कोविदः - अन्वयक्रमः #05


इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
इत्थम् अव्ययम् in this manner
व्रतम् व्रत / पुं / द्वि.वि / ए.व vowed observance
धारयतः धारयत् / पुं / ष.वि / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
धृ + णिच् + शतृँ = धारयत् / पुं
while undertaking, observing
प्रजार्थम् प्रजार्थ / नपुं / द्वि.वि / ए.व for the sake of progeny
समम् अव्ययम् along with

सह, सार्धम्, साकम्, समम् ⇒ all these words mean the same, and all are अव्ययम् ।
महिष्या महिषी / स्त्री / तृ.वि / ए.व the crowned queen (Sudakṣiṇā)
महनीयकीर्तेः महनीयकीर्ति / स्त्री / ष.वि / ए.व

धातुविवरणम् :-
मह् [महँ पूजायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to worship, to revere)
कॄत् [कॄतँ संशब्दने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to make famous, to be famous)

पदविवरणम् :-
मह् + अनीयर् = महनीय / पुं
कॄत् + क्तिन् = कीर्ति / स्त्री

समासविवरणम् :-
[बहुव्रीहिसमासः]
महनीया कीर्तिः यस्य, तस्य = महनीयकीर्तेः
he, who was famous, worshipped, revered
सप्त सप्तन् / त्रि / प्र.वि / ब.व seven (cardinal)
व्यतीयुः वि + अति + इ + कर्तरि लिँट् / प्र.पु / ब.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
passed
त्रिगुणानि त्रिगुण / नपुं / प्र.वि / ब.व

समासविवरणम् :-
[बहुव्रीहिसमासः]
त्रयः गुणः येषां, तानि = त्रिगुणानि
three times
तस्य तद् / पुं / ष.वि / ए.व of his (of Dilīpa)
दिनानि दिन / नपुं / प्र.वि / ब.व days
दीनोद्धरणोचितस्य दीनोद्धरणोचित / पुं / ष.वि / ए.व

धातुविवरणम् :-
हृ [हृञ् हरणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to take away, to carry, to steal, to acquire)

पदविवरणम् :-
दीन / पुं
(= poor, needy, distressed)
उत् + हृ + ल्युट् = उद्धरण / नपुं
(= raising or uplifting)
उचित / पुं
(= fit, proper, right, suitable)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
दीनस्य उद्धारणम् = दीनोद्धरणम्
(= upliftment of the distressed)

[सप्तमीतत्पुरुषसमासः]
दीनोद्धरणे उचितः, तस्य = दीनोद्धरणोचितस्य
(= fit upliftment of the distressed)
he, who was intent on fit upliftment of the distressed

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (व्यतीयुः) गौणक्रिया 1.1 (धारयतः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सप्त
त्रिगुणानि
दिनानि
स.प्र.वि
द्वि.वि व्रतम्
प्रजार्थम्
तृ.वि महिष्या
(सुदक्षिणया)
च.वि
प.वि
ष.वि तस्य
(दिलीपस्य)
धारयतः
महनीयकीर्तेः
दीनोद्धरणोचितस्य
स.वि
अव्ययम् समम् इत्थम्
अन्वयः इत्थं प्रजार्थं महिष्या (सुदक्षिणया) समं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य (दिलीपस्य) सप्त त्रिगुणानि दिनानि व्यतीयुः ।
तात्पर्यम्
Purport For the sake of progeny, he (Dilīpa), who was observing the vow along with the crowned queen (Sudakṣiṇā), who was famous, worshipped and revered, who was intent on fit upliftment of the distressed, spent 3 times 7 days (21 days), in this manner.
अन्वयरचना व्यतीयुः
  • कानि व्यतीयुः? = दिनानि व्यतीयुः
    • कति दिनानि? = सप्त त्रिगुणानि दिनानि
  • कस्य व्यतीयुः? = तस्य व्यतीयुः
    • कीदृशस्य तस्य? = महनीयकीर्तेः तस्य
    • पुनः कीदृशस्य तस्य? = दीनोद्धरणोचितस्य तस्य
    • पुनः कीदृशस्य तस्य? = धारयतः तस्य
      • किं धारयतः? = व्रतं धारयतः
        • कथं व्रतं धारयतः? = इत्थं व्रतं धारयतः
        • किमर्थं व्रतं धारयतः? = प्रजार्थं व्रतं धारयतः
        • कया समं व्रतं धारयतः? = महिष्या समं व्रतं धारयतः

Comments