कोविदः - सूक्तिः #03


महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
महाजनस्य महाजन / पुं / ष.वि / ए.व

धातुविवरणम् :-
जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be born, to become, to come to existence)

पदविवरणम् :-
मह् + शतृँ = महत् / त्रि (-हान्-हती-हत्)
(= great, incomprehensible)
जन् + अच् = जन / पुं (-नः)
(= people)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारयः]
महान् च असौ जनः च, तस्य = महाजनस्य
(= of great people)
of great people

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info
सम्पर्कः सम्पर्क / पुं / प्र.वि / ए.व

धातुविवरणम् :-
पृच् [पृचीँ सम्पर्के ; रुधादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to contact, to touch, to join, to unite)

पदविवरणम् :-
सम् + पृच् + घञ् = सम्पर्क / पुं (-कः)
(= company, contact)
company, contact
कस्य किम् / पुं / ष.वि / ए.व for whom?
न उन्नतिकारकः न उन्नतिकारक / पुं / प्र.वि / ए.व

धातुविवरणम् :-
नम् [णमँ प्रह्वत्वे शब्दे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to salute, to greet, to respect, to bend, to sound)
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
उत् + नम् + क्तिन् = उन्नति / स्त्री (-तिः)
(= advancement, rise, upliftment, prosperity)
कृ + ण्वुल् = कारक / त्रि (-रकः-रिका-रकं)
(= provider)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारयः]
उन्नतिः च असौ कारकः च = उन्नतिकारकः
(= one who provides upliftment, prosperity)
one that does not provide upliftment, prosperity

Go Top
विषयः विवरणम्
अन्वयः महाजनस्य सम्पर्कः कस्य उन्नतिकारकः न (भवति)?
तात्पर्यम् उत्तमजनस्य सम्बन्धेन सर्वेषामपि समृद्धिः निश्चयेन भवति ।
Purport For whom the company of great people does not bring prosperity?

Comments