कोविदः - अन्वयक्रमः #04


मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
मरुत्प्रयुक्ताः मरुत्प्रयुक्त / पुं / प्र.वि / ब.व

धातुविवरणम् :-
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
प्र + युज् + क्त = प्रयुक्त / पुं & नपुं
(= appointed, employed)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
मरुता प्रयुक्तः = मरुत्प्रयुक्त

मरुत् / पुं ए.व द्वि.व ब.व
प्र.वि मरुत् / मरुद् मरुतौ मरुतः
सं.प्र.वि मरुत् / मरुद् मरुतौ मरुतः
द्वि.वि मरुतम् मरुतौ मरुतः
तृ.वि मरुता मरुद्भ्याम् मरुद्भिः
च.वि मरुते मरुद्भ्याम् मरुद्भ्यः
प.वि मरुतः मरुद्भ्याम् मरुद्भ्यः
ष.वि मरुतः मरुतोः मरुताम्
स.वि मरुति मरुतोः मरुत्सु

as directed, appointed, employed by the wind
अव्ययम् and
मरुत्सखाभम् मरुत्सखाभ / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
भा [भा दीप्तौ ; अदादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to glow, to shine, to look attractive, to look beautiful)

पदविवरणम् :-
आङ् + भा + अङ् + टाप् = आभा / स्त्री
(= शोभा कान्तिः = splendour)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मरुतः सखा [षष्ठी २.२.८ ⇒ इति षष्ठीतत्पुरुषः]
= मरुत् + सखि + टच् [राजाहस्सखिभ्यष्टच् ५.४.९१ सूत्रेण टच्]
[इति समासान्तप्रत्ययः]
= मरुत् + सख् + अ [यस्येति च ६.४.१४८ ⇒ इति टिलोपः]
= मरुत्सखः

[उपपदसमासः]
आभाति इति आभः

[उपमान-पूर्वपद-कर्मधारयसमासः]
मरुत्सखः इव आभः, तम् = मरुत्सखाभम्
with the radiance like Fire God
तम् तद् / पुं / द्वि.वि / ए.व to him
अर्च्यम् अर्च्य / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
ऋच् [ऋचँ स्तुतौ दीप्तौ च ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to praise, to pray, to glow, to shine)

पदविवरणम् :-
ऋच् + ण्यत् = अर्च्य / पुं
one, who should be (or worthy of being) honoured, respected, revered, worshipped
आरात् अव्ययम्

पदविवरणम् :-
आरात् दूर-समीपयोः (अमरः)
(= nearby, faraway)
nearby, close by, in the vicinity of
अभिवर्तमानम् अभिवर्तमान / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
अभि + वृत् + शानच् = अभिवर्तमान / पुं
while being
अवाकिरन् अव + कॄ + कर्तरि लँङ् / प्र.पु / ब.व

धातुविवरणम् :-
कॄ [कॄ विक्षेपे ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to discard, to throw away)
showered
बाललताः बाललता / स्त्री / प्र.वि / ब.व

पदविवरणम् :-
बाला / स्त्री
(= young)
लता / स्त्री
(= creeper)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारयसमासः]
बालाः च ताः लताः च = बाललताः
young creepers
प्रसूनैः प्रसून / नपुं / तृ.वि / ब.व

पदविवरणम् :-
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् (अमरः)
by flowers, by blossoms
आचारलाजैः आचारलाज / पुं / तृ.वि / ब.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)

पदविवरणम् :-
आङ् + चर् + घञ् = आचार / पुं
(= custom, practice, usage)
लाजः / पुं
(moist grain)
लाजाः / पुं (अमरः)
(fried or parched grain)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
आचारस्य लाजाः, तैः = आचारलाजैः
with the customary fried grains
इव अव्ययम् like
पौरकन्याः पौरकन्या / स्त्री / प्र.वि / ब.व

पदविवरणम् :-
पुर (a city) + अण् = पौर / पुं
(= citizen)
पुरे वसति शैषिकोऽण्

कन्या / स्त्री
(= 9-10 years old unmarried virgin girl)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
पौरस्य कन्या = पौरकन्या
city maidens

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अवाकिरन्) गौणक्रिया 1.1 (अभिवर्तमानम्) प्रधानक्रिया 2.0 (अवाकिरन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि बाललताः मरुत्प्रयुक्ताः पौरकन्याः
स.प्र.वि
द्वि.वि तम् मरुत्सखाभम्
अर्च्यम्
अभिवर्तमानम्
तृ.वि प्रसूनैः आचारलाजैः
च.वि
प.वि
ष.वि
स.वि
अव्ययम् आरात् इव
अन्वयः (यथा) पौरकन्याः (तम्) आचारलाजैः अवाकिरन् (तथा) इव मरुत्प्रयुक्ताः बाललताः मरुत्सखाभम् अर्च्यम् आरात् अभिवर्तमानं तं प्रसूनैः अवाकिरन् ।
तात्पर्यम्
Purport Just as the city maidens showered the fried grains, similarly the young creepers, wafted by the wind, showered the flowers, on him, who resembled the Fire God, who was worthy of worship, while he was nearby.
अन्वयरचना अवाकिरन्
  • काः अवाकिरन्? = बाललताः अवाकिरन्
    • कीदृश्यः बाललताः? = मरुत्प्रयुक्ताः बाललताः
  • कम् अवाकिरन्? = तम् अवाकिरन्
    • कीदृशं तम्? = मरुत्सखाभं तम्
    • पुनः कीदृशं तम्? = अर्च्यं तम्
    • पुनः कीदृशं तम्? = अभिवर्तमानं तम्
      • कुत्र अभिवर्तमानम्? = आरात् अभिवर्तमानम्
  • कैः अवाकिरन्? = प्रसूनैः अवाकिरन्
  • कथम् अवाकिरन्? = (यथा) पौरकन्याः आचारलाजैः (तथा) इव

Comments