कोविदः - अन्वयक्रमः #03


आस्वादवद्भिः कवलैस्तृणानां कन्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
आस्वादवद्भिः आस्वादवत् / पुं / तृ.वि / ब.व

धातुविवरणम् :-
स्वद् [ष्वदँ आस्वादने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to taste, to eat, to please the tongue, to have delight)

पदविवरणम् :-
आङ् + स्वद् + घञ् = आस्वाद / पुं
आस्वाद + मतुँप् = आस्वादवत् / पुं
tasty
कवलैः कवल / पुं / तृ.वि / ब.व by a mouthful
तृणानाम् तृण / पुं / ष.वि / ब.व grass
कन्डूयनैः कन्डूयन / नपुं / तृ.वि / ब.व

पदविवरणम् :-
कण्डूञ् (कण्ड्वादिः) + यक् = कन्डूय [धातुः]
कन्डूय + ल्युट् = कन्डूयन / नपुं
by the act of scratching

The original word here is कण्डूञ् । This word belongs to a special group of words called कण्ड्वादिः । The property of the words of कण्ड्वादि group is that these words get a प्रत्ययः called 'यक्' and then they get converted to धातुs. Therefore, we have कण्डूञ् + यक् => कन्डूय । Now कन्डूय is a धातु, so you can have forms like कन्डूयति, and so on. Since this is a "generated धातु" (i.e. generated by you on adding यक् प्रत्ययः), you will not find it in any धातुपाठः । This is an आतिदेशिकधातुः ।

धातवः द्विविधाः ।
  • औपदेशिकधातुः = पाणिनिना साक्षात् उपदिष्टाः धातवः औपदेशिकाः धातवः । ते धातुपाठपुस्तकेषु उपलभ्यते ।
  • आतिदेशिकधातुः = ये धातवः केषाञ्चित् प्रत्ययानां योजनेन सिद्ध्यन्ति ते आतिदेशिकाः धातवः ।
You can see the कण्ड्वादिगण here
दंश-निवारणैः दंशनिवारण / नपुं / तृ.वि / ब.व

धातुविवरणम् :-
दंश् [दन्शँ दशने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to bite, to sting)
वृ [वृ संवरणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to cover, to surround, to conceal)

पदविवरणम् :-
दंश् + अच् = दंश / पुं
नि + वृ + णिच् + करणे ल्युट् = निवारण / नपुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
दंशानां निवारणम्, तैः = दंश-निवारणैः
by removing / relieving from the bites (of insects, flies, etc ...)
अव्ययम् and
अ-व्याहतैः अव्याहत / पुं / तृ.वि / ब.व

धातुविवरणम् :-
हन् [हनँ हिंसागत्योः ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to go)

पदविवरणम् :-
वि + आङ् + हन् + क्त = व्याहत / पुं

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न व्याहतः, तैः = अव्याहतैः
uninterrupted, unobstructed, unimpeded
स्वैरगतैः स्वैरगत / नपुं / तृ.वि / ब.व

धातुविवरणम् :-
ईर् [ईरँ गतौ कम्पने च ; अदादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go, to shake, to tremble)
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
स्व + ईर् + अण् = स्वैर
(= following one's own inclinations, self-willed, unrestrained)
गम् + क्त = गत / पुं & नपुं
(= went, gone)

समासविवरणम् :-
[कर्मधारयसमासः - विशेषण-पूर्वपद]
स्वैरं गतम्, तैः = स्वैरगतैः
went following one's own inclination
सः तद् / पुं / प्र.वि / ए.व he
तस्याः तद् / स्त्री / ष.वि / ए.व she
सम्राट् सम् + राज् = सम्राज् / पुं / प्र.वि / ए.व

सम्राज् / पुं ए.व द्वि.व ब.व
प्र.वि सम्राट् / सम्राड् सम्राजौ सम्राजः
सं.प्र.वि सम्राट् / सम्राड् सम्राजौ सम्राजः
द्वि.वि सम्राजम् सम्राजौ सम्राजः
तृ.वि सम्राजा सम्राड्भ्याम् सम्राड्भिः
च.वि सम्राजे सम्राड्भ्याम् सम्राड्भ्यः
प.वि सम्राजः सम्राड्भ्याम् सम्राड्भ्यः
ष.वि सम्राजः सम्राजोः सम्राजाम्
स.वि सम्राजि सम्राजोः सम्राट्त्सु / सम्राट्सु

the sovereign king (Dilipa)
समाराधन-तत्परः समाराधन-तत्पर / पुं / प्र.वि / ए.व

धातुविवरणम् :-
राध् [राधँ संसिद्धौ ; स्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to accomplish, to attain, to fulfill, to achieve)

पदविवरणम् :-
सम् + आङ् + राध् + ल्युट् = समाराधन
(= act of gratification, service, worship, propitiation, adoration)
तत्पर
(= having that as one's highest object or aim,
totally devoted or addicted to, eagerly engaged in,
attending closely to)


समासविवरणम् :-
[सप्तमीतत्पुरुषसमासः]
समाराधने तत्परः = समाराधन-तत्परः
attending closely / devotedly in service, in gratification, in propitiation
अभूत् भू + कर्तरि लुँङ् / प्र.पु / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
was

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अभूत्)
विशेष्यम् विशेषणम्
प्र.वि सः सम्राट्
समाराधन-तत्परः
स.प्र.वि
द्वि.वि
तृ.वि कवलैः
कन्डूयनैः
दंश-निवारणैः
स्वैरगतैः
आस्वादवद्भिः


अ-व्याहतैः
च.वि
प.वि
ष.वि तस्याः
तृणानाम्
स.वि
अव्ययम्
अन्वयः सम्राट् सः आस्वादवद्भिः तृणानां कवलैः, कन्डूयनैः, दंशनिवारणैः, अव्याहतैः स्वैरगतैः च तस्याः समाराधनतत्परः अभूत् ।
तात्पर्यम्
Purport The sovereign king, (Dilipa), was attending devotedly in service of her (Nandini), by providing her mouthful of tasty grass, by scratching (her back), by relieving her from the bites (of insects, flies, etc ...) and by allowing her to roam following her's own inclinations.
अन्वयरचना अभूत्
  • कः अभूत्? = सः अभूत्
    • कीदृशः सः? = सम्राट् सः
    • पुनः कीदृशः सः? = समाराधनतत्परः सः
      • कस्याः समाराधनतत्परः? = तस्याः समाराधनतत्परः
      • कैः समाराधनतत्परः? = कवलैः समाराधनतत्परः
        • कीदृशैः कवलैः? = आस्वादवद्भिः कवलैः
        • केषां कवलैः? = तृणानां कवलैः
      • पुनः कैः समाराधनतत्परः? = कन्डूयनैः समाराधनतत्परः
      • पुनः कैः समाराधनतत्परः? = दंशनिवारणैः समाराधनतत्परः
      • पुनः कैः समाराधनतत्परः? = स्वैरगतैः समाराधनतत्परः
        • कीदृशैः स्वैरगतैः? = अव्याहतैः स्वैरगतैः

Comments