कर्मणि प्रयोगः ।


॥ भाषाभ्यासः → कर्मणि प्रयोगः ॥


कर्मणि प्रयोगनियमः ।

  1. सकर्मकधातोः तिङन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् →

    1. कर्तरिवाक्ये कर्मपदम् अस्ति चेत्, कर्मणिवाक्ये धातुरूपं कर्मणिवाक्यस्य कर्तृपदम् अनुसरति ।

    2. कर्तरिवाक्ये कर्मपदम् नास्ति चेत्, कर्मणिवाक्ये धातुरूपं प्र.पु / ए.व एव अनुसरति ।

  2. सकर्मकधातोः कृदन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् →

    1. कर्तरिवाक्ये कर्मपदम् अस्ति चेत्, कर्मणिवाक्ये कृदन्तरूपं कर्मणिवाक्यस्य कर्तृपदम् अनुसरति ।

    2. कर्तरिवाक्ये कर्मपदम् नास्ति चेत्, कर्मणिवाक्ये कृदन्तरूपं नपुं / प्र.वि / ए.व एव अनुसरति ।



(०५) पञ्चमः पाठः - कर्मणि लँट्


Go Top
क्रम० वाक्यानि
5.01 छात्रेण श्लोकः पठ्यते ।
Verse is being read by the student.

धातुविवरणम् :-
पठ् [पठँ व्यक्तायां वाचि ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to learn, to read, to study, to recite)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → छात्रः श्लोकं पठति ।
  ➀  श्लोकम् (२.१) ⇒ श्लोकः (१.१)
  ➁  पठ्यते [ पठ् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, श्लोकः (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  छात्रः (१.१) ⇒ छात्रेण (३.१)
कर्मणि वाक्यम् → छात्रेण श्लोकः पठ्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् छात्रेण श्लोकः पठ्यते ।
Verse is being read by the student.
छात्रः श्लोकं पठति ।
The student is reading the verse.
+ लँङ् छात्रेण श्लोकः अपठ्यत ।
Verse was read by the student.
छात्रः श्लोकम् अपठत् ।
The student read the verse.
+ लृँट् छात्रेण श्लोकः पठिष्यते ।
Verse will be read by the student.
छात्रः श्लोकं पठिष्यति ।
The student will read the verse.
+ लोँट् छात्रेण श्लोकः पठ्यताम् ।
Let the verse be read by the student.
छात्रः श्लोकं पठतात् / पठतु ।
Let the student read the verse.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
छात्रेण श्लोकः पठ्येत ।
Verse may / should be read by the student.
छात्रेण श्लोकः पठितव्यः ।
Verse should be read by the student.
छात्रेण श्लोकः पठनीयः ।
Verse should be read by the student.
छात्रः श्लोकं पठेत् ।
The student may / should read the verse.
+ क्त /
क्तवतुँ
छात्रेण श्लोकः पठितः । (क्त-प्रत्ययः)
Verse was read by the student.
छात्रः श्लोकं पठितवान् । (क्तवतुँ-प्रत्ययः)
The student read the verse.

5.02 गणेशेन मोदकं खाद्यते ।
Dumpling is being eaten by Ganesha.

धातुविवरणम् :-
खाद् [खादृँ भक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to eat, to consume)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → गणेशः मोदकं खादति ।
  ➀  मोदकम् (२.१) ⇒ मोदकम् (१.१)
  ➁  खाद्यते [ खाद् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, मोदकं (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  गणेशः (१.१) ⇒ गणेशेन (३.१)
कर्मणि वाक्यम् → गणेशेन मोदकं खाद्यते ।

Toggle for more transformations
लकारः कर्मणिप्रयोगः कर्तरिप्रयोगः
लँट् गणेशेन मोदकं खाद्यते ।
Dumpling is being eaten by Ganesha.
गणेशः मोदकं खादति ।
Ganesha is eating the dumpling.
लँङ् गणेशेन मोदकम् अखाद्यत ।
Dumpling was eaten by Ganesha.
गणेशः मोदकम् अखादत् ।
Ganesha ate the dumpling.
लृँट् गणेशेन मोदकं खादिष्यते ।
Dumpling will be eaten by Ganesha.
गणेशः मोदकं खादिष्यति ।
Ganesha will eat the dumpling.
लोँट् गणेशेन मोदकं खाद्यताम् ।
Let the dumpling be eaten by Ganesha.
गणेशः मोदकं खादतात् / खादतु ।
Let Ganesha eat the dumpling.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
गणेशेन मोदकं खाद्येत ।
Dumpling may / should be eaten by Ganesha.
गणेशेन मोदकं खादितव्यम् ।
Dumpling should be eaten by Ganesha.
गणेशेन मोदकं खादनीयम् ।
Dumpling should be eaten by Ganesha.
गणेशः मोदकं खादेत् ।
Ganesha may / should eat the dumpling.
+ क्त /
क्तवतुँ
गणेशेन मोदकं खादितम् । (क्त-प्रत्ययः)
Dumpling was eaten by Ganesha.
गणेशः मोदकं खादितवान् । (क्तवतुँ-प्रत्ययः)
Ganesha ate the dumpling.

5.03 निर्वाहकेन चिटिका दीयते ।
Ticket is being issued by the conductor.

धातुविवरणम् :-
दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → निर्वाहकः चिटिकां ददाति ।
  ➀  चिटिकाम् (२.१) ⇒ चिटिका (१.१)
  ➁  दीयते [ दा + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, चिटिका (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  निर्वाहकः (१.१) ⇒ निर्वाहकेन (३.१)
कर्मणि वाक्यम् → निर्वाहकेन चिटिका दीयते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् निर्वाहकेन चिटिका दीयते ।
Ticket is being issued by the conductor.
निर्वाहकः चिटिकां ददाति ।
Conductor is issuing the ticket.
+ लँङ् निर्वाहकेन चिटिका अदीयत ।
Ticket was issued by the conductor.
निर्वाहकः चिटिकाम् अददात् ।
Conductor issued the ticket.
+ लृँट् निर्वाहकेन चिटिका दीयिष्यते / दास्यते ।
Ticket will be issued by the conductor.
निर्वाहकः चिटिकां दास्यति ।
Conductor will issue the ticket.
+ लोँट् निर्वाहकेन चिटिका दीयताम् ।
Let the ticket be issued by the conductor.
निर्वाहकः चिटिकां दत्तात् / ददातु ।
Let the conductor issue the ticket.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
निर्वाहकेन चिटिका दीयेत ।
Ticket may / should be issued by the conductor.
निर्वाहकेन चिटिका दातव्या ।
Ticket should be issued by the conductor.
निर्वाहकेन चिटिका दानीया ।
Ticket should be issued by the conductor.
निर्वाहकः चिटिकां दद्यात् / ददीत ।
Conductor may / should issue the ticket.
+ क्त /
क्तवतुँ
निर्वाहकेन चिटिका दत्ता । (क्त-प्रत्ययः)
Ticket was issued by the conductor.
निर्वाहकः चिटिकां दत्तवान् । (क्तवतुँ-प्रत्ययः)
Conductor issued the ticket.

5.04 अर्चकेण पुष्पाणि अर्प्यन्ते ।
Flowers are being offered by the priest.

धातुविवरणम् :-
[ऋ गतिप्रापणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to obtain, to reach)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → अर्चकः पुष्पाणि अर्पयति / अर्पयते ।
  ➀  पुष्पाणि (२.३) ⇒ पुष्पाणि (१.३)
  ➁  अर्प्यन्ते [ ऋ + णिच् + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, पुष्पाणि (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  अर्चकः (१.१) ⇒ अर्चकेण (३.१)
कर्मणि वाक्यम् → अर्चकेण पुष्पाणि अर्प्यन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् अर्चकेण पुष्पाणि अर्प्यन्ते ।
Flowers are being offered by the priest.
अर्चकः पुष्पाणि अर्पयति / अर्पयते ।
Priest is offering the flowers.
+ लँङ् अर्चकेण पुष्पाणि आर्प्यन्त ।
Flowers were offered by the priest.
अर्चकः पुष्पाणि आर्पयत् / आर्पयत ।
Priest offered the flowers.
+ लृँट् अर्चकेण पुष्पाणि अर्पिष्यन्ते / अर्पयिष्यन्ते ।
Flowers will be offered by the priest.
अर्चकः पुष्पाणि अर्पयिष्यति / अर्पयिष्यते ।
Priest will be offering the flowers.
+ लोँट् अर्चकेण पुष्पाणि अर्प्यन्ताम् ।
Let the flowers be offered by the priest.
अर्चकः पुष्पाणि अर्पयतात् / अर्पयतु / अर्पयताम् ।
Let the priest offer the flowers.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
अर्चकेण पुष्पाणि अर्प्येरन् ।
Flowers may / should be offered by the priest.
अर्चकेण पुष्पाणि अर्पयितव्यानि ।
Flowers should be offered by the priest.
अर्चकेण पुष्पाणि अर्पणीयानि ।
Flowers should be offered by the priest.
अर्चकः पुष्पाणि अर्पयेत् / अर्पयेत ।
Priest may / should offer the flowers.
+ क्त /
क्तवतुँ
अर्चकेण पुष्पाणि अर्पितानि । (क्त-प्रत्ययः)
Flowers were offered by the priest.
अर्चकः पुष्पाणि अर्पितवान् । (क्तवतुँ-प्रत्ययः)
Priest offered the flowers.

5.05 तेन देवाः नम्यन्ते ।
Gods are being saluted by him.

धातुविवरणम् :-
नम् [णमँ प्रह्वत्वे शब्दे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to salute, to greet, to respect, to bend, to sound)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → सः देवान् नमति ।
  ➀  देवान् (२.३) ⇒ देवाः (१.३)
  ➁  नम्यन्ते [ नम् + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, देवाः (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  सः (१.१) ⇒ तेन (३.१)
कर्मणि वाक्यम् → तेन देवाः नम्यन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् तेन देवाः नम्यन्ते ।
Gods are being saluted by him.
सः देवान् नमति ।
He is saluting the Gods.
+ लँङ् तेन देवाः अनम्यन्त ।
Gods were saluted by him.
सः देवान् अनमत् ।
He saluted the Gods.
+ लृँट् तेन देवाः नंस्यन्ते ।
Gods will be saluted by him.
सः देवान् नंस्यति ।
He will salute the Gods.
+ लोँट् तेन देवाः नम्यन्ताम् ।
Let the Gods be saluted by him.
सः देवान् नमतात् / नमतु ।
Let him salute the Gods.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
तेन देवाः नम्येरन् ।
Gods may / should be saluted by him.
तेन देवाः नन्तव्याः ।
Gods should be saluted by him.
तेन देवाः नमनीयाः ।
Gods should be saluted by him.
सः देवान् नमेत् ।
He may / should salute the Gods.
+ क्त /
क्तवतुँ
तेन देवाः नताः । (क्त-प्रत्ययः)
Gods were saluted by him.
सः देवान् नतवान् । (क्तवतुँ-प्रत्ययः)
He saluted the Gods.

5.06 महिलया शाटिकाः क्षाल्यन्ते ।
Sarees are being washed by the women.

धातुविवरणम् :-
क्षल् [क्षलँ शौचकर्मणि ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to wash, to cleanse, to purify)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → महिला शाटिकाः क्षालयति ।
  ➀  शाटिकाः (२.३) ⇒ शाटिकाः (१.३)
  ➁  क्षाल्यन्ते [ क्षल् + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, शाटिकाः (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  महिला (१.१) ⇒ महिलया (३.१)
कर्मणि वाक्यम् → महिलया शाटिकाः क्षाल्यन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् महिलया शाटिकाः क्षाल्यन्ते ।
Sarees are being washed by the women.
महिला शाटिकाः क्षालयति ।
Women are washing the sarees.
+ लँङ् महिलया शाटिकाः अक्षाल्यन्त ।
Sarees were washed by the women.
महिला शाटिकाः अक्षालयत् / अक्षालयत ।
Women washed the sarees.
+ लृँट् महिलया शाटिकाः क्षालिष्यन्ते / क्षालयिष्यन्ते ।
Sarees will be washed by the women.
महिला शाटिकाः क्षालयिष्यति / क्षालयिष्यते ।
Women will wash the sarees.
+ लोँट् महिलया शाटिकाः क्षाल्यन्ताम् ।
Let the sarees be washed by the women.
महिला शाटिकाः क्षालयतात् / क्षालयतु ।
Let the women wash the sarees.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
महिलया शाटिकाः क्षाल्येरन् ।
Sarees may / should be washed by the women.
महिलया शाटिकाः क्षालयितव्याः ।
Sarees should be washed by the women.
महिलया शाटिकाः क्षालनीयाः ।
Sarees should be washed by the women.
महिला शाटिकाः क्षालयेत् / क्षालयेत ।
Women may / should wash the sarees.
+ क्त /
क्तवतुँ
महिलया शाटिकाः क्षालिताः । (क्त-प्रत्ययः)
Sarees were washed by the women.
महिला शाटिकाः क्षालितवती । (क्तवतुँ-प्रत्ययः)
Women washed the sarees.

5.07 अस्माभिः फलं खाद्यते ।
Fruit is being eaten by us.

धातुविवरणम् :-
खाद् [खादृँ भक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to eat, to consume)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → वयं फलं खादामः ।
  ➀  फलम् (२.१) ⇒ फलम् (१.१)
  ➁  खाद्यते [ खाद् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, फलं (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  वयम् (१.३) ⇒ अस्माभिः (३.३)
कर्मणि वाक्यम् → अस्माभिः फलं खाद्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् अस्माभिः फलं खाद्यते ।
Fruit is being eaten by all of us.
वयं फलं खादामः ।
We all are eating the fruit.
+ लँङ् अस्माभिः फलम् अखाद्यत ।
Fruit was eaten by all of us.
वयं फलं अखादाम ।
We all ate the fruit.
+ लृँट् अस्माभिः फलं खादिष्यते ।
Fruit will be eaten by all of us.
वयं फलं खादिष्याम ।
We all will eat the fruit.
+ लोँट् अस्माभिः फलं खाद्यताम् ।
Let the fruit be eaten by us.
वयं फलं खादाम ।
Let us all eat the fruit.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
अस्माभिः फलं खाद्येत ।
Fruit may / should be eaten by us.
अस्माभिः फलं खादितव्यम् ।
Fruit should be eaten by us.
अस्माभिः फलं खादनीयम् ।
Fruit should be eaten by us.
वयं फलं खादेम ।
We all may / should eat the fruit.
+ क्त /
क्तवतुँ
अस्माभिः फलं खादितम् । (क्त-प्रत्ययः)
Fruit was eaten by us.
वयं फलं खादितवन्तः । (क्तवतुँ-प्रत्ययः)
We all ate the fruit.

5.08 छात्रैः कोलाहलः क्रियते ।
Noise is made by the students.

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → छात्राः कोलाहलं कुर्वन्ति / कुर्वते ।
  ➀  कोलाहलम् (२.१) ⇒ कोलाहलः (१.१)
  ➁  क्रियते [ कृ + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, कोलाहलः (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  छात्राः (१.३) ⇒ छात्रैः (३.३)
कर्मणि वाक्यम् → छात्रैः कोलाहलः क्रियते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् छात्रैः कोलाहलः क्रियते ।
Noise is made by the students.
छात्राः कोलाहलं कुर्वन्ति / कुर्वते ।
Students are making the noise.
+ लँङ् छात्रैः कोलाहलः अक्रियत ।
Noise was made by the students.
छात्राः कोलाहलं अकुर्वन् / अकुर्वत ।
Students made the noise.
+ लृँट् छात्रैः कोलाहलः कारिष्यते / करिष्यते ।
Noise will be made by the students.
छात्राः कोलाहलं करिष्यन्ति / करिष्यन्ते ।
Students will make the noise.
+ लोँट् छात्रैः कोलाहलः क्रियताम् ।
Let the noise be made by the students.
छात्राः कोलाहलं कुर्वन्तु / कुर्वताम् ।
Let the students make the noise.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
छात्रैः कोलाहलः क्रियेत ।
Noise may / should be made by the students.
छात्रैः कोलाहलः कर्तव्यः ।
Noise should be made by the students.
छात्रैः कोलाहलः करणीयः ।
Noise should be made by the students.
छात्राः कोलाहलं कुर्युः / कुर्वीरन् ।
Students may / should make the noise.
+ क्त /
क्तवतुँ
छात्रैः कोलाहलः कृतः । (क्त-प्रत्ययः)
Noise was made by the students.
छात्राः कोलाहलं कृतवन्तः । (क्तवतुँ-प्रत्ययः)
Students made the noise.

5.09 मया गृहपाठाः लिख्यन्ते ।
Homework is being written by me.

धातुविवरणम् :-
लिख् [लिखँ अक्षरविन्यासे ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to write, to scratch, to draw, to scribble)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → अहं गृहपाठान् लिखामि ।
  ➀  गृहपाठान् (२.३) ⇒ गृहपाठाः (१.३)
  ➁  लिख्यन्ते [ लिख् + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, गृहपाठाः (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  अहम् (१.१) ⇒ मया (३.१)
कर्मणि वाक्यम् → मया गृहपाठाः लिख्यन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् मया गृहपाठाः लिख्यन्ते ।
Homework is being written by me.
अहं गृहपाठान् लिखामि ।
I am writing the homework.
+ लँङ् मया गृहपाठाः अलिख्यन्त ।
Homework was written by me.
अहं गृहपाठान् अलिखम् ।
I wrote the homework.
+ लृँट् मया गृहपाठाः लेखिष्यन्ते ।
Homework will be written by me.
अहं गृहपाठान् लेखिष्यामि ।
I will write the homework.
+ लोँट् मया गृहपाठाः लिख्यन्ताम् ।
Let the homework be written by me.
अहं गृहपाठान् लिखानि ।
Let me write the homework.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
मया गृहपाठाः लिख्येरन् ।
Homework may / should be written by me.
मया गृहपाठाः लेखितव्याः ।
Homework should be written by me.
मया गृहपाठाः लेखणीयाः ।
Homework should be written by me.
अहं गृहपाठान् लिखेयम् ।
I may / should write the homework.
+ क्त /
क्तवतुँ
मया गृहपाठाः लिखिताः । (क्त-प्रत्ययः)
Homework was written by me.
अहं गृहपाठान् लिखितवान् । (क्तवतुँ-प्रत्ययः)
I wrote the homework.

5.10 भवता लेखन्यः नीयन्ते ।
Pens are being taken by you.

धातुविवरणम् :-
नी [णीञ् प्रापणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to obtain, to carry, to take)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → भवती लेखनीः नयति ।
  ➀  लेखनीः (२.३) ⇒ लेखन्यः (१.३)
  ➁  नीयन्ते [ नी + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, लेखन्यः (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  भवती (१.१) ⇒ भवता (३.१)
कर्मणि वाक्यम् → भवता लेखन्यः नीयन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् भवता लेखन्यः नीयन्ते ।
Pens are being taken by you.
भवती लेखनीः नयति / नयते ।
You are taking the pens.
+ लँङ् भवता लेखन्यः अनीयन्त ।
Pens were taken by you.
भवती लेखनीः अनयत् / अनयत ।
You took the pens.
+ लृँट् भवता लेखन्यः नायिष्यन्ते / नेष्यन्ते ।
Pens will be taken by you.
भवती लेखनीः नेष्यन्ति / नेष्यन्ते ।
You will take the pens.
+ लोँट् भवता लेखन्यः नीयन्ताम् ।
Let the pens be taken by you.
भवती लेखनीः नयतात् / नयतु / नयताम् ।
Let you take the pens.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
भवता लेखन्यः नीयेरन् ।
Pens may / should be taken by you.
भवता लेखन्यः नेतव्याः ।
Pens should be taken by you.
भवता लेखन्यः नयनीयाः ।
Pens should be taken by you.
भवती लेखनीः नयेत् ।
You may / should take the pens.
+ क्त /
क्तवतुँ
भवता लेखन्यः नीताः । (क्त-प्रत्ययः)
Pens were taken by you.
भवती लेखनीः नीतवती । (क्तवतुँ-प्रत्ययः)
You took the pens.

5.11 दरिद्रेण कष्टं सह्यते ।
Difficulty is being borne by a poor man.

धातुविवरणम् :-
सह् [षहँ मर्षणे ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to tolerate, to bear, to forgive)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → दरिद्रः कष्टं सहते ।
  ➀  कष्टम् (२.१) ⇒ कष्टम् (१.१)
  ➁  सह्यते [ सह् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, कष्टम् (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  दरिद्रः (१.१) ⇒ दरिद्रेण (३.१)
कर्मणि वाक्यम् → दरिद्रेण कष्टं सह्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् दरिद्रेण कष्टं सह्यते ।
Difficulty is being borne by the poor man.
दरिद्रः कष्टं सहते ।
Poor man is bearing the difficulty.
+ लँङ् दरिद्रेण कष्टं असह्यत ।
Difficulty was borne by the poor man.
दरिद्रः कष्टं असहत ।
Poor man bore the difficulty.
+ लृँट् दरिद्रेण कष्टं सहिष्यते ।
Difficulty will be borne by the poor man.
दरिद्रः कष्टं सहिष्यते ।
Poor man will bear the difficulty.
+ लोँट् दरिद्रेण कष्टं सह्यताम् ।
Let the difficulty be borne by the poor man.
दरिद्रः कष्टं सहताम् ।
Let the poor man bear the difficulty.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
दरिद्रेण कष्टं सह्येत ।
Difficulty may / should be borne by the poor man.
दरिद्रेण कष्टं सहितव्यम् / सोढव्यम् ।
Difficulty should be borne by the poor man.
दरिद्रेण कष्टं सहनीयम् ।
The difficulty should be borne by the poor man.
दरिद्रः कष्टं सहेत ।
Poor man may / should bear the difficulty.
+ क्त /
क्तवतुँ
दरिद्रेण कष्टं सोढः । (क्त-प्रत्ययः)
Difficulty was borne by the poor man.
दरिद्रः कष्टं सोढवान् । (क्तवतुँ-प्रत्ययः)
Poor man bore the difficulty.

5.12 तेन मित्रं भर्त्स्यते ।
Friend is threatened by him.

धातुविवरणम् :-
भर्त्स् [भर्त्सँ तर्जने ; चुरादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to hate, to insult, to ignore, to blame, to criticize, to frighten)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → सः मित्रं भर्त्सयते ।
  ➀  मित्रम् (२.१) ⇒ मित्रम् (१.१)
  ➁  भर्त्स्यते [ भर्त्स् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, मित्रं (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  भवती (१.१) ⇒ भवता (३.१)
कर्मणि वाक्यम् → तेन मित्रं भर्त्स्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् तेन मित्रं भर्त्स्यते ।
Friend is being threatened by him.
सः मित्रं भर्त्सयते ।
He is threatening a friend.
+ लँङ् तेन मित्रं अभर्त्स्यत ।
Friend was threatened by him.
सः मित्रं अभर्त्सयत ।
He threatened a friend.
+ लृँट् तेन मित्रं भर्त्सिष्यते / भर्त्सयिष्यते ।
Friend will be threatened by him.
सः मित्रं भर्त्सयिष्यते ।
He will threaten a friend.
+ लोँट् तेन मित्रं भर्त्स्यताम् ।
Let the friend be threatened by him.
सः मित्रं भर्त्सयताम् ।
Let him threaten a friend.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
तेन मित्रं भर्त्स्येत ।
Friend may / should be threatened by him.
तेन मित्रं भर्त्सयितव्यम् ।
Friend should be threatened by him.
तेन मित्रं भर्सनीयम् ।
Friend should be threatened by him.
सः मित्रं भर्त्सयेत ।
He may / should threaten a friend.
+ क्त /
क्तवतुँ
तेन मित्रं भर्त्सितम् । (क्त-प्रत्ययः)
Friend was threatened by him.
सः मित्रं भर्त्सितवान् । (क्तवतुँ-प्रत्ययः)
He threatened a friend.

5.13 शिक्षकेण कार्यक्रमाः ईक्ष्यन्ते ।
Programmes are being watched by the teacher.

धातुविवरणम् :-
ईक्ष् [ईक्षँ दर्शने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to see, to perceive)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → शिक्षकः कार्यक्रमान् ईक्षते ।
  ➀  कार्यक्रमान् (२.३) ⇒ कार्यक्रमाः (१.३)
  ➁  ईक्ष्यन्ते [ ईक्ष् + कर्मणि लँट् / प्र.पु / ब.व ] इति क्रियापदं, कार्यक्रमाः (१.३) इति कर्तृपदम् अनुसरति ।
  ➂  शिक्षकः (१.१) ⇒ शिक्षकेण (३.१)
कर्मणि वाक्यम् → शिक्षकेण कार्यक्रमाः ईक्ष्यन्ते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् शिक्षकेण कार्यक्रमाः ईक्ष्यन्ते ।
Programmes are being watched by the teacher.
शिक्षकः कार्यक्रमान् ईक्षते ।
Teacher is watching the programmes.
+ लँङ् शिक्षकेण कार्यक्रमाः ऐक्ष्यन्त ।
Programmes were watched by the teacher.
शिक्षकः कार्यक्रमान् ऐक्षत ।
Teacher watched the programmes.
+ लृँट् शिक्षकेण कार्यक्रमाः ईक्षिष्यन्ते ।
Programmes will be watched by the teacher.
शिक्षकः कार्यक्रमान् ईक्षिष्यते ।
Teacher will watch the programmes.
+ लोँट् शिक्षकेण कार्यक्रमाः ईक्ष्यन्ताम् ।
Let the programmes be watched by the teacher.
शिक्षकः कार्यक्रमान् ईक्षताम् ।
Let the teacher watch the programmes.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
शिक्षकेण कार्यक्रमाः ईक्ष्येरन् ।
Programmes may / should be watched by the teacher.
शिक्षकेण कार्यक्रमाः ईक्षितव्याः ।
Programmes should be watched by the teacher.
शिक्षकेण कार्यक्रमाः ईक्षणीयाः ।
Programmes should be watched by the teacher.
शिक्षकः कार्यक्रमान् ईक्षेत ।
Teacher may / should watch the programmes.
+ क्त /
क्तवतुँ
शिक्षकेण कार्यक्रमाः ईक्षिताः । (क्त-प्रत्ययः)
Programmes were watched by the teacher.
शिक्षकः कार्यक्रमान् ईक्षितवान् । (क्तवतुँ-प्रत्ययः)
Teacher watched the programmes.

5.14 जनकेन पुत्रः श्लाघ्यते ।
Son is being praised by the father.

धातुविवरणम् :-
श्लाघ् [श्लाघृँ कत्थने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to praise, to flatter, to boast)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → जनकः पुत्रं श्लाघते ।
  ➀  पुत्रं (२.१) ⇒ पुत्रः (१.१)
  ➁  श्लाघ्यते [ श्लाघ् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, पुत्रः (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  जनकः (१.१) ⇒ जनकेन (३.१)
कर्मणि वाक्यम् → जनकेन पुत्रः श्लाघ्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् जनकेन पुत्रः श्लाघ्यते ।
Son is being praised by the father.
जनकः पुत्रं श्लाघते ।
Father is praising the son.
+ लँङ् जनकेन पुत्रः अश्लाघ्यत ।
Son was praised by the father.
जनकः पुत्रं अश्लाघत ।
Father praised the son.
+ लृँट् जनकेन पुत्रः श्लाघिष्यते ।
Son will be praised by the father.
जनकः पुत्रं श्लाघिष्यते ।
Father will praise the son.
+ लोँट् जनकेन पुत्रः श्लाघ्यताम् ।
Let the son be praised by the father.
जनकः पुत्रं श्लाघताम् ।
Let the father praise the son.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
जनकेन पुत्रः श्लाघ्येत ।
Son may / should be praised by the father.
जनकेन पुत्रः श्लाघितव्यः ।
Son should be praised by the father.
जनकेन पुत्रः श्लाघनीयः ।
Son should be praised by the father.
जनकः पुत्रं श्लाघेत ।
Father may / should praise the son.
+ क्त /
क्तवतुँ
जनकेन पुत्रः श्लाघितः । (क्त-प्रत्ययः)
Son was praised by the father.
जनकः पुत्रं श्लाघितवान् । (क्तवतुँ-प्रत्ययः)
Father praised the son.

5.15 भगिन्या अनुजः क्षम्यते ।
Younger brother is being forgiven by the sister.

धातुविवरणम् :-
क्षम् [क्षमूँष् सहने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; वेट्]
(to endure, to suffer, to forgive)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → भगिनी अनुजं क्षमते ।
  ➀  अनुजं (२.१) ⇒ अनुजः (१.१)
  ➁  क्षम्यते [ क्षम् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं, अनुजः (१.१) इति कर्तृपदम् अनुसरति ।
  ➂  भगिनी (१.१) ⇒ भगिन्या (३.१)
कर्मणि वाक्यम् → भगिन्या अनुजः क्षम्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् भगिन्या अनुजः क्षम्यते ।
Younger brother is being forgiven by the sister.
भगिनी अनुजं क्षमते ।
Sister is forgiving the younger brother.
+ लँङ् भगिन्या अनुजः अक्षम्यत ।
Younger brother was forgiven by the sister.
भगिनी अनुजं अक्षमत ।
Sister forgave the younger brother.
+ लृँट् भगिन्या अनुजः क्षमिष्यते / क्षंस्यते ।
Younger brother will be forgiven by the sister.
भगिनी अनुजं क्षमिष्यते / क्षंस्यते ।
Sister will forgive the younger brother.
+ लोँट् भगिन्या अनुजः क्षम्यताम् ।
Let the younger brother be forgiven by the sister.
भगिनी अनुजं क्षमताम् ।
Let the sister forgive the younger brother.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
भगिन्या अनुजः क्षम्येत ।
Younger brother may / should be forgiven by the sister.
भगिन्या अनुजः क्षमितव्यः / क्षन्तव्यः ।
Younger brother should be forgiven by the sister.
भगिन्या अनुजः क्षमणीयः ।
Younger brother should be forgiven by the sister.
भगिनी अनुजं क्षमेत ।
Sister may / should forgive the younger brother.
+ क्त /
क्तवतुँ
भगिन्या अनुजः क्षान्तः । (क्त-प्रत्ययः)
Younger brother was forgiven by the sister.
भगिनी अनुजं क्षान्तवती । (क्तवतुँ-प्रत्ययः)
Sister forgave the younger brother.

5.16 बालकेन पठ्यते ।
Reading is done by the boy.

धातुविवरणम् :-
पठ् [पठँ व्यक्तायां वाचि ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to learn, to read, to study, to recite)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → बालकः पठति ।
  ➀  कर्तरि वाक्ये कर्मपदं नास्ति, अतः कर्मणि वाक्ये कर्तृपदम् अपि नास्ति ।
  ➁  पठ्यते [ पठ् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं प्र.पु / ए.व एव अनुसरति, यतः कर्मणि वाक्ये कर्तृपदं नास्ति ।
  ➂  बालकः (१.१) ⇒ बालकेन (३.१)
कर्मणि वाक्यम् → बालकेन पठ्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् बालकेन पठ्यते ।
Reading is done by the boy.
बालकः पठति ।
The boy is reading.
+ लँङ् बालकेन अपठ्यत ।
Reading was done by the boy.
बालकः अपठत् ।
The boy read.
+ लृँट् बालकेन पठिष्यते ।
Reading will be done by the boy.
बालकः पठिष्यति ।
The boy will read.
+ लोँट् बालकेन पठ्यताम् ।
Let the reading be done by the boy.
बालकः पठतात् / पठतु ।
Let the boy read.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
बालकेन पठ्येत् ।
Reading may / should be done by the boy.
बालकेन पठितव्यम् ।
Reading should be done by the boy.
बालकेन पठनीयम् ।
Reading should be done by the boy.
बालकः पठेत् ।
The boy may / should read.
+ क्त /
क्तवतुँ
बालकेन पठितम् । (क्त-प्रत्ययः)
Reading was done by the boy.
बालकः पठितवान् । (क्तवतुँ-प्रत्ययः)
The boy read.

5.17 जनकेन गम्यते ।
It is being gone by the father.

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → जनकः गच्छति ।
  ➀  कर्तरि वाक्ये कर्मपदं नास्ति, अतः कर्मणि वाक्ये कर्तृपदम् अपि नास्ति ।
  ➁  गम्यते [ गम् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं प्र.पु / ए.व एव अनुसरति, यतः कर्मणि वाक्ये कर्तृपदं नास्ति ।
  ➂  जनकः (१.१) ⇒ जनकेन (३.१)
कर्मणि वाक्यम् → जनकेन गम्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् जनकेन गम्यते ।
It is being gone by the father.
जनकः गच्छति ।
The father is going.
+ लँङ् जनकेन अगम्यत ।
It was gone by the father.
जनकः अगच्छत् ।
The father went.
+ लृँट् जनकेन गंस्यते ।
It will be gone by the father.
जनकः गमिष्यति ।
The father will go.
+ लोँट् जनकेन गम्यताम् ।
Let it be gone by the father.
जनकः गच्छतात् / गच्छतु ।
Let the father go.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
जनकेन गम्येत ।
It may / should gone by the father.
जनकेन गन्तव्यम् ।
It should be gone by the father.
जनकेन गमनीयम् ।
It should be gone by the father.
जनकः गच्छेत् ।
The father may / should go.
+ क्त /
क्तवतुँ
जनकेन गतम् । (क्त-प्रत्ययः)
It was gone by the father.
जनकः गतवान् । (क्तवतुँ-प्रत्ययः)
The father went.

5.18 सीतया लिख्यते ।
It is being written by Sita.

धातुविवरणम् :-
लिख् [लिखँ अक्षरविन्यासे ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to write, to scratch, to draw, to scribble)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → सीता लिखति ।
  ➀  कर्तरि वाक्ये कर्मपदं नास्ति, अतः कर्मणि वाक्ये कर्तृपदम् अपि नास्ति ।
  ➁  लिख्यते [ लिख् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं प्र.पु / ए.व एव अनुसरति, यतः कर्मणि वाक्ये कर्तृपदं नास्ति ।
  ➂  सीता (१.१) ⇒ सीतया (३.१)
कर्मणि वाक्यम् → सीतया लिख्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् सीतया लिख्यते ।
It is being written by Sita.
सीता लिखति ।
Sita is writing.
+ लँङ् सीतया अलिख्यत ।
It was written by Sita.
सीता अलिखत् ।
Sita went.
+ लृँट् सीतया लेखिष्यते ।
It will be written by Sita.
सीता लेखिष्यति ।
Sita will go.
+ लोँट् सीतया लिख्यताम् ।
Let it be written by the Sita.
सीता लिखतात् / लिखतु ।
Let Sita write.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
सीतया लिख्येत ।
It may / should written by the Sita.
सीतया लेखितव्यम् ।
It should be written by the Sita.
सीतया लेखनीयम् ।
It should be written by the Sita.
सीता लिखेत् ।
Sita may / should write.
+ क्त /
क्तवतुँ
सीतया लेखितम् । (क्त-प्रत्ययः)
It was written by the Sita.
सीता लिखितवती । (क्तवतुँ-प्रत्ययः)
Sita wrote.

Comments

Post a Comment