कोविदः - अन्वयक्रमः #06


अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अन्येद्युः अन्य + एद्युस् = अन्येद्युः / अव्ययम् on the following day (22nd day)
आत्मानुचरस्य आत्मानुचर / पुं / ष.वि / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)

पदविवरणम् :-
आत्मन् / पुं
(= self, soul)
अनु + चर् + ट = अनुचर / त्रि
अनुप्लवः सहायश्चानुचरोऽभिचरः समाः (अमरः)
(= a servant, a follower)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
आत्मनः अनुचरः यस्य, सः आत्मानुचरः
of the one who is a servant or a follower of thyself (Dilīpa)
भावं भाव / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
भू + घञ् = भाव / पुं
natural state of being, innate nature, disposition
जिज्ञासमाना जिज्ञासमाना / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)

पदविवरणम् :-
ज्ञा + सन् + शानच् = जिज्ञासमान / पुं
जिज्ञासमान + टाप् = जिज्ञासमाना / स्त्री
desirous of knowing
मुनिहोमधेनुः मुनिहोमधेनु / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
मुनि / पुं
(= sage)
होम / पुं
(= sacrifice)
धेनु / स्त्री
(= milk yielding cow)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
होमस्य धेनुः = होमधेनुः

[षष्ठीतत्पुरुषसमासः]
मुनेः होमधेनुः = मुनिहोमधेनुः
the milk yielding cow for the sacrifices of the sage (Nandinī)
गङ्गाप्रपातान्तविरूढशष्पम् गङ्गाप्रपातान्तविरूढशष्प / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
पत् [पतॢँ गतौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to go)
रुह् [रुहँ बीजजन्मनि प्रादुर्भावे च ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to grow from seed, to manifest, to rise, to ascend, to take birth, to be born)

पदविवरणम् :-
गङ्गा / स्त्री
(= Gaṅgā)
प्र + पत् + घञ् = प्रपात / पुं
(= a bank, a shore)
अन्त / पुं
(= vicinity, proximity, close by, nearby)
वि + रुह् + क्त = विरूढ / पुं & नपुं
(= grown, arisen)
शष्प / नपुं
शष्पं बालतृणम्घासो यवसं तृणमर्जुनम् (अमरः)
(= नूतनतृणम् / young grass)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
गङ्गायाः प्रपातः = गङ्गाप्रपातः / पुं
(= bank of Gaṅgā)

[षष्ठीतत्पुरुषसमासः]
गङ्गाप्रपातस्य अन्तः = गङ्गाप्रपातान्तः / पुं
(= proximity of Gaṅgā's bank)

Interpretation #1
[विषेशण-पूर्वपद-कर्मधारयसमासः]
विरूढं च तत् शष्पं च = विरूढशष्प / नपुं
(= the young grass that has grown)

[बहुव्रीहिसमासः]
गङ्गाप्रपातान्ते विरूढशष्पं यस्मिन्,
तत् गङ्गाप्रपातान्तविरूढशष्प / नपुं
(= there, where the young grass has grown in proximity of Gaṅgā's bank)

Interpretation #2
[सप्तमीतत्पुरुषसमासः]
गङ्गाप्रपातान्ते विरूढानि = गङ्गाप्रपातान्तविरूढ / पुं & नपुं
(= grown in proximity of Gaṅgā's bank)

[बहुव्रीहिसमासः]
गङ्गाप्रपातान्तविरूढानि शष्पानि यस्मिन्,
तत् गङ्गाप्रपातान्तविरूढशष्प / नपुं
(= there, where the young grass has grown in proximity of Gaṅgā's bank)
which is filled the young grass that has grown in the proximity of a bank of Gaṅgā
गौरीगुरोः गौरीगुरु / पुं / ष.वि / ए.व

पदविवरणम् :-
गौरी / स्त्री
(= Pārvatī d/o Himavān )
गुरु / पुं
(= father or any venerable male relation, spiritual parent)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
गौर्याः गुरुः, तस्य = गौरीगुरोः
of Gouri's father, of Himavān, of Himālayā
गह्वरम् गह्वर / नपुं / द्वि.वि / ए.व a cave, a cavern
आविवेश आङ् + विश् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to enter)
entered

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (आविवेश) गौणक्रिया 1.1 (जिज्ञासमाना)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि मुनिहोमधेनुः (जिज्ञासमाना) (मुनिहोमधेनुः)
स.प्र.वि
द्वि.वि गह्वरम् गङ्गाप्रपातान्तविरूढशष्पम् भावम्
तृ.वि
च.वि
प.वि
ष.वि गौरीगुरोः
आत्मानुचरस्य
स.वि
अव्ययम् अन्येद्युः
अन्वयः अन्येद्युः आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गौरीगुरोः गङ्गाप्रपातान्तविरूढशष्पं गह्वरम् आविवेश ।
तात्पर्यम्
Purport The milk yielding cow for the sacrifices of the sage (Nandinī), desirous of knowing the innate nature of the one who is a servant or a follower of herself (Dilīpa), entered the cave of the father of Gouri (of Himavān, of Himālayā), which is filled the young grass that has grown in the proximity of a bank of Gaṅgā
अन्वयरचना आविवेश
  • का आविवेश? = मुनिहोमधेनुः आविवेश
    • कीदृशी मुनिहोमधेनुः? = जिज्ञासमाना मुनिहोमधेनुः
      • कं जिज्ञासमाना? = भावं जिज्ञासमाना
        • कस्य भावम्? = आत्मानुचरस्य भावम्
  • किम् आविवेश? = गह्वरम् आविवेश
    • कीदृशं गह्वरम्? = गङ्गाप्रपातान्तविरूढशष्पं गह्वरम्
    • कस्य गह्वरम्? = गौरीगुरोः गह्वरम्
  • कदा आविवेश? = अन्येद्युः आविवेश

Comments