कोविदः - सूक्तिः #02


महीयांसः प्रकृत्या मितभाषिणः ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
महीयांसः महीयस् / पुं / प्र.वि / ब.व

धातुविवरणम् :-
मह् [महँ पूजायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to worship, to revere)

पदविवरणम् :-
मह् + शतृँ = महत् / त्रि (-हान्-हती-हत्)
(= great, incomprehensible)
महत् + ईयसुन् = महीयस् / त्रि (-यान्-यसी-यः)
(= men)

महीयस् / पुं ए.व द्वि.व ब.व
प्र.वि महीयान् महीयांसौ महीयांसः
सं.प्र.वि महीयन् महीयांसौ महीयांसः
द्वि.वि महीयांसम् महीयांसौ महीयसः
तृ.वि महीयसा महीयोभ्याम् महीयोभिः
च.वि महीयसे महीयोभ्याम् महीयोभ्यः
प.वि महीयसः महीयोभ्याम् महीयोभ्यः
ष.वि महीयसः महीयसोः महीयसाम्
स.वि महीयसि महीयसोः महीयःसु / महीयस्सु

great men
प्रकृत्या प्रकृति / स्त्री / तृ.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
प्र + कृ + क्तिन् = प्रकृति / स्त्री (-तिः)
(= natural state or condition of any thing)
natural state or condition of any thing
मितभाषिणः मितभाषिन् / पुं / प्र.वि / ब.व

धातुविवरणम् :-
भाष् [भाषँ व्यक्तायां वाचि ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to articulate, to explain, to elocute)
मा [मा माने ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to measure, to weigh, to limit, to compare in size)

पदविवरणम् :-
भाष् + णिनि = भाषिन् / त्रि (षी-षिणी-षि)
(= one who speaks)
मा + क्त = मित / त्रि (-तः-ता-तं)
(= measured, moderate, limited, few, little)

समासविवरणम् :-
[बहुव्रीहिसमासः]
मितं भाषन्ते इति मितभाषिणः
(= those who speak few words)
those who speak few / little words, in a measured manner

Go Top
विषयः विवरणम्
अन्वयः प्रकृत्या मितभाषिणः महीयांसः ।
तात्पर्यम् प्रकृत्या महापुरुषाः, बहु न, मितम् एव भाषन्ते ।
Purport By nature, great men speak few words.

Comments