परिचयः - अन्वयक्रमः #17
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ॥
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥
पदविभागः | विवर्णम् | प्रतिपदार्थम् |
---|---|---|
गते भरते |
गत / पुं / स.वि / ए.व भरत / पुं / स.वि / ए.व धातुविवरणम् :- गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go) पदविवरणम् :- गम् + क्त = गत / पुं & नपुं (= gone) |
when Bharata had gone सति सप्तमी प्रयोगः । More info on सति सप्तमी प्रयोगः can be found in: |
तु | पादपूर्णारणार्थकम् / अव्ययम् | but |
श्रीमान् |
श्रीमत् / पुं / प्र.वि / ए.व पदविवरणम् :- श्री + मतुँप् = श्रीमत् / पुं श्रीः अस्य अस्ति, सः श्रीमान् । (= one who has wealth) |
wealthy, opulent. The word is often used as a respectful affix to celebrated or revered names of persons and things in the sense of dignified, as श्रीमद्भागवत, श्रीमत्छंकराचार्य, etc … |
सत्यसन्धः |
सत्यसन्ध / पुं / प्र.वि / ए.व पदविवरणम् :- सत्य / पुं (= true, real) सम् + धा + अङ् = सन्धा / स्त्री (= प्रतिज्ञा, promise, vow) समासविवरणम् :- [बहुव्रीहिसमासः] सत्या सन्धा यस्य, सः सत्यसन्धः |
one whose promise / vow is true |
जितेन्द्रियः |
जितेन्द्रिय / पुं / प्र.वि / ए.व धातुविवरणम् :- जि [जि अभिभवे (न्यूनीभवने न्यूनीकरणे च) ; भ्वादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्] (to decrease, to reduce) पदविवरणम् :- जि + क्त = जित / पुं & नपुं (= conquered, subdued, surpassed, overcome) इन्द्रिय / नपुं (= faculty of sense) समासविवरणम् :- [बहिव्रीहिसमासः] जितानि इन्द्रियाणि येन, सः जितेन्द्रियः |
one by whom the senses are subdued / conquered |
रामः |
राम / पुं / प्र.वि / ए.व धातुविवरणम् :- रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्] (to enjoy, to rejoice, to play) पदविवरणम् :- रम् + घञ् = राम / पुं (= pleasing) |
Rāma (one who delights) |
तु | पादपूर्णारणार्थकम् / अव्ययम् | - |
पुनः | अव्ययम् | again |
आलक्ष्य |
आलक्ष्य / अव्ययम् धातुविवरणम् :- लक्ष् [लक्षँ दर्शनाङ्कनयोः ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्] (to observe, to see, to look, to mark, to point, to deliberate) पदविवरणम् :- लक्ष् + ल्यप् = लक्ष्य / अव्ययम् (= having seen or having been visible) आङ् + लक्ष् + ल्यप् = आलक्ष्य / अव्ययम् (= having been scarcely visible) |
(interpreted as) expecting to see |
नागरस्य |
नागर / पुं / ष.वि / ए.व पदविवरणम् :- नगर + अण् = नागर / पुं (= नगरे भवः , नगरे विद्यमानः, being present in the city) |
being present in the city |
जनस्य |
जन / पुं / ष.वि / ए.व पदविवरणम् :- जन् + अच् = जन / पुं (= the people) |
of the people |
च | अव्ययम् | and |
तत्र | अव्ययम् | there |
आगमनम् |
आगमन / नपुं / द्वि.वि / ए.व धातुविवरणम् :- गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go) पदविवरणम् :- आङ् + गम् + ल्युट् = आगमन / नपुं (= the act of arriving) |
arrival |
एकाग्रः |
एक + अग्र = एकाग्र / पुं / प्र.वि / ए.व पदविवरणम् :- एक / नपुं (= one, single) अग्र / नपुं (= goal) समासविवरणम् :- [बहुव्रीहिसमासः] एकः अग्रः यस्य, सः एकाग्रः |
one who is single-pointed, undisturbed, unperplexed |
दण्डकान् | दण्डक / पुं / द्वि.वि / ब.व |
Daṇḍaka (name of the forest) देशवाचकप्रयोगः बहुवचने एव क्रियते । अतः एव अत्रापि दण्डकान् इति प्रयोगं अस्ति । उदाहरणम् :- अहं कर्नाटकेषु वसामि । भवान् केरलेषु वसति । |
प्रविवेश |
प्र + विश् + कर्तरि लिँट् / प्र.पु / ए.व धातुविवरणम् :- विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to enter) |
entered |
ह | पादपूर्णारणार्थकम् / अव्ययम् | - |
विवरणानि | क्रियापदानि | |||||
---|---|---|---|---|---|---|
प्रधानक्रिया 1.0 (प्रविवेश) | गौणक्रिया 1.1 (गते) | गौणक्रिया 1.2 (आलक्ष्य) | ||||
विशेष्यम् | विशेषणम् | विशेष्यम् | विशेषणम् | विशेष्यम् | विशेषणम् | |
प्र.वि | रामः | श्रीमान् सत्यसन्धः जितेन्द्रियः एकाग्रः |
||||
स.प्र.वि | ||||||
द्वि.वि | दण्डकान् | आगमनम् | ||||
तृ.वि | ||||||
च.वि | ||||||
प.वि | ||||||
ष.वि | नागरस्य जनस्य |
|||||
स.वि | भरते | |||||
अव्ययम् | तु ह |
तु | पुनः तत्र च |
|||
अन्वयः | तु भरते गते श्रीमान् सत्यसन्धः जितेन्द्रियः एकाग्रः रामः तु नागरस्य जनस्य च तत्र पुनः आगमनम् आलक्ष्य दण्डकान् प्रविवेश ह । | |||||
Purport | When Bharata had gone, Rāma, the dignified, one whose promise / vow is true, one by whom the senses are subdued, one who is single-pointed / undisturbed / unperplexed, expecting to see there, the arrival of the people being present in the city, entered Daṇḍaka (the forest). | |||||
अन्वयरचना |
प्रविवेश
|
Comments
Post a Comment