भगवद्गीता ॥०१.०६॥


युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
युधामन्युः युधामन्यु / पुं / प्र.वि / ए.व द्रौपद्याः भ्राता
अव्ययम् and
विक्रान्तः विक्रान्त / पुं / प्र.वि / ए.व

धातुविवरणम् :-
क्रम् [क्रमुँ पादविक्षेपे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to walk, to step, to go ahead, to cross, to leap,
to ascend, to protect, to approach)


पदविवरणम् :-
वि + क्रम् + क्त = विक्रान्त / पुं & नपुं
(= valiant, mighty, overcoming victorious)
great prowess
उत्तमौजाः उत्तमौजस् / पुं / प्र.वि / ए.व

पदविवरणम् :-
उत् + तम् + अच् = उत्तम / पुं
(= best)
ओजस् / पुं
(= vital faculties and organs)

समासविवरणम् :-
[बहुव्रीहि-समासः]
उत्तमः ओजाः यस्य सः = उत्तमौजाः
(= one who has best vital faculties and organs)

ओजस् / पुं ए.व द्वि.व ब.व
प्र.वि ओजाः ओजसौ ओजसः
सं.प्र.वि ओजः ओजसौ ओजसः
द्वि.वि ओजसम् ओजसौ ओजसः
तृ.वि ओजसा ओजोभ्याम् ओजोभिः
च.वि ओजसे ओजोभ्याम् ओजोभ्यः
प.वि ओजसः ओजोभ्याम् ओजोभ्यः
ष.वि ओजसः ओजसोः ओजसाम्
स.वि ओजसि ओजसोः ओजःसु / ओजस्सु

द्रौपद्याः भ्राता
अव्ययम् and
वीर्यवान् वीर्यवत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
वीर + यत् = वीर्य / नपुं
(= valor)
वीर्य + मतुँप् = वीर्यवत्
(= वीर्यम् अस्य अस्ति वा अस्मिन् अस्ति)
(= one who possesses valor)
one who possesses valor
सौभद्रः सौभद्र / पुं / प्र.वि / ए.व

पदविवरणम् :-
सुभद्रा + अपत्यार्थे अण् = सौभद्र / पुं
(= सुभद्रायाः अपत्यं पुमान् ।)
(= Abhimanyu, the son of Subhadrā)
Abhimanyu, the son of Subhadrā
द्रौपदेयाः द्रौपदेय / पुं / प्र.वि / ब.व

पदविवरणम् :-
द्रुपद + अपत्यार्थे अण् = द्रौपद / पुं
(= द्रुपदस्य अपत्यं पुमान् ।)
(= the son of Drupada)
द्रुपद + अपत्यार्थे अण् + ङीप् = द्रौपदी / स्त्री
(= द्रुपदस्य अपत्यं स्त्री ।)
(= Draupadī, the daughter of Drupada)
द्रौपदी + अपत्यार्थे ढक् = द्रौपदेय / पुं
(= द्रौपद्याः अपत्यं पुमान् ।)
(= the son of Draupadī)
the sons of Draupadī, द्रौपद्याः अपत्यानि पुमांसः, द्रौपद्याः पञ्च पुत्राः, उपपाण्डवाः
अव्ययम् and
सर्वे सर्व / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
सर्वे + एव
= सर्व् + ए + एव
= सर्व् + अय् + एव (यान्तवान्तादेशदेशसन्धिः)
= सर्व् + अ + एव (प्रकृतिभाव-यकारवकारलोपसन्धिः)
= सर्व + एव
all
एव अव्ययम् only
महारथाः महारथ / पुं / प्र.वि / ब.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
रथ / पुं
(= chariot)

समासविवरणम् :-
[बहुव्रीहि-समासः]
महान् रथः येषां ते = महारथाः
(= one who has great chariot)

Additional notes:

पदातिकः (foot soldier / Infantry man)
अश्वारोही (horse man)
गजः (elephant)
रथिः (A soldier on a chariot)

1 अश्वारोही = 12 पदातिकः
1 गजः = 12 अश्वारोही
1 अर्धरथिः = 1 गजः
1 रथिः = 12 अर्धरथिः / गजः
1 रथिः = 144 अश्वारोही = 1728 पदातिकः
1 अधिरथिः = 12 रथिः
1 महारथिः = 12 अधिरथिः = 144 रथिः
1 अधिमहारथिः = 12 महारथिः
1 महामहारथिः = 24 अधिमहारथिः
one who has great chariot

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (सन्ति)
विशेष्यम् विशेषणम्
प्र.वि युधामन्युः
उत्तमौजाः
सौभद्रः
द्रौपदेयाः
विक्रान्तः (for युधामन्युः)
वीर्यवान् (for उत्तमौजाः)

महारथाः (for all)
सर्वे (for all)
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम्
एव
अन्वयः विक्रान्तः युधामन्युः, वीर्यवान् उत्तमौजाः, सौभद्रः, द्रौपदेयाः च (सन्ति) ।
सर्वे महारथाः एव (सन्ति) ।
तात्पर्यम् Yudhāmanyu of great prowess, Uttamauja, who has best vital faculties and organs and possesses valor, Abhimanyu, the son of Subhadrā, the sons of Draupadī are here. All of them are Mahārathas.
अन्वयरचना सन्ति
  • के के सन्ति? = युधामन्युः, उत्तमौजाः, सौभद्रः, द्रौपदेयाः च सन्ति
    • कीदृशः युधामन्युः? = विक्रान्तः युधामन्युः
    • कीदृशः उत्तमौजाः? = वीर्यवान् उत्तमौजाः
    • कीदृशाः सन्ति? = महारथाः सन्ति
      • के महारथाः? = सर्वे महारथाः एव

Comments