भगवद्गीता ॥०१.०४॥


अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
अत्र अत्र / अव्ययम् here
शूराः शूर / पुं / प्र.वि / ब.व valorous men
महेष्वासाः महेष्वास / पुं / प्र.वि / ब.व

धातुविवरणम् :-
अस् [असुँ क्षेपणे ; दिवादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to throw, to be disappointed)

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
इषु / पुं
(= an arrow)
अस् + करणार्थे (साधनार्थे) घञ् = आस् / पुं
(= throw)
इषु + आस् = इष्वास / पुं
(= इषुः अस्यन्ते अनेन इति इष्वासः । येन इषवः क्षिप्यन्ते । )
(= केन इषवः क्षिप्यन्ते ? धनुषा क्षिप्यन्ते । )
(= thrower of an arrow, bow)

समासविवरणम् :-
[बहुव्रीहि-समासः]
महान् इष्वासः येषां ते = महेष्वासाः
(= one who has great thrower of arrows, great bows)
a thrower of arrows, great archers
भीमार्जुनसमाः भीमार्जुनसम / पुं / प्र.वि / ब.व

पदविवरणम् :-
भीम / पुं
(= Bhīma)
अर्जुन / पुं
(= Arjuna)
सम / पुं
(= equal)

समासविवरणम् :-
[द्वन्द्व-समासः]
भीमः च अर्जुनः च = भीमार्जुनौ
(= Bhīma and Arjuna)

[तृतीया-तत्पुरुष-समासः]
भीमार्जुनाभ्यां समाः = भीमार्जुनसमाः
(= equal to Bhīma and Arjuna)

[षष्ठी-तत्पुरुष-समासः]
भीमार्जुनयोः समाः = भीमार्जुनसमाः
(= equal to Bhīma and Arjuna)
equal to Bhima and Arjuna
युधि युध् / पुं / स.वि / ए.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)

पदविवरणम् :-
युध् + क्विप् = युध् / स्त्री

युध् / स्त्री ए.व द्वि.व ब.व
प्र.वि युत् / युद् युधौ युधः
सं.प्र.वि युत् / युद् युधौ युधः
द्वि.वि युधम् युधौ युधः
तृ.वि युधा युद्भ्याम् युद्भिः
च.वि युधे युद्भ्याम् युद्भ्यः
प.वि युधः युद्भ्याम् युद्भ्यः
ष.वि युधः युधोः युधाम्
स.वि युधि युधोः युत्सु

in war
युयुधानः युयुधान / पुं / प्र.वि / ए.व Yuyudhāna aka Sātyaki, was a powerful Yādava chieftain of Nārāyaṇi Sena, belonging to the Vṛṣṇi clan to which Kṛṣṇa also belonged. A valiant warrior, Sātyaki was devoted to Kṛṣṇa and was a student of Arjuna.
विराटः विराट / पुं / प्र.वि / ए.व King of Virāṭa
अव्ययम् and
द्रुपदः द्रुपद / पुं / प्र.वि / ए.व Drupada
अव्ययम् and
महारथः महारथ / पुं / प्र.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
रथ / पुं
(= chariot)

समासविवरणम् :-
[बहुव्रीहि-समासः]
महान् रथः यस्य सः = महारथः
(= one who has great chariot)

Additional notes:

पदातिकः (foot soldier / Infantry man)
अश्वारोही (horse man)
गजः (elephant)
रथिः (A soldier on a chariot)

1 अश्वारोही = 12 पदातिकः
1 गजः = 12 अश्वारोही
1 अर्धरथिः = 1 गजः
1 रथिः = 12 अर्धरथिः / गजः
1 रथिः = 144 अश्वारोही = 1728 पदातिकः
1 अधिरथिः = 12 रथिः
1 महारथिः = 12 अधिरथिः = 144 रथिः
1 अधिमहारथिः = 12 महारथिः
1 महामहारथिः = 24 अधिमहारथिः
one who has great chariot

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (सन्ति)
विशेष्यम् विशेषणम्
प्र.वि युयुधानः
विराटः
द्रुपदः
शूराः
महेष्वासाः
भीमार्जुनसमाः
महारथः (for द्रुपदः only)
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि
स.वि युधि
अव्ययम् अत्र
अन्वयः अत्र शूराः महेष्वासाः युधि भीमार्जुनसमाः युयुधानः विराटः च महारथः द्रुपदः च (सन्ति) ।
तात्पर्यम् Here are valorous men, great archers, who are equal to Bhīma and Arjuna at war -- Yuyudhāna (Sātyaki), Virāṭa and the Mahārathi Drupada
अन्वयरचना सन्ति
  • के सन्ति? = शूराः सन्ति
    • कीदृशाः शूराः? = महेष्वासाः शूराः
    • पुनः कीदृशाः शूराः? = भीमार्जुनसमाः शूराः
      • कुत्र भीमार्जुनसमाः? = युधि भीमार्जुनसमाः
    • के के शूराः? = युयुधानः विराटः द्रुपदः च
      • कीदृशः द्रुपदः = महारथः द्रुपदः
  • कुत्र सन्ति? = अत्र सन्ति

Comments