परिचयः - सुभाषितम् #02


साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
साधूनाम् साधु / पुं / ष.वि / ब.व

सन्धिविवरणम् :-
साधूनाम् + दर्शनम्
= साधूना + (म् ⇒ ं) + दर्शनम् [अनुस्वारसन्धिः ८.३.२३]
= साधूनां दर्शनम्
of the pious men, saints
दर्शनम् दर्शन / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)

पदविवरणम् :-
दृश् + ल्युट् = दर्शन / नपुं
(= the act of looking)

सन्धिविवरणम् :-
दर्शनम् + पुण्यम्
= दर्शन + (म् ⇒ ं) + पुण्यम् [अनुस्वारसन्धिः ८.३.२३]
= दर्शनं पुण्यम्
the sight
पुण्यम् पुण्य / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
पू [पूङ् पवने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to purify, to cleanse)

पदविवरणम् :-
पू + यत् = पुण्य / नपुं (-ण्यः-ण्या-ण्यम्)
(= virtuous, pure, righteous, moral or religious merit)

सन्धिविवरणम् :-
पुण्यम् + तीर्थभूता
= पुण्य + (म् ⇒ ं) + तीर्थभूता [अनुस्वारसन्धिः ८.३.२३]
= पुण्यं तीर्थभूता
(brings) merit
तीर्थभूताः तीर्थभूत / पुं / प्र.वि / ब.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
तीर्थ / त्रि (-थः-था-थम्)
(= holy place)
भू + क्त = भूत / त्रि (-तः-ता-तम्)
(= became, has become)

समासविवरणम् :-
[बहुव्रीहिसमासः]
तीर्थः भूतः यस्य सः = तीथभूतः
(= one who has become like a holy place)
one who has become like a holy place
हि अव्ययम् itself, certainly
साधवः साधु / पुं / प्र.वि / ब.व the pious men, saints
तीर्थम् तीर्थ / नपुं / प्र.वि / ए.व (visit to) holy place
फलति फल् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
फल् [फलँ निष्पत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to succeed, to complete, to conclude, to get good results)
bears fruit
कालेन अव्ययम् in due course of time
सद्यः अव्ययम् immediately
साधुसमागमः साधुसमागम / पुं / प्र.वि / ए.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
साधु / पुं
(= a pious man)
सम् + आङ् + गम् + अच् = समागम / पुं
(= association, acquaintance)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
साधूनाम् समागमः = साधुसमागमः
(= association with the pious men)
association with the pious men, saints

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
साधूनां दर्शनं पुण्यं (लभते) ।
(यतः) साधवः तीर्थभूताः हि (भवति) ।
Because pious men are like holy places, the mere sight of pious men brings merit, as much as a visit to holy place brings.
तीर्थं कालेन फलति (परन्तु) साधुसमागमः सद्यः (एव फलति) । (Visit to) holy place bears fruit in due course of time, (but) association with pious people bears fruit immediately.

Comments