शिक्षा - सुभाषितम् #19


ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
ऐश्वर्यस्य ऐश्वर्य / नपुं / ष.वि / ए.व

पदविवरणम् :-
ईश् + वरच् = ईश्वर / पुं
ईश्वर + स्वार्थे ष्यञ् = ऐश्वर्य / नपुं
of affluence
विभूषणं विभूषणम् / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
वि + भूष् + ल्युट् = विभूषण / नपुं
decoration
सुजनता सुजनता / स्त्री / प्र.वि / ए.व courtesy / kindness
शौर्यस्य शौर्य / नपुं / ष.वि / ए.व

पदविवरणम् :-
शूर + स्वार्थे ष्यञ् = शौर्य / नपुं
of valour
वाक्संयमः वाक्संयम / पुं / प्र.वि / ए.व reticence / control or restraint of speech
ज्ञानस्य ज्ञान / नपुं / ष.वि / ए.व of knowledge
उपशमः उपशम / पुं / प्र.वि / ए.व

पदविवरणम् :-
उप + शम् + घञ् = उपशम / पुं
calmness / control or restraint of the senses
श्रुतस्य श्रुत / पुं / ष.वि / ए.व

पदविवरणम् :-
श्रु + क्त = श्रुत / पुं
of learning
विनयः विनय / पुं / प्र.वि / ए.व reverence / humility / modesty
वित्तस्य वित्त / नपुं / ष.वि / ए.व of wealth
पात्रे पात्र / / नपुं / स.वि / ए.व to the deserving
व्ययः व्यय ? / पुं / प्र.वि / ए.व

पदविवरणम् :-
वि + इ + घञ् ?/ अच् ? = व्यय ? / पुं
charity
अक्रोधः अक्रोध / पुं / प्र.वि / ए.व<

पदविवरणम् :-
क्रुध् + घञ् = क्रोध / पुं

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न क्रोध = अक्रोध / पुं
absence of anger
तपसः तपस् / नपुं / ष.वि / ए.व of the austere
क्षमा क्षमा / स्त्री / प्र.वि / ए.व forgivingness / forbearance
प्रभवितुः प्रभवितृ / पुं / ष.वि / ए.व of the powerful
धर्मस्य धर्म / पुं / ष.वि / ए.व of the righteous / justice
निर्व्याजता निर्व्याजता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
निर् + वि + अर्ज + घञ् + टाप् = निर्व्याजता / स्त्री
straightforwardness / absence of pretence
सर्वेषाम् सर्व / पुं / ष.वि / ए.व for everyone
अपि अव्ययम् also / as well
सर्वकारणम् सर्वकारण / नपुं / प्र.वि / ए.व

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
विग्रहवाक्यम् = सर्वस्य कारणम् = सर्वकारणम्
cause of everything
इदम् इदम् / नपुं / प्र.वि / ए.व this
शीलम् शील / नपुं / प्र.वि / ए.व character
परम् पर / पुं ? / द्वि.वि / ए.व

पदविवरणम् :-
पॄ + घञ् = पर?
greatest
भूषणम् भूषणम् / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
भूष् + ल्युट् = भूषण / नपुं
ornament

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
ऐश्वर्यस्य विभूषणं
सुजनता (अस्ति) ।
Kindness is the decoration of affluence.
शौर्यस्य (विभूषणं)
वाक्संयमः (अस्ति) ।
Reticence / restraint of speech is the decoration of valour.
ज्ञानस्य (विभूषणम्)
उपशमः (अस्ति) ।
Calmness / restraint of the senses is the decoration of knowledge.
श्रुतस्य विभूषणं
विनयः (अस्ति) ।
Humility / modesty is the decoration of learning.
वित्तस्य (विभूषणं)
पात्रे व्ययः (अस्ति) ।
Charity to the deserving, is the decoration of wealth.
तपसः (विभूषणम्)
अक्रोधः (अस्ति) ।
Absence of anger is the decoration of the austere.
प्रभवितुः (विभूषणं)
क्षमा (अस्ति) ।
Forgivingness / forbearance is the decoration of the powerful.
र्धर्मस्य (विभूषणं)
निर्व्याजता (अस्ति) ।
Straightforwardness / absence of pretence is the decoration of the righteous.
सर्वकारणम् इदं शीलं
सर्वेषाम् अपि
परं भूषणम् (अस्ति) ।
The cause for everything, this character, is the greatest ornament for everyone as well.

Comments