शिक्षा - सुभाषितम् #15


आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
आयुः आयुस् / नपुं / प्र.वि / ए.व lifetime
वर्षशतम् वर्ष + शत = वर्षशत / नपुं / द्वि.वि / ए.व 100 years
नृणाम् नृ / पुं / ष.वि / ब.व

नृ / पुं ए.व द्वि.व ब.व
प्र.वि ना नरौ नरः
सं.प्र.वि नः नरौ नरः
द्वि.वि नरम् नरौ नॄन्
तृ.वि न्रा नृभ्याम् नृभिः
च.वि न्रे नृभ्याम् नृभ्यः
प.वि नुः नृभ्याम् नृभ्यः
ष.वि नुः न्रोः नॄणाम् / नृणाम्
स.वि नरि न्रोः नृषु

of men
परिमितम् परिमित / नपुं / द्वि.वि / ए.व

परि + मा + क्त [कृत्] = परिमित / पुं & नपुं
परिमित + टाप् [स्त्री] = परिमिता / स्त्री

परिमितः - परिमितौ - परिमिताः (परिमित / पुं)
परिमिता - परिमिते - परिमिताः (परिमिता / स्त्री)
परिमितम् - परिमिते - परिमितानि (परिमित / नपुं)
limited
रात्रौ रात्रि / स्त्री / स.वि / ए.व during the night
तत् तद् / नपुं / प्र.वि / ए.व that
अर्धम् अर्ध / नपुं / प्र.वि / ए.व half
गतम् गत / नपुं / प्र.वि / ए.व

गम् + क्त [कृत्] = गत / पुं & नपुं
गत + टाप् [स्त्री] = गता / स्त्री

गतः - गतौ - गतः (गत / पुं)
गता - गते - गतः (गता / स्त्री)
गतम् - गते - गतानि (गत / नपुं)
gone
तस्य तद् / नपुं / ष.वि / ए.व after
अर्धस्य अर्ध / नपुं / ष.वि / ए.व that
परस्य पर / नपुं / ष.वि / ए.व half
अव्ययम् and
अर्धम् अर्ध / नपुं / प्र.वि / ए.व half
अपरम् ??? the other
बालत्ववृद्धत्वयोः बालत्व + वृद्धत्व / नपुं / स.वि / द्वि.व

बाल + त्व [तद्धित] = बालत्व / नपुं
वृद्ध + त्व [तद्धित] = वृद्धत्व / नपुं
in childhood and in oldage

बालत्व = quality of a child
वृद्धत्व = quality of an old person

A person need not be a child or an aged person, to spend time in quality of a child or an aged person, respectively.
शेषम् शेष / नपुं / द्वि.वि / ए.व remaining
व्याधिवियोगदुःखसहितम् व्याधिवियोगदुःखसहित / नपुं / द्वि.वि / ए.व

व्याधि + वियोग + दुःख + सहित = व्याधिवियोगदुःखसहित
the pain / sadness of illness and separation
सेवादिभिः सेवादि / पुं / तृ.वि / ब.व

सेवा + आदि = सेवादि / पुं
by service and others
नीयते नी + भावे लट् / प्र.पु / ए.व is taken up
जीवे जीव / पुं / स.वि / ए.व in life
वारितरङ्गचञ्चलतरे वारितरङ्गचञ्चलतर / पुं / स.वि / ए.व

वारि + तरङ्ग + चञ्चल + तरप् [तद्धित] = वारितरङ्गचञ्चलतर / पुं
that is like waves in water
सौख्यं सौख्य / नपुं / प्र.वि / ए.व

सुख + स्वार्थे ष्यञ् = सौख्य / नपुं
happiness
कुतः अव्ययम् from where

Go Top
प्रतिपदार्थम् अर्थः (Meaning) अन्वयः (Prose order) तात्पर्यम् (Purport)
नृणाम् आयुः
वर्षशतं परिमितं
(भवति) ।
Lifetime of men is limited to 100 years. नृणाम् आयुः वर्षशतं परिमितं (भवति) ।
रात्रौ तत् अर्धं गतं (भवति) ।
तस्य अर्धस्य परस्य अपरम् अर्धं बालत्ववृद्धत्वयोः (गतं भवति) ।
व्याधिवियोगदुःखसहितं शेषं सेवादिभिः नीयते ।
वारितरङ्गचञ्चलतरे जीवे प्राणिनां सौख्यं कुतः (भवति) ?
Lifetime of men is limited to 100 years. During the night, a half is gone. After that half, the other half, is gone in childhood and in old age. That which remains after pain of illness and separation, is taken away by service and other activities. In this life that is like/(as unstable as) the waves of the water, where is the happiness for the living beings.
रात्रौ तत् अर्धं गतं (भवति) । During the night, a half is gone.
तस्य अर्धस्य परस्य
अपरम् अर्धं
बालत्ववृद्धत्वयोः
(गतं भवति) ।
After that half, the other half, is gone in childhood and in old age.
[कर्मणि प्रयोगः]
व्याधिवियोगदुःखसहितं शेषं
सेवादिभिः नीयते ।

[कर्तरि प्रयोगः]
सेवादयः
व्याधिवियोगदुःखसहितं शेषं
नयन्ति ।
That which remains after pain of illness and separation, is taken away by service and other activities.
वारितरङ्गचञ्चलतरे जीवे
प्राणिनां सौख्यं कुतः
(भवति) ?
In this life that is like/(as unstable as) the waves of the water, where is the happiness for the living beings.

Comments