शिक्षा - सुभाषितम् #20


दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
दिनयामिन्यौ दिन + यामिनी / स्त्री / प्र.वि / द्वि.व

समासविवरणम् :-
[द्वन्द्वसमासः]
दिनः च यामिनी च
day and night
सायम् अव्ययम् dusk
प्रातः अव्ययम्

Note:
प्रातस्
= प्रातर् [By 8-2-66 ससजुषो रुः]
= प्रातः [By 8-3-15 खरवसानयोर्विसर्जनीयः]
dawn
शिशिरवसन्तौ शिशिर + वसन्त / पुं / प्र.वि / द्वि.व

समासविवरणम् :-
[द्वन्द्वसमासः]
शिशिरः च वसन्तः च
winter and spring
पुनः अव्ययम् again
आयातः आङ् + या + कर्तरि लँट् / प्र.पु / द्वि.व comes
कालः काल / पुं / प्र.वि / ए.व time
क्रीडति क्रीड् + कर्तरि लँट् / प्र.पु / ए.व plays
गच्छति गम् + कर्तरि लँट् / प्र.पु / ए.व goes
आयुः आयुस् / नपुं / प्र.वि / ए.व

आयुस् / पुं ए.व द्वि.व ब.व
प्र.वि आयुः आयुषी आयूंषि
सं.प्र.वि आयुः आयुषी आयूंषि
द्वि.वि आयुः आयुषी आयूंषि
तृ.वि आयुषा आयुर्भ्याम् आयुर्भिः
च.वि आयुषे आयुर्भ्याम् आयुर्भ्यः
प.वि आयुषः आयुर्भ्याम् आयुर्भ्यः
ष.वि आयुषः आयुषोः आयुषाम्
स.वि आयुषि आयुषोः आयुःषु / आयुष्षु

life
तत् तद् / नपुं / प्र.वि / ए.व then
अपि अव्ययम् also
अव्ययम् not
मुञ्चति मुच् + कर्तरि लँट् / प्र.पु / ए.व leave
आशावायुः आशावायु / पुं / प्र.वि / ए.व the gust / storm of desire

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
दिनयामिन्यौ (पुनः) आयातः । Day and night comes again.
सायं प्रातः (च पुनः) आयातः । Dusk and dawn come again.
शिशिरवसन्तौ पुनः आयातः । Winter and spring come again.
कालः क्रीडति । Time plays (with our lives).
आयुः गच्छति । Life goes on (is spent).
तत् अपि आशावायुः न मुञ्चति । Even then, one does not leave the gust / storm of desire.

Comments