भगवद्गीता ॥०१.०२॥


दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
दृष्ट्वा दृष्ट्वा / अव्ययम्

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)

पदविवरणम् :-
दृश् + क्त्वा = दृष्ट्वा / अव्ययम्
(= having seen)
having seen
तु पादपूरणार्थकम् / अव्ययम् on the other hand
पाण्डवानीकम् पाण्डवानीक / पुं / द्वि.वि / ए.व

पदविवरणम् :-
पाण्डु + अण् = पाण्डव / पुं
(= the sons of Pāṇḍu)
अनीक / पुं & नपुं
(= the army)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
पाण्डवस्य अनीकम्, तम् = पाण्डवानीकम्
(= the army of the sons of Pāṇḍu)
the army of the sons of Pāṇḍu
व्यूढम् व्यूढ / पुं / द्वि.वि / ए.व array
दुर्योधनः दुर्योधन / पुं / पुं.वि / ए.व Duryodhana
तदा तदा / अव्ययम् then
आचार्यम् आचार्य / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)

पदविवरणम् :-
आङ् + चर् + ण्यत् = आचार्य / पुं
(= a spiritual guide, teacher, preceptor)
a spiritual guide, teacher, preceptor (Guru Droṇācārya)
उपसङ्गम्य उप + सम् + गम् + ल्यप् / अव्ययम्

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
उप + सम् + गम् + ल्यप् / अव्ययम्
(= having approached)
having approached
राजा राजन् / पुं / प्र.वि / ए.व

राजन् / पुं ए.व द्वि.व ब.व
प्र.वि राजा राजानौ राजानः
सं.प्र.वि राजन् राजानौ राजानः
द्वि.वि राजानम् राजानौ राज्ञः
तृ.वि राज्ञा राजभ्याम् राजभिः
च.वि राज्ञे राजभ्याम् राजभ्यः
प.वि राज्ञः राजभ्याम् राजभ्यः
ष.वि राज्ञः राज्ञोः राज्ञाम्
स.वि राज्ञि / राजनि राज्ञोः राजसु

the king (Duryodhana)
वचनम् वचन / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
वच् + ल्युट् = वचन / नपुं
(= the act of speaking)
words
अब्रवीत् ब्रू + कर्तरि लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
spoke

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (अब्रवीत्) गौणक्रिया (दृष्ट्वा) गौणक्रिया (उपसङ्गम्य)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि दुर्योधनः राजा
स.प्र.वि
द्वि.वि वचनम् पाण्डवानीकम् व्यूढम् आचार्यम्
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम् तदा
तु
अन्वयः तदा राजा दुर्योधनः तु व्यूढं पाण्डवानीकं दृष्ट्वा आचार्यं उपसङ्गम्य वचनम् अब्रवीत् ।
तात्पर्यम् Then, the king Duryodhana, having seen the army of the sons of Pāṇḍu in array, having approached his teacher, preceptor (Guru Droṇācārya), spoke these words.
अन्वयरचना अब्रवीत्
  • कः अब्रवीत्? = दुर्योधनः अब्रवीत्
    • कीदृशः दुर्योधनः? = राजा दुर्योधनः
  • कम् अब्रवीत्? = वचनम् अब्रवीत्
  • किं कृत्वा अब्रवीत्? = दृष्ट्वा अब्रवीत्
    • किं दृष्ट्वा? = पाण्डवानीकं दृष्ट्वा
      • कीदृशं पाण्डवानीकं? = व्यूढं पाण्डवानीकं
  • किं कृत्वा अब्रवीत्? = उपसङ्गम्य अब्रवीत्
    • कम् उपसङ्गम्य? = आचार्यम् उपसङ्गम्य
  • कदा अब्रवीत्? = तदा अब्रवीत्

Comments