परिचयः - सुभाषितम् #01


आशाया ये दासास्ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
आशायाः आशा / स्त्री / ष.वि / ए.व

सन्धिविवरणम् :-
आशायाः + ये
= आशाय् + आ + (: ⇒ x) + ये [विसर्गलोपसन्धिः]
= आशाया ये
of desire (desire's)
ये यद् / पुं / प्र.वि / ब.व those who
दासाः दास / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
दासाः + ते
= दासा + (: ⇒ स्) + ते [विसर्ग-सकारादेशसन्धिः]
= दासास्ते
slaves
ते तद् / पुं / प्र.वि / ब.व they
दासाः दास / पुं / प्र.वि / ब.व slaves
सर्वलोकस्य सर्वलोक / पुं / ष.वि / ए.व

पदविवरणम् :-
सर्व / पुं
(= all, entire)
लोक / पुं
(= world)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
सर्वाणां लोकः = सर्वलोकः
(= of entire world)
of entire world (entire world's)
आशा आशा / स्त्री / प्र.वि / ए.व desire
येषाम् यद् / पुं / ष.वि / ब.व

सन्धिविवरणम् :-
येषाम् + दासी
= येषा + (म् ⇒ ं) + दासी [अनुस्वारसन्धिः]
= येषां दासी
of whom (whom's)
दासी दासी / स्त्री / प्र.वि / ए.व slave
तेषाम् तद् / पुं / ष.वि / ब.व

सन्धिविवरणम् :-
तेषाम् + दासायते
= तेषा + (म् ⇒ ं) + दासायते [अनुस्वारसन्धिः]
= तेषां दासायते
of those (those's)
दासायते दासाय [नाम-धातुः] + आत्मनेपद लँट् / प्र.पु / ए.व

पदविवर्णम् :-
दास [प्रातिपदिकम्] + सुँ + क्यङ् [सनादि प्रत्ययः] = दासाय [नाम-धातुः]
दासाय [नाम-धातुः] + आत्मनेपद लँट् = दासायते
act as a slave
लोकः लोक / पुं / प्र.वि / ए.व the world

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
ये आशायाः दासाः,
ते सर्वलोकस्य दासाः (भवन्ति) ।
Those who are slaves of desire, they become the slaves of the entire world.
आशा येषां दासी,
लोकः तेषां दासायते ।
Of whom desire is a slave, of those the world acts as a slave.

Comments