शिक्षा - सुभाषितम् #16


फलमलमशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम्
अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
फलम् फल / नपुं / प्र.वि / ए.व fruit
अलम् अव्ययम् enough
अशनाय अशन / नपुं / च.वि / ए.व

पदविवरणम् :-
अश् + ल्युट् = अशन / नपुं
for food
स्वादु स्वादु / नपुं / प्र.वि / ए.व sweet
पानाय पान / नपुं / च.वि / ए.व

पदविवरणम् :-
पा + ल्युट् = पान / नपुं
for drink
तोयम् तोय / नपुं / प्र.वि / ए.व water
क्षितिः क्षिति / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
क्षि + निवासे आधारे क्तिन् = क्षिति / स्त्री
earth
अपि अव्ययम् also
शयनार्थम् शयन + अर्थम् = शयनार्थम् / अव्ययम्

पदविवरणम् :-
शी + ल्युट् = शयन / नपुं
for sleep
वाससे वासस् / नपुं ? / च.वि / ए.व

पदविवरणम् :-
वस् + आछादने असि णिञ्च = वासस् / नपुं ?
for clothing
वल्कलम् वल्कल / नपुं / प्र.वि / ए.व bark of the tree
अव्ययम् and
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम् नवधनमधुपानभ्रान्तसर्वेन्द्रिय / नपुं / ष.वि / ब.व

समासविवरणम् :-
नव + धन = नवधन / नपुं
नवधन + मधु = नवधनमधु / पुं
नवधनमधु + पान = नवधनमधुपान / नपुं
नवधनमधुपान + भ्रान्त = नवधनमधुपानभ्रान्त / पुं
नवधनमधुपानभ्रान्त + सर्व = नवधनमधुपानभ्रान्तसर्व / पुं
नवधनमधुपानभ्रान्तसर्व + इन्द्रिय = नवधनमधुपानभ्रान्तसर्वइन्द्रिय / नपुं
whose all senses have been maddened by the enjoyment of newly acquired wealth, which has proven a wine to them
अविनयम् अविनयम् / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
आङ् + वि + नी + ल्युट् = अविनयम् / नपुं
the act of being rude
अनुमन्तुम् अनुमन्तुम् / अव्ययम्

पदविवरणम् :-
अनु + मन् + तुमुँन् = अनुमन्तुम् / अव्ययम्
to permit / allow
न उत्सहे न उत् + सहे / उ.पु / ए.व

पदविवरणम् :-
न / अव्ययम्
not enthusiastic
दुर्जनानाम् दुर्जन / पुं / ष.वि / ब.व

पदविवरणम् :-
जन् + अच् = जन / पुं
दुर् + जन् + अच् = दुर्जन / पुं
of wicked / bad people

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
अशनाय फलम्
अलम् (अस्ति) ।
Fruit is enough for food.
पानाय स्वादु तोयम्
अलम् (अस्ति) ।
Sweet water is enough for drink.
शयनार्थं क्षितिः
अलम् (अस्ति) ।
Earth (bare ground) is enough for sleeping.
वाससे वल्कलं
च अपि
अलम् (अस्ति) ।
And also, tree bark is enough for clothing.
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां
दुर्जनानाम्
The wicked, whose all senses have been maddened by the enjoyment of newly acquired wealth, which has proven a wine to them
(तेषाम्) अविनयम् those people's rudeness
अनुमन्तुं
न उत्सहे ।
I am not enthusiastic to permit / allow.

Comments