कोविदः - अन्वयक्रमः #09


कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
कैलासगौरम् कैलास-गौर / पुं / द्वि.वि / ए.व

पदविवरणम् :-
कैलास / पुं
(= Mt. Kailasa)
गौर / त्रि (-रः-री-रं)
(= white, pure)

समासविवरणम् :-
[उपमान-पूर्वपद-कर्मधारयसमासः]
कैलासः इव गौरः, तम् = कैलासगौरम्
(= white as Mt. Kailasa)
him, who is as white as Mt. Kailasa
वृषम् वृष / पुं / द्वि.वि / ए.व him, the bull
आरुरुक्षोः आरुरुक्षु / पुं / ष.वि / ए.व

धातुविवरणम् :-
रुह् [रुहँ बीजजन्मनि प्रादुर्भावे च ; भ्वादिः ; परस्मैपदी ;
अकर्मकः ; अनिट्]
(to grow from seed, to manifest, to rise, to ascend,
to take birth, to be born)


पदविवरणम् :-
आङ् + रुह् + सन् = आरुरुक्ष [धातुः]
आङ् + रुह् + सन् + उ [कृत्] = आरुरुक्षु / पुं
(= आरोढुम् इच्छुः = आरुरुक्षुः, तस्य = आरुरुक्षोः)
(= who is desirous of climbing)
he, who is desirous of climbing
पादार्पणानुग्रहपूतपृष्ठम् पाद-अर्पण-अनुग्रह-पूत-पृष्ठ / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
[ऋ गतिप्रापणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to obtain, to reach)
ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to take, to accept, to obtain)
पू [पूङ् पवने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to purify, to cleanse)

पदविवरणम् :-
पाद / पुं
(= foot)
ऋ + णिच् + ल्युट् = अर्पण / नपुं
(= entrusting, offering)
अनु + ग्रह् + अच् = अनुग्रह / पुं
(= conferring benefits, blessing)
पू + क्त = पूत / त्रि (-तः-ता-तं)
(= purified, cleansed)
पृष्ठ / नपुं
(= the back, hinder part, rear)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
पादयोः अर्पणम् = पादार्पणम्
(= offering to the feet, placing of Lord Śiva's feet)

[अवधारण-पूर्वपद-कर्मधारयसमासः]
पादार्पणम् एव अनुग्रहः = पादार्पणानुग्रहः
(= placing of Lord Śiva's feet, which itself is a blessing)

[बहुव्रीहिसमासः]
पूतं पृष्ठं यस्य सः, तम् = पूतपृष्ठम्
(= him, whose back is purified)

[तृतीयातत्पुरुषसमासः]
पादार्पणानुग्रहेण पूतपृष्ठः, तम् = पादार्पणानुग्रहपूतपृष्ठम्
(= him, whose back is purified by placing of Lord Śiva's feet,
which itself is a blessing)
him, whose back is purified by placing of Lord Śiva's feet, which itself is a blessing
अवेहि अव + इ + लोँट् / म.पु / ए.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
know
माम् अस्मद् / त्रि / द्वि.वि / ए.व me
किंकरम् किंकर / पुं / द्वि.वि / ए.व servant or slave
अष्टमूर्तेः अष्टन्-मूर्ति / पुं / ष.वि / ए.व

धातुविवरणम् :-
मूर्छ् [मुर्छाँ मोहसमुच्छ्राययोः ; भ्वादिः ; परस्मैपदी ;
अकर्मकः ; सेट्]
(to faint, to be unconscious, to be shy)

पदविवरणम् :-
अष्टन् / -
(= eight)
मूर्छ् + क्तिन् = मूर्ति / पुं
(= anything which has definite shape and limits, material element,
matter, substance)

अष्टन् + मूर्ति = अष्टमूर्ति / पुं
(= eight forms)

समासविवरणम् :-
[बहिव्रीहिसमासः]
अष्ट मूर्तयः यस्य सः, तस्य = अष्टमूर्तेः
अष्टौ मूर्तयः यस्य सः, तस्य = अष्टमूर्तेः
(= of him, who has eight forms)

अष्टन् / - ए.व द्वि.व ब.व
प्र.वि अष्टौ / अष्ट
द्वि.वि अष्टौ / अष्ट
तृ.वि अष्टाभिः / अष्टभिः
च.वि अष्टाभ्यः / अष्टभ्यः
प.वि अष्टाभ्यः / अष्टभ्यः
ष.वि अष्टानाम्
स.वि अष्टासु / अष्टसु

of one who has eight forms (Lord Śiva)

1) शर्वः - Earth
2) भवः - Water
3) रुद्रः - Fire
4) उग्रः - Wind
5) भीमः - Ether
6) पशुपतिः - Soul
7) ईशानः - Sun
8) महादेवः - Moon
कुम्भोदरम् कुम्भोदर / पुं / द्वि.वि / ए.व

पदविवरणम् :-
कुम्भ / पुं
(= pot)
उदर / नपुं
(= belly)

समासविवरणम् :-
[उपमान-पूर्वपद-बहुव्रीहिसमासः]
कुम्भः इव उदरं यस्य सः, तम् = कुम्भोदरम्
(= one, whose belly is like a pot)
Kumbhodara (one, whose belly is like a pot)
नाम नाम / अव्ययम् by name
निकुम्भमित्रम् निकुम्भमित्र / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
निकुम्भ / पुं
(= Nikumbha)
मित्र / नपुं
(= friend)

समासविवरणम् :-
Interpretation #1
[षष्ठीतत्पुरुषसमासः]
निकुम्भस्य मित्रम्, तत् = निकुम्भमित्रम्
(= निकुम्भमित्र / नपुं / द्वि.वि / ए.व)
(= him, the friend of Nikumbha)

Interpretation #2
[बहुव्रीहिसमासः]
निकुम्भः मित्रम् यस्य सः, तम् = निकुम्भमित्रम्
(= निकुम्भमित्र / पुं / द्वि.वि / ए.व)
(= him, the friend of Nikumbha)
him, who is a friend of Nikumbha

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अवेहि) गौणक्रिया 1.1 (आरुरुक्षोः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि (त्वम्)
स.प्र.वि
द्वि.वि कुम्भोदरं नाम
माम्
पादार्पणानुग्रहपूतपृष्ठम्
निकुम्भमित्रम्
किंकरम्
वृषम् कैलासगौरम्
तृ.वि
च.वि
प.वि
ष.वि अष्टमूर्तेः आरुरुक्षोः
स.वि
अव्ययम्
अन्वयः कैलासगौरं वृषम् आरुरुक्षोः अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठं निकुम्भमित्रं कुम्भोदरं नाम किंकरं माम् अवेहि ।
तात्पर्यम्
Purport You know me, by name Kumbhodara, the friend of Nikumbha, the servant, whose back is purified by placing of the feet, which itself is a blessing, of one who has eight forms (Lord Śiva), who is desirous of climbing, the bull, who is as white as Mt. Kailasa.
अन्वयरचना अवेहि
  • कः अवेहि? = (त्वम्) अवेहि
  • कम् अवेहि? = माम् अवेहि
    • कीदृशं माम्? = कुम्भोदरम् नाम माम्
    • पुनः कीदृशं माम्? = निकुम्भमित्रं माम्
    • पुनः कीदृशं माम्? = किंकरं माम्
      • (कस्य किंकरम्? = अष्टमूर्तेः किंकरम्)
    • पुनः कीदृशं माम्? = पादार्पणानुग्रहपूतपृष्ठं माम्
      • कस्य पादार्पणानुग्रहपूतपृष्ठम्? = अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठम्
        • कीदृशस्य अष्टमूर्तेः? = आरुरुक्षोः अष्टमूर्तेः
          • कम् आरुरुक्षोः? = वृषम् आरुरुक्षोः
            • कीदृशं वृषम्? = कैलासगौरं वृषम्

Comments