कोविदः - अन्वयक्रमः #02


तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तस्याः तद् / स्त्री / ष.वि / ए.व of her (of Nandini)
खुर-न्यास-पवित्र-पांसुम् खुरन्यासपवित्रपांसु / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
खुर / पुं
(= hoof)
नि + अस् + घञ् = न्यास / पुं
(= place, deposit)
पवित्र / पुं & नपुं
(= pure)
पांसु / पुं
(= dust)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
खुराणां न्यासः = खुरन्यासः
(= placing of the hooves)

[तृतीयातत्पुरुषसमासः]
खुरन्यासैः पवित्राः = खुरन्यासपवित्राः
(= purified by placing the hooves)

[बहुव्रीहिसमासः]
खुरन्यासपवित्राः पांसवः यस्य सः, तम् = खुरन्यासपवित्रपांसुम्
(= the dust that is purified by placing the hooves)
the dust that is purified by placing the hooves
अ-पांसुलानाम् अपांसुला / स्त्री / ष.वि / ए.व

पदविवरणम् :-
पांसु + लच् [तद्धित] = पांसुल / पुं
पांसुल + टाप् = पांसुला / स्त्री

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न पांसुला = अपांसुला
of chaste women
धुरि धुर् / स्त्री / स.वि / ए.व

धुर् / स्त्री ए.व द्वि.व ब.व
प्र.वि धूः धुरौ धुरः
सं.प्र.वि धूः धुरौ धुरः
द्वि.वि धुरम् धुरौ धुरः
तृ.वि धुरा धूर्भ्याम् धूर्भिः
च.वि धुरे धूर्भ्याम् धूर्भ्यः
प.वि धुरः धूर्भ्याम् धूर्भ्यः
ष.वि धुरः धुरोः धुराम्
स.वि धुरि धुरोः धूर्षु

in the forefront
कीर्तनीया कीर्तनीया / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
कॄत् [कॄतँ संशब्दने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to make famous, to be famous)

पदविवरणम् :-
कॄत् + अनीयर् = कीर्तनीय / पुं & नपुं
कीर्तनीय + टाप् = कीर्तनीया / स्त्री
she, who should be praised
मार्गम् मार्ग / पुं / द्वि.वि / ए.व the path
मनुष्य-ईश्वर-धर्म-पत्नी मनुष्येश्वरधर्मपत्नी / स्त्री / प्र.वि / ए.व

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मनुष्याणाम् ईश्वरः = मनुष्य-ईश्वर = मनुष्येश्वरः

[षष्ठीतत्पुरुषसमासः]
धर्मस्य पत्नी = धर्म-पत्नी

[षष्ठीतत्पुरुषसमासः]
मनुष्येश्वरस्य धर्मपत्नी = मनुष्येश्वरधर्मपत्नी
Sudakṣiṇā, the wife of the lord of the people, Dilīpa
श्रुतेः श्रुति / स्त्री / ष.वि / ए.व

धातुविवरणम् :-
श्रु [श्रु श्रवणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to hear, to listen)

पदविवरणम् :-
श्रु + क्तिन् = श्रुति / स्त्री
of vedas (that which is heard)
इव अव्ययम् like, similar to, just as
अर्थम् अर्थ / पुं / द्वि.वि / ए.व meaning
स्मृतिः स्मृति / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
स्मृ [स्मृ आध्याने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to remember, to recollect, to think upon, to recite mentally, to memorize)
स्मृ [स्मृ चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to remember, to recollect, to memorize)

पदविवरणम् :-
स्मृ + क्तिन् = स्मृति / स्त्री
of vedas (that which is remembered)
अन्वगच्छत् अनु + गम् + लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
followed

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अन्वगच्छत्) गौणक्रिया 1.1 (कीर्तनीया) प्रधानक्रिया 2.0 (अन्वगच्छति)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि मनुष्येश्वर-धर्म-पत्नी कीर्तनीया (मनुष्येश्वर-धर्म-पत्नी) स्मृतिः
स.प्र.वि
द्वि.वि मार्गम् खुर-न्यास-पवित्र-पांसुम् अर्थम्
तृ.वि
च.वि
प.वि
ष.वि तस्याः अ-पांसुलानाम् श्रुतेः
स.वि धुरि
अव्ययम् इव
अन्वयः (यथा) स्मृतिः, श्रुतेः अर्थम् (अन्वगच्छति तथा) इव; अपांसुलानाम् धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी तस्याः खुरन्यासपवित्रपांसुं मार्गम् अन्वगच्छत् ।
तात्पर्यम्
Purport Just as Smṛti follows the meaning of Śruti; Sudakṣiṇā, the wife of the lord of the people (Dilīpa), who is in the forefront of chaste women, who should be praised, followed her (Nandini) path, where the dust is purified by placing her hooves.
अन्वयरचना अन्वगच्छत्
  • का अन्वगच्छत्? = मनुष्येश्वर-धर्म-पत्नी अन्वगच्छत्
    • कीदृशी मनुष्येश्वर-धर्म-पत्नी? = कीर्तनीया मनुष्येश्वर-धर्म-पत्नी
      • कुत्र कीर्तनीया? = धुरि कीर्तनीया
        • कासां धुरि? = अ-पांसुलानाम् धुरि
  • कम् अन्वगच्छत्? = मार्गम् अन्वगच्छत्
    • कीदृशं मार्गम्? = खुर-न्यास-पवित्र-पांसुं मार्गम्
    • कस्याः मार्गम्? = तस्याः मार्गम्
  • कथम् अन्वगच्छत्? = यथा स्मृतिः, श्रुतेः अर्थम् अन्वगच्छत् तथा इव

Comments

Post a Comment