कोविदः - अन्वयक्रमः #08


तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तम् तद् / पुं / द्वि.वि / ए.व to him
आर्यगृह्यम् आर्यगृह्य / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
[ऋ गतिप्रापणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to obtain, to reach)
ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to take, to accept, to obtain)

पदविवरणम् :-
ऋ + ण्यत् = आर्य / पुं
(= of a good family, respectable, venerable)
ग्रह् + यत् = गृह्य / पुं
(= being in close relation to, belonging to a side, to be attracted)

समासविवरणम् :-
Interpretation #1
[षष्ठीतत्पुरुषसमासः]
आर्याणां गृह्यः, तम् = आर्यगृह्यम्
(= who is on the side of the noble men)

Interpretation #2
[तृतीयातत्पुरुषसमासः]
आर्यैः गृह्यः, तम् = आर्यगृह्यम्
(= who is attracted by the noble men)
he, who is on the side of the noble men
निगृहीतधेनुः निगृहीतधेनु / पुं / प्र.वि / ए.व

धातुविवरणम् :-
ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to take, to accept, to obtain)

पदविवरणम् :-
नि + ग्रह् + क्त = निगृहीत / त्रि (-तः-ता-तं)
(= seized, restrained, subdued, attacked)
धेनु / स्त्री
(= the milk-yielding cow)

समासविवरणम् :-
[बहुव्रीहिसमासः]
निगृहीता धेनुः येन, सः निगृहीतधेनुः
(= by whom the milk-yielding cow was seized, restrained)
he, by whom the milk-yielding cow was seized
मनुष्यवाचा मनुष्यवाच् / स्त्री / तृ.वि / ए.व

धातुविवरणम् :-
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
मनुष्य / पुं
(= human)
वच् + भावे क्विप् दीर्घो असंप्रसारणञ्च = वाच् / स्त्री
(= speech, talk)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मनुष्याणां वाक्, तया = मनुष्यवाचा
(= with human voice)

वाच् / स्त्री ए.व द्वि.व ब.व
प्र.वि वाक्, वाग् वाचौ वाचः
सं.प्र.वि वाक्, वाग् वाचौ वाचः
द्वि.वि वाचम् वाचौ वाचः
तृ.वि वाचा वाग्भ्याम् वाग्भिः
च.वि वाचे वाग्भ्याम् वाग्भ्यः
प.वि वाचः वाग्भ्याम् वाग्भ्यः
ष.वि वाचः वाचोः वाचाम्
स.वि वाचि वाचोः वाक्षु

with human voice
मनुवंशकेतुम् मनुवंशकेतु / पुं / द्वि.वि / ए.व

पदविवरणम् :-
मनु / पुं
(= The names of the fourteen Manus in order are:
१ स्वायंभुव, २ स्वारोचिष, ३ औत्तमि, ४ तामस, ५ रैवत, ६ चाक्षुष, ७ वैवस्वत,
८ सावर्णि, ९ दक्षसावर्णि, १ ब्रह्मसावर्णि, ११ धर्मसावर्णि, १२ रुद्रसावर्णि,
१३ रौच्य-दैवसावर्णि and १४ इंद्रसावर्णि)

वंश / पुं
(= race, lineage, family)
केतु / पुं
(= a chief, head, leader, foremost, any eminent person)
{केतु is often used at the end of a compound}


समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मनोः वंशः, तम् = मनुवंशम्
(= race or lineage of वैवस्वतमनुः)

[षष्ठीतत्पुरुषसमासः]
मनुवंशस्य केतुः, तम् = मनुवंशकेतुम्
(= the flagbearer of the lineage of वैवस्वतमनुः)
he, who is the flagbearer of the lineage of Vaivasvatamanu
विस्माययन् विस्माययत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्मि [ष्मिङ् ईषद्धसने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to smile a bit)

पदविवरणम् :-
वि + स्मि + णिच् + शतृँ = विस्माययत् / पुं
(= causing to be astonished, surprised)
causing to be astonished, surprised
विस्मितम् विस्मित / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
स्मि [ष्मिङ् ईषद्धसने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to smile a bit)

पदविवरणम् :-
वि + स्मि + कर्तरि क्त = विस्मित / पुं
(= astonished, surprised)
astonished, surprised
आत्मवृत्तौ आत्मवृत्ति / स्त्री / स.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
आत्मन् / पुं
(= self, soul)
वृत् + क्तिन् = वृत्ति / स्त्री
(= being, abiding, staying)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
आत्मनः वृत्तिः, तस्याम् = आत्मवृत्तौ
(= in one's own circumstances)
in one's own circumstances
सिंहोरुसत्त्वम् सिंहोरुसत्त्व / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
सिंह / पुं
(= lion)
उरु / नपुं
(= बहु, more, extensive, wide, broad, great)
अस् + शतृँ = सत् / त्रि (-न्-ती-त्)
(= being, existence, reality, good, excellent)
सत् + त्व = सत्त्व / नपुं
(= strength)

समासविवरणम् :-
[बहुव्रीहिसमासः]
उरु सत्वं यस्य सः = उरुसत्वः
(= he, who has great strength)

[उपमान-पूर्वपद-बहुव्रीहिसमासः]
सिंहः इव उरुसत्वः यस्य सः = सिंहोरुसत्वः
(= he, who has great strength like a lion)
he, who has great strength like a lion
निजगाद नि + गद् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
गद् [गदँ व्यक्तायां वाचि ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to speak, to tell, to explain, to talk)
spoke
सिंहः सिंह / पुं / प्र.वि / ए.व the lion

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (निजगाद) गौणक्रिया 1.1 (विस्माययन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सिंहः निगृहीतधेनुः (सिंहः)
स.प्र.वि
द्वि.वि तम् आर्यगृह्यम्
मनुवंशकेतुम्
सिंहोरुसत्त्वम्
विस्मितम्
(तम्)
तृ.वि मनुष्यवाचा
च.वि
प.वि
ष.वि
स.वि आत्मवृत्तौ
अव्ययम्
अन्वयः निगृहीतधेनुः सिंहः आर्यगृह्यं मनुवंशकेतुं सिंहोरुसत्त्वं आत्मवृत्तौ विस्मितं तं मनुष्यवाचा विस्माययन् निजगाद ।
तात्पर्यम्
Purport The lion, by whom the milk-yielding cow was seized, while causing him (King Dilīpa) to be surprised by speaking in human voice, spoke to him (King Dilīpa), who is on the side of the noble men, who is the flagbearer of the lineage of Vaivasvatamanu, who has great strength like a lion, who was (already) surprised at his own circumstances.
अन्वयरचना निजगाद
  • कः निजगाद? = सिंहः निजगाद
    • कीदृशः सिंहः? = निगृहीतधेनुः सिंहः
  • कं निजगाद? = तं निजगाद
    • कीदृशं तम्? = आर्यगृह्यं तम्
    • पुनः कीदृशं तम्? = मनुवंशकेतुं तम्
    • पुनः कीदृशं तम्? = सिंहोरुसत्त्वं तम्
    • पुनः कीदृशं तम्? = विस्मितं तम्
      • कुत्र / कस्मिन् विषये विस्मितम्? = आत्मवृत्तौ विस्मितम्
  • किं कुर्वन् निजगाद? = विस्माययन् निजगाद
    • कया विस्माययन्? = मनुष्यवाचा विस्माययन्

Comments