कोविदः - अन्वयक्रमः #10


कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
कण्डूयमानेन कण्डूयमान / नपुं / तृ.वि / ए.व

पदविवरणम् :-
कण्डूञ् (कण्ड्वादिः) + यक् = कन्डूय [धातुः]
कन्डूय + शानच् = कण्डूयमान / पुं & नपुं
by rubbing, scratching

The original word here is कण्डूञ् । This word belongs to a special group of words called कण्ड्वादिः । The property of the words of कण्ड्वादि group is that these words get a प्रत्ययः called 'यक्' and then they get converted to धातुs. Therefore, we have कण्डूञ् + यक् => कन्डूय । Now कन्डूय is a धातु, so you can have forms like कन्डूयति, and so on. Since this is a "generated धातु" (i.e. generated by you on adding यक् प्रत्ययः), you will not find it in any धातुपाठः । This is an आतिदेशिकधातुः ।

धातवः द्विविधाः ।
  • औपदेशिकधातुः = पाणिनिना साक्षात् उपदिष्टाः धातवः औपदेशिकाः धातवः । ते धातुपाठपुस्तकेषु उपलभ्यते ।
  • आतिदेशिकधातुः = ये धातवः केषाञ्चित् प्रत्ययानां योजनेन सिद्ध्यन्ति ते आतिदेशिकाः धातवः ।
You can see the कण्ड्वादिगण here
कटम् कट / पुं / द्वि.वि / ए.व the temples of an elephant
कदाचित् कदाचित् / अव्ययम् once
वन्यद्विपेन वन्यद्विप / पुं / तृ.वि / ए.व

धातुविवरणम् :-
पा [पा पाने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to drink)

पदविवरणम् :-
वन + यत् = वन्य / त्रि
(= वने भवः, being in the wild)
द्विः + पा ड [कृत्] = द्विः पिबति = द्विप / पुं
(= द्वाभ्यां शुण्डमुखाभ्यां पिबति इति ।)
(= who drinks twice)
by a wild elephant

द्विप / पुं

An elephant drinks twice. An elephant imbibes fluids by his trunk and then conveys them to his mouth.
उन्मथिता उन्मथिता / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
मथ् [मथेँ विलोडने ; भ्वादिः ; परस्मैपदी ; द्विकर्मकः ; सेट्]
(to churn, to think, to meditate, to ponder)

पदविवरणम् :-
उत् + मथ् + क्त + टाप् = उन्मथिता / स्त्री
(= peeled, shaken, agitated)
peeled, shaken, agitated
त्वक् त्वच् / स्त्री / प्र.वि / ए.व

त्वच् / स्त्री ए.व द्वि.व ब.व
प्र.वि त्वक् / त्वग् त्वचौ त्वचः
सं.प्र.वि त्वक् / त्वग् त्वचौ त्वचः
द्वि.वि त्वचम् त्वचौ त्वचः
तृ.वि त्वचा त्वग्भ्याम् त्वग्भिः
च.वि त्वचे त्वग्भ्याम् त्वग्भ्यः
प.वि त्वचः त्वग्भ्याम् त्वग्भ्यः
ष.वि त्वचः त्वचोः त्वचाम्
स.वि त्वचि त्वचोः त्वक्षु

skin (bark)
अस्य इदम् / पुं / ष.वि / ए.व

इदम् / पुं ए.व द्वि.व ब.व
प्र.वि अयम् इमौ इमे
द्वि.वि एनम् / इमम् एनौ / इमौ एनान् / इमान्
तृ.वि एनेन / अनेन आभ्याम् एभिः
च.वि अस्मै आभ्याम् एभ्यः
प.वि अस्मात् / अस्माद् आभ्याम् एभ्यः
ष.वि अस्य एनयोः / अनयोः एषाम्
स.वि अस्मिन् एनयोः / अनयोः एषु

its (of the tree)
अथ अथ / अव्ययम् then
एनम् एतद् / पुं / द्वि.वि / ए.व
इदम् / पुं / द्वि.वि / ए.व

एतद् / पुं ए.व द्वि.व ब.व
प्र.वि एषः एतौ एते
द्वि.वि एनम् / एतम् एनौ / एतौ एनान् / एतान्
तृ.वि एनेन / एतेन एताभ्याम् एतैः
च.वि एतस्मै एताभ्याम् एतेभ्यः
प.वि एतस्मात् / एतस्माद् एताभ्याम् एतेभ्यः
ष.वि एतस्य एनयोः / एतयोः एतेषाम्
स.वि एतस्मिन् एनयोः / एतयोः एतेषु

(to him) to the tree
अद्रेः अद्रि / पुं / ष.वि / ए.व

धातुविवरणम् :-
अद् [अदँ भक्षणे ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to eat, to binge)

पदविवरणम् :-
अद् + क्रिन् = अद्रि / पुं
(= mountain)
of the mountain
तनया तनया / स्त्री / प्र.वि / ए.व daughter
शुशोच शुच् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
शुच् [शुचँ शोके ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to worry, to sorrow, to grieve)
grieved over
सेनान्यम् सेनानी / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
नी [णीञ् प्रापणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to obtain, to carry, to take)

पदविवरणम् :-
सेना + नी + क्विप् = सेनानी / पुं
(= सेनां देवसेनां वा नयति ।)
(= A general, a commander of the army)

सेनानी / पुं ए.व द्वि.व ब.व
प्र.वि सेनानीः सेनान्यौ सेनान्यः
सं.प्र.वि सेनानीः सेनान्यौ सेनान्यः
द्वि.वि सेनान्यम् सेनान्यौ सेनान्यः
तृ.वि सेनान्या सेनानीभ्याम् सेनानीभिः
च.वि सेनान्ये सेनानीभ्याम् सेनानीभ्यः
प.वि सेनान्यः सेनानीभ्याम् सेनानीभ्यः
ष.वि सेनान्यः सेनान्योः सेनान्याम्
स.वि सेनान्याम् सेनान्योः सेनानीषु

Kārtikeya, the commander of an army of the Gods.
आलीढम् आलीढ / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
लिह् [लिहँ आस्वादने ; अदादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to lick, to taste, to pasture)

पदविवरणम् :-
आङ् + लिह् + क्त = आलीढ / पुं
(= licked, lapped)
wound, hurt (that which is being licked or lapped)
इव इव / अव्ययम् like
असुरास्त्रैः असुरास्त्र / पुं / तृ.वि / ब.व

पदविवरणम् :-
असुर / पुं
(= demon)
अस्त्र / नपुं
(= weapon)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
असुराणाम् अस्त्राणि, तैः = असुरास्त्रैः
(= by the arrows of the demons)
by the arrows of the demons

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (शुशोच) गौणक्रिया 1.1 (कण्डूयमानेन) गौणक्रिया 1.2 (उन्मथिता) प्रधानक्रिया 2.0 (शुशोच)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि (तनया) त्वक् तनया
स.प्र.वि
द्वि.वि एनम् कटम् सेनान्यम् आलीढम्
तृ.वि वन्यद्विपेन असुरास्त्रैः
च.वि
प.वि
ष.वि (अद्रेः) अस्य अद्रेः
स.वि
अव्ययम् अथ कदाचित् इव
अन्वयः कदाचित् कटं कण्डूयमानेन वन्यद्विपेन अस्य (देवदारुवृक्षस्य) त्वक् उन्मथिता, अथ अद्रेः तनया असुरास्त्रैः सेनान्यम् आलीढम् इव एनं शुशोच ।
तात्पर्यम्
Purport Once the bark of this (Deodar) tree was peeled by a wild elephant, rubbing his temple. Then, (Pārvatī) the daughter of the mountain (Himavān) grieved over, in the same manner she grieved over when Kārtikeya, the commander of an army of the Gods, was wounded by the arrows of the demons.
अन्वयरचना शुशोच
  • का शुशोच? = तनया शुशोच
    • कस्य तनया? = अद्रेः तनया
  • कं शुशोच? = एनं शुशोच
  • कम् इव शुशोच? = सेनान्यम् इव शुशोच
    • कीदृशं सेनान्यम्? = आलीढं सेनान्यम्
      • कैः आलीढम्? = असुरास्त्रैः आलीढम्
  • कदा शुशोच? = अथ उन्मथिता शुशोच
    • का उन्मथिता? = त्वक् उन्मथिता
      • कस्य त्वक्? = अस्य त्वक्
    • केन उन्मथिता? = वन्यद्विपेन उन्मथिता
      • कीदृशेन वन्यद्विपेन? = कण्डूयमानेन वन्यद्विपेन
        • कं कण्डूयमानेन? = कटं कण्डूयमानेन
    • कदा उन्मथिता? = कदाचित् उन्मथिता

Comments