शिक्षा - सुभाषितम् #18


आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
आशा आशा / स्त्री / प्र.वि / ए.व desire
नाम नामन् / नपुं / प्र.वि / ए.व

नामन् / नपुं ए.व द्वि.व ब.व
प्र.वि नाम नाम्नी / नामनी नामानि
सं.प्र.वि नाम / नामन् नाम्नी / नामनी नामानि
द्वि.वि नाम नाम्नी / नामनी नामानि
तृ.वि नाम्ना नामभ्याम् नामभिः
च.वि नाम्ने नामभ्याम् नामभ्यः
प.वि नाम्नः नामभ्याम् नामभ्यः
ष.वि नाम्नः नाम्नोः नाम्नाम्
स.वि नाम्नि / नामनि नाम्नोः नामसु

name
नदी नदी / स्त्री / प्र.वि / ए.व river
मनोरथजला मनोरथजला / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's plans are its waters

मनोरथा एव जलानि यस्यां सा मनोरथजला ।
तृष्णातरङ्गाकुला तृष्णातरङ्गाकुला / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's greediness are the waves by which the river is agitated

तृष्णा एव तरङ्गाः, तैः आकुला [व्याप्ता] तृष्णातरङ्गाकुला ।
रागग्राहवती रागग्राहवती / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's passions are the crocodiles

रागा एव ग्राहाः सन्ति अस्यां सा रागग्राहवती ।
वितर्कविहगा वितर्कविहगा / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's doubts are the birds

वितर्का एव विहगाः यस्यां सा वितर्कविहगा ।
धैर्यद्रुमध्वंसिनी धैर्यद्रुमध्वंसिनी / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's courage are the trees, which the river levels out / destroys

धैर्यम् एव द्रुमाः, तेषां ध्वंसिनी धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरा मोहावर्तसुदुस्तरा / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
one's infactuations are the whirlpools, and it (the river) is very difficult to be crossed

दुःखेन तीर्यते सा दुस्तरा; सुतरां दुस्तरा सुदुस्तरा ।
मोहा एव आवर्ताः, तैः सुदुस्तरा ।
अति अव्ययम् very
गहना गहना / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
गाह् + णिच् + युच् + टाप् = गहना / स्त्री
deep
प्रोत्तुङ्गचिन्तातटी प्रोत्तुङ्गचिन्तातटी / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
तुजि + घञ् = तुङ्ग
प्र + उत् + तुङ्ग = प्रोत्तुङ्ग

समासविवरणम् :-
[कर्मधारयसमासः]
प्रोत्तुङ्गा च असौ चिन्ता च ।

[कर्मधारयसमासः]
प्रोत्तुङ्गाचिन्ता च असौ तटी च ।
one's anxiety are the river's steep banks

प्रकर्षेण उत्तुङ्गा [उन्नता] प्रोत्तुङ्गा ।
प्रोत्तुङ्गा च असौ चिन्ता च ।
प्रोत्तुङ्गचिन्ता एव तटी यस्याः सा प्रोत्तुङ्गचिन्तातटी ।
तस्याः तद् / स्त्री / ष.वि / ए.व this river
पारगता पारगता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
पार + घञ् = पार / पुं
गम् + क्त = गत / पुं & नपुं
गत + टाप् = गता / स्त्री

समासविवरणम् :-
[द्वितीयतत्पुरुषसमासः]
पार + गत = पारगत / पुं
successfully crossed
विशुद्धमनसः विशुद्धमनस् / नपुं / ष.वि / ए.व

पदविवरणम् :-
वि + शुध् + क्त = विशुद्ध / पुं & नपुं
विशुद्ध + ङीप् = विशुद्धी / स्त्री

समासविवरणम् :-
[कर्मधारयसमासः]
विशुद्धः च तत् मनः च ।

मनस् / नपुं ए.व द्वि.व ब.व
प्र.वि मनः मनसी मनांसि
सं.प्र.वि मनः मनसी मनांसि
द्वि.वि मनः मनसी मनांसि
तृ.वि मनसा मनोभ्याम् मनोभिः
च.वि मनसे मनोभ्याम् मनोभ्यः
प.वि मनसः मनोभ्याम् मनोभ्यः
ष.वि मनसः मनसोः मनसाम्
स.वि मनसि मनसोः मनःसु / मनस्सु

pure-hearted
नन्दन्ति नन्द् + कर्तरि लँट् / प्र.पु / ब.व happy / blissful
योगीश्वराः योग + ईश्वर / पुं / प्र.वि / ब.व ascetics

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
आशा नाम नदी (अस्ति) । Desire is a river.
मनोरथजला । अर्थात् मनोरथा एव जलानि (अस्ति) । One's plans are its waters.

Comments