भगवद्गीता ॥०१.०३॥


पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
पश्य दृश् + कर्तरि लोँट् / म.पु / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)
see
एताम् एतद् / स्त्री / द्वि.वि / ए.व

एतद् / स्त्री ए.व द्वि.व ब.व
प्र.वि एषा एते एताः
द्वि.वि एनाम् / एताम् एने / एते एनाः / एताः
तृ.वि एनया / एतया एताभ्याम् एताभिः
च.वि एतस्यै एताभ्याम् एताभ्यः
प.वि एतस्याः एताभ्याम् एताभ्यः
ष.वि एतस्याः एनयोः / एतयोः एतासाम्
स.वि एतस्याम् एनयोः / एतयोः एतासु

this
पाण्डुपुत्राणाम् पाण्डुपुत्र / पुं / ष.वि / ब.व

पदविवरणम् :-
पाण्डु / पुं
(= king Pāṇḍu)
पुत्र / पुं
(= son)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
पाण्डोः पुत्रः, तेषाम् = पाण्डुपुत्राणाम्
(= of the sons of Pāṇḍu)
of the sons of Pāṇḍu
आचार्य आचार्य / पुं / स.प्र.वि / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)

पदविवरणम् :-
आङ् + चर् + ण्यत् = आचार्य / पुं
(= a spiritual guide, teacher, preceptor)
O! Guru Droṇācārya!
महतीम् महती / स्त्री / द्वि.वि / ए.व

पदविवरणम् :-
मह् + अति [उणादि] = महत् / त्रि (-हान्‌-हती-हत्)
महत् + ङीप् = महती / स्त्री
(= great, large, best, excellent, illustrious)
great
चमूम् चमू / स्त्री / द्वि.वि / ए.व army
व्यूढाम् व्यूढा / स्त्री / द्वि.वि / ए.व arrangement
द्रुपदपुत्रेण द्रुपदपुत्र / पुं / तृ.वि / ए.व

पदविवरणम् :-
द्रुपद / पुं
(= king Drupada)
पुत्र / पुं
(= son)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
द्रुपदस्य पुत्रः, तेन = द्रुपदपुत्रेण
(= by the son of Drupada)
by the son of Drupada (द्रुपदः), i.e., Dhṛṣṭadyumna (धृष्टद्युम्नः)
तव युष्मद् / त्रि / ष.वि / ए.व

युष्मद् / त्रि ए.व द्वि.व ब.व
प्र.वि त्वम् युवाम् यूयम्
द्वि.वि त्वाम् / त्वा युवाम् / वाम् युष्मान् / वः
तृ.वि त्वया युवाभ्याम् युष्माभिः
च.वि तुभ्यम् / ते युवाभ्याम् / वाम् युष्मभ्यम् / वः
प.वि त्वत् / त्वद् युवाभ्याम् युष्मत् / युष्मद्
ष.वि तव / ते युवयोः / वाम् युष्माकम् / वः
स.वि त्वयि युवयोः युष्मासु

of yours
शिष्येण शिष्य / पुं / तृ.वि / ए.व by the student
धीमता धीमत् / पुं / तृ.वि / ए.व

धातुविवरणम् :-
ध्यै [ध्यै चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to think, to meditate, to recollect, to concentrate upon)

पदविवरणम् :-
ध्यै + भावे क्विप् संप्रसारणञ्च = धी / स्त्री
(= understanding, intelligence, wisdom)
धी + मतुँप् = धीमत् / पुं
(= धीः अस्य अस्ति वा अस्मिन् अस्ति)
(= one who has understanding, intelligence, wisdom)

धी / स्त्री ए.व द्वि.व ब.व
प्र.वि धीः धियौ धियः
सं.प्र.वि धीः धियौ धियः
द्वि.वि धियम् धियौ धियः
तृ.वि धिया धीभ्याम् धीभिः
च.वि धियै / धिये धीभ्याम् धीभ्यः
प.वि धियाः / धियः धीभ्याम् धीभ्यः
ष.वि धियाः / धियः धियोः धीनाम् / धियाम्
स.वि धियाम् / धियि धियोः धीषु

by one who has understanding, intelligence, wisdom; by one who is wise

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (पश्य)
विशेष्यम् विशेषणम्
प्र.वि (त्वम्)
स.प्र.वि हे आचार्य!
द्वि.वि चमूम् एताम्
महतीम्
व्यूढाम्
तृ.वि द्रुपदपुत्रेण शिष्येण
धीमता
च.वि
प.वि
ष.वि तव
पाण्डुपुत्राणाम्
स.वि
अव्ययम्
अन्वयः हे आचार्य! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणाम् एतां महतीं चमूं (त्वं) पश्य ।
तात्पर्यम् O! Guru Droṇācārya! See this great army of the sons of Pāṇḍu, which has been arranged in an array (a vyuha), by your disciple, (Dhṛṣṭadyumna), the wise son of Drupada.
अन्वयरचना पश्य
  • कः पश्य? = आचार्य ! (त्वम्) पश्य
  • कां पश्य? = चमूं पश्य
    • केषां चमूं? = पाण्डुपुत्राणां चमूं
    • कीदृशीं चमूं? = एतां चमूं
    • पुनः कीदृशीं चमूं? = महतीं चमूं
    • पुनः कीदृशीं चमूं? = व्यूढां चमूं
      • केन व्यूढां? = द्रुपदपुत्रेण व्यूढां
        • कीदृशेन द्रुपदपुत्रेण? = धीमता द्रुपदपुत्रेण
        • पुनः कीदृशेन द्रुपदपुत्रेण? = शिष्येण द्रुपदपुत्रेण
          • कस्य शिष्येण? = तव शिष्येण

Comments