भगवद्गीता ॥०१.०५॥


धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
धृष्टकेतुः धृष्टकेतु / पुं / प्र.वि / ए.व शिशुपालस्य पुत्रः । चेदीदेशस्य राजा । धृष्टकेतुः allied with Pandavas in Kurukshetra war.
चेकितानः चेकितान / पुं / प्र.वि / ए.व धृष्टकेतोः पुत्रः । शिशुपालस्य पौत्रः । केकयदेशस्य राजा । चेकितानः allied with Pandavas in Kurukshetra war. He has a brother named Shaibva and a sister named Karenumati, who married Nakula. On the fifteenth day of Kurukshetra war, he saved Nakula from the clutches of Duryodhana. He was killed by Duryodhana on the final day of the war.
काशिराजः काशिराज / पुं / प्र.वि / ए.व
(= काशीदेशस्य नृपः ।)
The king of Kāśi.
अव्ययम् and
वीर्यवान् वीर्यवत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
वीर + यत् = वीर्य / नपुं
(= valor)
वीर्य + मतुँप् = वीर्यवत्
(= वीर्यम् अस्य अस्ति वा अस्मिन् अस्ति)
(= one who possesses valor)
one who possesses valor
पुरुजित् पुरुजित् / पुं / प्र.वि / ए.व कुन्त्याः भ्राता । पाण्डवानां मातुलः । He allied with Pandavas in Kurukshetra war. In the Mahabharata war he was killed by Droṇācārya.
कुन्तिभोजः कुन्तिभोज / पुं / प्र.वि / ए.व कुन्त्याः भ्राता । पाण्डवानां मातुलः । He allied with Pandavas in Kurukshetra war. In the Mahabharata war he was killed by Droṇācārya.
अव्ययम् and
शैब्यः शैब्य / पुं / प्र.वि / ए.व

पदविवरणम् :-
शिबि + ष्यञ् (राजा इत्यर्थे) = शैब्य / नपुं
(= शिबेः राजा)
युधिष्ठिरस्य श्वशुरः । शिबिराज्यस्य राजा । He allied with Pandavas in Kurukshetra war. शैब्यः was the father-in-law of युधिष्ठिरः । His daughter Devika was married to युधिष्ठिरः ।
अव्ययम् and
नरपुङ्गवः नरपुङ्गव / पुं / प्र.वि / ए.व

पदविवरणम् :-
पुंस् / पुं
(= मनुष्यजातिपुरुषः)
पुंस् + गो + अच् = पुङ्गवः (पुमान् गौः)
(= human offspring and a bull)

समासविवरणम् :-
[ TBD कर्मधारय-समासः]
पुमान् च असौ गौः च = पुङ्गवः (श्रेष्ठः)
(= human offspring and a bull)
(= श्रेष्ठत्वं बोधयति । अत्र श्रेष्ठत्वं एव साधारणधर्मः ।)

[सप्तमी-तत्पुरुष-समासः]
नरेषु पुङ्गवः = नरपुङ्गवः
(= best of men)

पुंस् / पुं ए.व द्वि.व ब.व
प्र.वि पुमान् पुमांसौ पुमांसः
सं.प्र.वि पुमन् पुमांसौ पुमांसः
द्वि.वि पुमांसम् पुमांसौ पुंसः
तृ.वि पुंसा पुम्भ्याम् / पुंभ्याम् पुम्भिः / पुंभिः
च.वि पुंसे पुम्भ्याम् / पुंभ्याम् पुम्भ्यः / पुंभ्यः
प.वि पुंसः पुम्भ्याम् / पुंभ्याम् पुम्भ्यः / पुंभ्यः
ष.वि पुंसः पुंसोः पुंसाम्
स.वि पुंसि पुंसोः पुंसु

गो / पुंस्त्री ए.व द्वि.व ब.व
प्र.वि गौः गावौ गावः
सं.प्र.वि गौः गावौ गावः
द्वि.वि गाम् गावौ गाः
तृ.वि गवा गोभ्याम् गोभिः
च.वि गवे गोभ्याम् गोभ्यः
प.वि गोः गोभ्याम् गोभ्यः
ष.वि गोः गवोः गवाम्
स.वि गवि गवोः गोषु

best of men (नरश्रेष्ठः)

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (सन्ति)
विशेष्यम् विशेषणम्
प्र.वि धृष्टकेतुः
चेकितानः
काशिराजः
पुरुजित्
कुन्तिभोजः
शैब्यः
वीर्यवान् (for काशिराजः)
नरपुङ्गवः (for शैब्यः)
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम्
अन्वयः धृष्टकेतुः, चेकितानः, वीर्यवान् काशिराजः, पुरुजित्, कुन्तिभोजः, नरपुङ्गवः शैब्यः च सन्ति ।
तात्पर्यम् Dhṛṣṭaketu, Cekitāna, the valorous king of Kāśi, Purujit, Kuntibhoja and the best of men Śaibya are here.
अन्वयरचना अस्ति
  • कः अस्ति? = धृष्टकेतुः अस्ति
  • पुनः कः अस्ति? = चेकितानः अस्ति
  • पुनः कः अस्ति? = काशिराजः अस्ति
    • कीदृशः काशिराजः? = वीर्यवान् काशिराजः
  • पुनः कः अस्ति? = पुरुजित् अस्ति
  • पुनः कः अस्ति? = कुन्तिभोजः अस्ति
  • पुनः कः अस्ति? = शैब्यः अस्ति
    • कीदृशः शैब्यः? = नरपुङ्गवः शैब्यः

Comments