भगवद्गीता ॥०१.२०॥


अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अथ अव्ययम् thereupon, moreover
व्यवस्थितान् व्यवस्थित / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
वि + अव + स्था + क्त = व्यवस्थित / त्रि (-तः-ता-तं)
(= who were situated)
those who were situated
दृष्ट्वा दृष्ट्वा / अव्ययम्

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)

पदविवरणम् :-
दृश् + क्त्वा = दृष्ट्वा / अव्ययम्
(= having seen)
having seen
धार्तराष्ट्रान् धार्तराष्ट्र / पुं / द्वि.वि / ब.व

पदविवरणम् :-
धृतराष्ट्र + अपत्यार्थे अण् = धार्तराष्ट्र / पुं (-ष्ट्रः)
(= धृतराष्ट्रस्य अपत्यं पुमान् ; the son of Dhṛtarāṣṭra)
the sons of Dhṛtarāṣṭra
कपिध्वजः कपिध्वज / पुं / प्र.वि / ए.व

पदविवरणम् :-
कपि / पुं
(= monkey)
ध्वज / पुं
(= flag)

समासविवरणम् :-
[बहुव्रीहि-समासः]
कपिः ध्वजे यस्य सः इति कपिध्वजः ।
(= he, in whose flag Hanumān is there)
he, in whose flag Hanumān is there, Arjuna
प्रवृत्ते
शस्त्रसम्पाते
प्रवृत्त / पुं / स.वि / ए.व
शस्त्रसम्पात / पुं / स.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)
पत् [पतॢँ गतौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to go)

पदविवरणम् :-
प्र + वृत् + क्त = प्रवृत्त / त्रि (-तः-ता-तं)
(= engaged in)
सम् + पत् + घञ् = सम्पात / पुं (-तः)
(= discharge)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
शस्त्राणां सम्पातः इति शस्त्रसम्पातः, तस्मिन् = शस्त्रसम्पाते ।
(= in the discharge of missiles)
when engaged in the discharge of missiles

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
धनुः धनुस् / नपुं / द्वि.वि / ए.व

धनुस् / नपुं ए.व द्वि.व ब.व
प्र.वि धनुः धनुषी धनूंषि
सं.प्र.वि धनुः धनुषी धनूंषि
द्वि.वि धनुः धनुषी धनूंषि
तृ.वि धनुषा धनुर्भ्याम् धनुर्भिः
च.वि धनुषे धनुर्भ्याम् धनुर्भ्यः
प.वि धनुषः धनुर्भ्याम् धनुर्भ्यः
ष.वि धनुषः धनुषोः धनुषाम्
स.वि धनुषि धनुषोः धनुःषु / धनुष्षु

the bow
उद्यम्य उद्यम्य / अव्ययम्

धातुविवरणम् :-
यम् [यमँ उपरमे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to stop, to resist, to hinder)

पदविवरणम् :-
उत् + यम् + ल्यप् = उद्यम्य / अव्ययम्
(= having taken, having lifted)
having taken
पाण्डवः पाण्डव / पुं / प्र.वि / ए.व

पदविवरणम् :-
पाण्डु + अपत्यार्थे अण् = पाण्डव / पुं (-वः)
(= पाण्डोः अपत्यं पुमान् ; the son of Pāṇḍu)
the son of Pāṇḍu (here Arjuna)
हृषीकेशम् हृषीकेश / पुं / द्वि.वि / ए.व

पदविवरणम् :-
हृषीक / नपुं
(= an organ of sense)
ईश / पुं
(= the lord, ruler, master)

समासविवरणम् :-
[षष्ट्यर्थे-बहुव्रीहि-समासः]
हृषीकाणाम् (इन्द्रियाणाम्) ईशः यस्य सः हृषीकेशः ।
(= one who is the Lord of the sense organs)
Hṛṣīkeśa, Lord Kṛṣṇa, one who is the Lord of the sense organs
तदा अव्ययम् then
वाक्यम् वाक्य / नपुं / द्वि.वि / ए.व statement
इदम् इदम् / नपुं / द्वि.वि / ए.व

इदम् / नपुं ए.व द्वि.व ब.व
प्र.वि इदम् इमे इमानि
द्वि.वि एनत् / एनद् / इदम् एने / इमे एनानि / इमानि
तृ.वि एनेन / अनेन आभ्याम् एभिः
च.वि अस्मै आभ्याम् एभ्यः
प.वि अस्मात् / अस्माद् आभ्याम् एभ्यः
ष.वि अस्य एनयोः / अनयोः एषाम्
स.वि अस्मिन् एनयोः / अनयोः एषु

this
आह ब्रू + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
speaks
महीपते महीपति / पुं / स.प्र.वि / ए.व

पदविवरणम् :-
मही / स्त्री (-ही)
(= earth)
पति / पुं (-तिः)
(= lord, master)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
मह्याः पतिः इति महीपतिः ।
(= the lord of the earth)
O, the lord of the earth (Dhṛtarāṣṭra)

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (आह) गौणक्रिया 1.1 (उद्यम्य) गौणक्रिया 1.2 (दृष्ट्वा)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि पाण्डवः कपिध्वजः (कपिध्वजः) (कपिध्वजः)
स.प्र.वि (हे) महीपते! धार्तराष्ट्रान् व्यवस्थितान्
द्वि.वि हृषीकेशम्
वाक्यम्
इदम् धनुः
तृ.वि
च.वि
प.वि
ष.वि
स.वि प्रवृत्ते
शस्त्रसम्पाते
अव्ययम् तदा अथ
अन्वयः (हे) महीपते! अथ प्रवृत्ते शस्त्रसम्पाते (सति) कपिध्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा धनुः उद्यम्य तदा इदं वाक्यं हृषीकेशम् आह ।
Purport O! the lord of the earth (Dhṛtarāṣṭra)! Then Arjuna, the son of Pāṇḍu, seated in the chariot bearing the flag marked with Hanumān, after having looked at the sons of Dhṛtarāṣṭra who were situated, having lifted his bow, and when engaged in the discharge of missiles, spoke these words, at that time, to Hṛṣīkeśa, Lord Kṛṣṇa, one who is the Lord of the sense organs.
अन्वयरचना आह
  • कः आह? = पाण्डवः आह
    • कीदृशः पाण्डवः? = कपिध्वजः पाण्डवः
  • किं कृत्वा? = दृष्ट्वा आह
    • कान् दृष्ट्वा? = धार्तराष्ट्रान् दृष्ट्वा
      • कीदृशान् धार्तराष्ट्रान्? = व्यवस्थितान् धार्तराष्ट्रान्
    • कदा दृष्ट्वा? = अथ दृष्ट्वा
  • पुनः किं कृत्वा? = उद्यम्य आह
    • किं उद्यम्य?= धनुः उद्यम्य
  • कम् आह? = हृषीकेशम् आह
  • पुनः किम् आह? = वाक्यम् आह
    • कीदृशं वाक्यम्? = इदं वाक्यम्
  • कदा आह? = तदा आह
    • कदा तदा? = प्रवृत्ते तदा
      • कस्मिन् प्रवृत्ते? = शस्त्रसम्पाते प्रवृत्ते

Comments