मणः = than action, than work
  • अन्यत्र = [1] except, apart from, unless, without; [2] elsewhere, in another place
  • लोकः = world
  • अयम् = he
  • कर्म~बन्धनः = he, who is a bondage of work
  • तत्-अर्थम् = (adverb / क्रिया~विशेषणम्) for that sake
  • कर्म = (object) action, work
  • कौन्तेय = O! the son of Kuntī (Kaunteya → popularly Arjuna)!
  • मुक्त~सङ्गः = by whom attachment is given up
  • समाचर = you must perform well
❋ सन्धिविवरणम् ।
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

❋ आङ्ग्लभाषया तात्पर्यम् ।
Prajāpati (Brahmā), the lord of the people, having created progeny by sacrifice, spoke this before -- "This (yajñā ~ sacrifice) will be the bestower of the desired wishes. (You all) will procreate by this (yajñā ~ sacrifice)".

❋ सन्धिं विभज्य श्लोकः ।
सह~यज्ञाः प्रजाः सृष्ट्वा पुरा-उवाच प्रजा~पतिः ।
अनेन प्रसविष्यध्वम्-एषः-वः-अस्तु-इष्ट~काम~धुक् ॥ १० ॥

❋ अन्वयः ।
सहयज्ञाः प्रजाः सृष्ट्वा पुरा प्रजापतिः (इति) उवाच - " एषः वः इष्टकामधुक् अस्तु । (यूयम्) अनेन प्रसविष्यध्वम् । "

❋ प्रतिपदार्थं व्याकरणविशेषणं च ।
  • सह~यज्ञाः = along with sacrifice
  • प्रजाः = progeny
  • सृष्ट्वा = having created
  • पुरा = past, before, formerly, old, ancient
  • उवाच = spoke, told
  • प्रजा~पतिः = Lord / master of the people, Brahmā
  • अनेन = by this, with this
  • प्रसविष्यध्वम् = you (all) will procreate
  • एषः = (nearby) he
  • वः = yours
  • अस्तु = let it be
  • इष्ट~काम~धुक् = he, who bestows the desired wishes
❋ सन्धिविवरणम् ।
  • पुरा + उवाच = पुरोवाच
  • एषः + वः = एष वः
  • वः + अस्तु = वोऽस्तु
  • अस्तु + इष्टकामधुक् = अस्त्विष्टकामधुक्

Comments