परिचयः - अन्वयक्रमः #19


अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अगस्त्यवचनात् अगस्त्यवचन / नपुं / प.वि / ए.व

धातुविवरणम् :-
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
अगस्त्य / पुं
(= sage Agastya)
वच् + ल्युट् = वचन / नपुं
(= the act of speaking)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
अगस्त्यस्य वचनम्, तस्मात् = अगस्त्यवचनात्
(= on account of sage Agastya's words)
Due to the advice of sage Agastya
अव्ययम् and
एव अव्ययम् alone
जग्राह ग्रह् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to take, to accept, to obtain)
obtained
ऐन्द्रम् ऐन्द्र / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
इन्द्र + अण् [तद्धित] = ऐन्द्र / नपुं
(= इन्द्रस्य इदम् (नपुं); that which belongs to Indra)
of Indra
शरासनम् शरासन / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
अस् [असुँ क्षेपणे ; दिवादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to throw, to be disappointed)

पदविवरणम् :-
शर / पुं
(= an arrow)
अस् + करणे ल्युट् = असन / नपुं
(= the act of throwing)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
शराणाम् असनम्, तत् = शरासनम्
(= discharging or shooting arrows)
a bow
खड्गम् खड्ग / पुं / द्वि.वि / ए.व a sword
अव्ययम् and
परमप्रीतः परमप्रीत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
प्री [प्रीङ् प्रीतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to please, to love, to show affection)

पदविवरणम् :-
परम / पुं
(= best, most)
प्री + क्त = प्रीत / पुं & नपुं
(= beloved, happy)

समासविवरणम् :-
Interpretation #1
[विशेषण-पूर्वपद-कर्मधारयसमासः]
परमः च सः प्रीतः च = परमप्रीतः
(= the most beloved)

Interpretation #2
[विशेषण-उभयपद-कर्मधारयसमासः]
परमः च सः प्रीतः च = परमप्रीतः
(= the best and the beloved)
Interpretation #1
he (Rāma), who the most beloved; he (Rāma), who is extremely happy

Interpretation #2
he (Rāma), who is the best and the beloved
तूणी तूणि / पुं / द्वि.वि / द्वि.व

तूणि / पुं ए.व द्वि.व ब.व
प्र.वि तूणिः तूणी तूणयः
सं.प्र.वि तूणे तूणी तूणयः
द्वि.वि तूणिम् तूणी तूणीन्
तृ.वि तूणिना तूणिभ्याम् तूणिभिः
च.वि तूणये तूणिभ्याम् तूणिभ्यः
प.वि तूणेः तूणिभ्याम् तूणिभ्यः
ष.वि तूणेः तूण्योः तूणीनाम्
स.वि तूणौ तूण्योः तूणिषु

two quivers
अव्ययम् and
अक्षयसायकौ अक्षयसायक / पुं / द्वि.वि / द्वि.व

धातुविवरणम् :-
क्षि [क्षि क्षये ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to decay, to get killed, to get destroyed, to wane, to go away,
to reduce, to shrink)

सो [षो अन्तकर्मणि ; दिवादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to terminate, to finish, to end)

पदविवरणम् :-
क्षि + भावे अच् = क्षय / पुं
(= decay, loss, waste, exhaust)
अक्षय / पुं
(= durable, permanent, imperishable, inexhaustible)
सो + ण्वुल् = सायक / पुं
(= missiles intended or fitted to be discharged or hurled)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न क्षय = अक्षय / पुं
(= durable, permanent, imperishable, inexhaustible)
[बहुव्रीहिसमासः]
अक्षयौ सायकौ ययोः तौ = अक्षयसायकौ
(= the two, of which the missiles intended or fitted
to be discharged or hurled, never be exhausted)
the two, of which the missiles intended or fitted to be discharged or hurled, never be exhausted

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (जग्राह)
विशेष्यम् विशेषणम्
प्र.वि परमप्रीतः
स.प्र.वि
द्वि.वि शरासनम्
खड्गम्
तूणी
ऐन्द्रम्
-
अक्षयसायकौ
तृ.वि
च.वि
प.वि अगस्त्यवचनात्
ष.वि
स.वि
अव्ययम् एव
अन्वयः परमप्रीतः (रामः) अगस्त्यवचनात् एव ऐन्द्रं शरासनं च खड्गं च अक्षयसायकौ तूणी च जग्राह ।
Purport (Rāma), who is the best and the beloved, on account of the advice of sage Agastya, obtained Indra's bow, a sword and two quivers, of which the missiles intended to be discharged are never exhausted.
अन्वयरचना जग्राह
  • कः जग्राह? = परमप्रीतः (रामः) जग्राह
  • कं जग्राह? = शरासनं च जग्राह
    • कीदृशं शरासनम्? = ऐन्द्रं शरासनम्
  • पुनः कं जग्राह? = खड्गं च जग्राह
  • पुनः कं जग्राह? = तूणी च जग्राह
    • कीदृशौ तूणी? = अक्षयसायकौ तूणी
  • कस्मात् जग्राह? = अगस्त्यवचनात् एव जग्राह

Comments

Post a Comment