कोविदः - अन्वयक्रमः #07


ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
ततः अव्ययम् therefore
मृगेन्द्रस्य मृगेन्द्र / पुं / ष.वि / ए.व

धातुविवरणम् :-
मृ [मृङ् प्राणत्यागे ; तुदादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to die)

पदविवरणम् :-
मृग / पुं
(= मृ [to kill], ग [to go], मृग [that which moves to kill])
इन्द्र / पुं
(= supreme power or authority)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मृगाणाम् इन्द्रः, तस्य = मृगेन्द्रस्य
(= the lord of animals)
Lion, the king among the animals in the wild
मृगेन्द्रगामी मृगेन्द्रगामिन् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
मृ [मृङ् प्राणत्यागे ; तुदादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to die)

पदविवरणम् :-
मृग / पुं
(= मृ [to kill], ग [to go], मृग [that which moves to kill])
इन्द्र / पुं
(= supreme power or authority)
गम् + णिनि = गामिन् / पुं
(= moving like)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मृगाणाम् इन्द्रः = मृगेन्द्रः
(= the lord of animals)
[बहुव्रीहिसमासः]
मृगेन्द्रः गामी यस्य सः मृगेन्द्रगामी
(= one who has a gait of a lion)
one who has a gait of a lion
वधाय वध / पुं / च.वि / ए.व to kill
वध्यस्य वध्य / पुं / ष.वि / ए.व

धातुविवरणम् :-
TBD

पदविवरणम् :-
वध् + यत् = वध्य / पुं
(= should be killed)
should be killed, deserved to be killed
शरम् शर / पुं / द्वि.वि / ए.व an arrow
शरण्यः शरण्य / पुं / प्र.वि / ए.व a protector
जाताभिषङ्गः जाताभिषङ्ग / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जै [जै क्षये ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to wane, to decline, to decay, to reduce, to contract, to shrink)
सञ्ज् [षन्जँ सङ्गे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to hug, to embrace, to stay in close contact, to cling, to stick to)

पदविवरणम् :-
जै + क्त = जात / पुं & नपुं
(= gone)
अभि + सञ्ज् + घञ् = अभिषङ्ग / पुं
(= defeat)

समासविवरणम् :-
[बहुव्रीहिसमासः]
जातः अभिषङ्गः यस्य सः = जाताभिषङ्गः
(= the one who has been defeated)
the one who has been defeated
नृपतिः नृपति / पुं / प्र.वि / ए.व

पदविवरणम् :-
नृ / पुं
(= a man, mankind)
पति / पुं
(= master)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
नॄणां पतिः = नृपतिः
(= the lord of mankind)

नृ / पुं ए.व द्वि.व ब.व
प्र.वि ना नरौ नरः
सं.प्र.वि नः नरौ नरः
द्वि.वि नरम् नरौ नॄन्
तृ.वि न्रा नृभ्याम् नृभिः
च.वि न्रे नृभ्याम् नृभ्यः
प.वि नुः नृभ्याम् नृभ्यः
ष.वि नुः न्रोः नॄणाम् / नृणाम्
स.वि नरि न्रोः नृषु

the lord of the people
निषङ्गात् निषङ्ग / पुं / प.वि / ए.व

धातुविवरणम् :-
सञ्ज् [षन्जँ सङ्गे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to hug, to embrace, to stay in close contact, to cling, to stick to)

पदविवरणम् :-
नि + सञ्ज् + अधिकरणे घञ् = निषङ्ग / पुं
(= तूणीरः, तूणि, तूणी, quiver)
from the quiver
उद्धर्तुम् उद्धर्तुम् / अव्ययम्

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
उत् + धृ + तुमुँन् = उद्धर्तुम् / अव्ययम्
(= to take)
to take
ऐच्छत् इष् + कर्तरि लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
इष् [इषुँ इच्छायाम् ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to wish, to desire, to want)
wished
प्रसभोद्धृतारिः प्रसभोद्धृतारि / पुं / प्र.वि / ए.व

धातुविवरणम् :-
हृ [हृञ् हरणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to take away, to carry, to steal, to acquire)

पदविवरणम् :-
प्रसभ / पुं
(= force or violence)
उत् + हृ + क्त = उद्धृत / पुं
(= eradicated)
अरि / पुं
(= enemy)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
प्रसभेन उद्धृतः = प्रसभोद्धृतः
(= eradicated by force)
[बहुव्रीहिसमासः]
प्रसभोद्धृताः अरयः येन सः = प्रसभोद्धृतारिः
(= he, by whom enemies were eradicated by force)
he, by whom enemies were eradicated by force

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (ऐच्छत्) गौणक्रिया 1.1 (उद्धर्तुम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि नृपतिः मृगेन्द्रगामी
शरण्यः
प्रसभोद्धृतारिः
जाताभिषङ्गः
स.प्र.वि
द्वि.वि उद्धर्तुम् शरम्
तृ.वि
च.वि वधाय
प.वि निषङ्गात्
ष.वि मृगेन्द्रस्य वध्यस्य
स.वि
अव्ययम् ततः
अन्वयः ततः मृगेन्द्रगामी शरण्यः प्रसभोद्धृतारिः जाताभिषङ्गः नृपतिः वध्यस्य मृगेन्द्रस्य वधाय निषङ्गात् शरम् उद्धर्तुम् ऐच्छत् ।
तात्पर्यम्
Purport Then, the lord of the people (King Dilīpa), one who has a gait of a lion, the protector, he, by whom enemies were eradicated by force, the one who has been defeated, wished to take an arrow from the quiver, to kill the lord of animals (the lion), that deserved to be killed.
अन्वयरचना ऐच्छत्
  • कः ऐच्छत्? = नृपतिः ऐच्छत्
    • कीदृशः नृपतिः? = मृगेन्द्रगामी नृपतिः
    • पुनः कीदृशः नृपतिः? = शरण्यः नृपतिः
    • पुनः कीदृशः नृपतिः? = प्रसभोद्धृतारिः नृपतिः
    • पुनः कीदृशः नृपतिः? = जाताभिषङ्गः नृपतिः
  • किं कर्तुम् ऐच्छत्? = उद्धर्तुम् ऐच्छत्
    • कम् उद्धर्तुम्? = शरम् उद्धर्तुम्
    • कस्मात् उद्धर्तुम्? = निषङ्गात् उद्धर्तुम्
  • किमर्थम् ऐच्छत्? = वधाय ऐच्छत्
    • कस्य वधाय? = मृगेन्द्रस्य वधाय
      • कीदृशस्य मृगेन्द्रस्य? = वध्यस्य मृगेन्द्रस्य
  • कदा ऐच्छत्? = ततः ऐच्छत्

Comments