परिचयः - अन्वयक्रमः #18


प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
प्रविश्य प्रविश्य / अव्ययम्

धातुविवरणम् :-
विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to enter)

पदविवरणम् :-
प्र + विश् + ल्यप् = प्रविश्य / अव्ययम्
having entered
तु पादपूर्णारणार्थकम् / अव्ययम् -
महारण्यम् महारण्य / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
महत् / नपुं
(= great, incomprehensible)
अरण्य / नपुं
(= forest)

समासविवरणम् :-
[कर्मधारयसमासः]
महत् च तत् अरण्यम् च = महारण्यम् / नपुं
the great forest

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info
रामः राम / पुं / प्र.वि / ए.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= pleasing)
Rāma (one who delights)
राजीवलोचनः राजीवलोचन / पुं / प्र.वि / ए.व

धातुविवरणम् :-
लोच् [लोचृँ दर्शने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to see, to perceive)

पदविवरणम् :-
राजीव / नपुं
(= lotus)
लोच् + ल्युट् = लोचन / नपुं
(= चक्षुः, an eye)

समासविवरणम् :-
[बहुव्रीहिसमासः]
राजीवे इव लोचने यस्य, सः राजीवलोचनः / पुं
one who has eyes like lotus
विराधम् विराध / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
राध् [राधँ संसिद्धौ ; स्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to accomplish, to attain, to fulfill, to achieve)

पदविवरणम् :-
वि + राध् + घञ् = विराध / पुं
(= opposition, prevention, annoyance)
Virādha (the Rākṣasa)
राक्षसम् राक्षस / पुं / द्वि.वि / ए.व the demon
हत्वा हत्वा / अव्ययम्

धातुविवरणम् :-
हन् [हनँ हिंसागत्योः ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to go)

पदविवरणम् :-
हन् + क्त्वा = हत्वा / अव्ययम्
having killed
शरभङ्गम् शरभङ्ग / पुं / द्वि.वि / ए.व Śarabhaṅga
ददर्श दृश् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)
saw
पादपूर्णारणार्थकम् / अव्ययम् -
सुतीक्ष्णम् सुतीक्ष्ण / पुं / द्वि.वि / ए.व Sutīkṣṇa
अव्ययम् and
अपि अव्ययम् also
अगस्त्यम् अगस्त्य / पुं / द्वि.वि / ए.व Agastya
अव्ययम् and
अगस्त्यभ्रातरम् अगस्त्यभ्रातृ / पुं / द्वि.वि / ए.व

पदविवरणम् :-
अगस्त्य / पुं
(= sage Agastya)
भ्रातृ / पुं
(= brother)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
अगस्त्यस्य भ्राता, तम् = अगस्त्यभ्रातरम्
brother of Agastya
तथा तद् + थाल् = तथा / अव्ययम् then

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (ददर्श) गौणक्रिया 1.1 (प्रविश्य) गौणक्रिया 1.2 (हत्वा)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि रामः राजीवलोचनः (रामः) (रामः)
स.प्र.वि
द्वि.वि शरभङ्गम्
सुतीक्ष्णम्
अगस्त्यम्
अगस्त्यभ्रातरम्
महारण्यम् विराधम् राक्षसम्
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम् तथा
तु


अपि
अन्वयः तथा तु राजीवलोचनः रामः महारण्यं प्रविश्य राक्षसं विराधं हत्वा शरभङ्गं सुतीक्ष्णं अगस्त्यं च अगस्त्यभ्रातरम् अपि ददर्श ह ।
Purport Then, Rāma, the one with lotus-like eyes, having entered the great forest, having killed the Virādha demon, met Śarabhaṅga, Sutīkṣṇa, Agastya and also the brother of Agastya.
अन्वयरचना ददर्श
  • कः ददर्श? = रामः ददर्श
    • कीदृशः रामः? = राजीवलोचनः रामः
  • कं ददर्श? = शरभङ्गं ददर्श
    • पुनः कं ददर्श? = सुतीक्ष्णं ददर्श
    • पुनः कं ददर्श? = अगस्त्यं ददर्श
    • पुनः कं ददर्श? = अगस्त्यभ्रातरं च अपि ददर्श
  • किं कृत्वा ददर्श? = प्रविश्य ददर्श
    • कुत्र प्रविश्य? = महारण्यं प्रविश्य
  • पुनः किं कृत्वा ददर्श? = हत्वा ददर्श
    • कं हत्वा? = विराधं हत्वा
      • कीदृशं विराधम्? = राक्षसं विराधम्
  • कदा ददर्श? = तदा ददर्श

Comments