शिक्षा - सुभाषितम् #14


करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
करे कर / पुं / स.वि / ए.व in the hand
श्लाघ्यः श्लाघ्य / पुं / प्र.वि / ए.व

पदविवरणम् :-
श्लाघ् + ण्यत् = श्लाघ्य / पुं
laudable, appreciable
त्यागः त्याग / पुं / प्र.वि / ए.व

पदविवरणम् :-
त्यज् + घञ् = त्याग / पुं
sacrifice
शिरसि शिरस् / नपुं / स.वि / ए.व

शिरस् / नपुं ए.व द्वि.व ब.व
प्र.वि शिरः शिरसी शिरांसि
सं.प्र.वि शिरः शिरसी शिरांसि
द्वि.वि शिरः शिरसी शिरांसि
तृ.वि शिरसा शिरोभ्याम् शिरोभिः
च.वि शिरसे शिरोभ्याम् शिरोभ्यः
प.वि शिरसः शिरोभ्याम् शिरोभ्यः
ष.वि शिरसः शिरसोः शिरसाम्
स.वि शिरसि शिरसोः शिरःसु / शिरस्सु

in the head
गुरुपादप्रणयिता गुरुपादप्रणयिता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
प्र + नय् + क्त + टाप् = प्रणयिता

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
गुरोः पादम् = गुरुपादम्

[षष्ठीतत्पुरुषसमासः]
गुरुपादस्य प्रणयितः = गुरुपादप्रणयितः
bowing to the preceptor
मुखे मुख / नपुं / स.वि / ए.व in the mouth
सत्या सत्या / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
सत् + यत् + टाप् = सत्या / स्त्री
truthful
वाणी वाणी / स्त्री / प्र.वि / ए.व speech
विजयि विजयिन् / नपुं / प्र.वि / ए.व

पदविवरणम् :-
वि + जि + भावे अच् = विजय / त्रि
विजय + इनि = विजयिन् / त्रि

विजयिन् / नपुं ए.व द्वि.व ब.व
प्र.वि विजयि विजयिनी विजयीनि
सं.प्र.वि विजयि / विजयिन् विजयिनी विजयीनि
द्वि.वि विजयि विजयिनी विजयीनि
तृ.वि विजयिना विजयिभ्याम् विजयिभिः
च.वि विजयिने विजयिभ्याम् विजयिभ्यः
प.वि विजयिनः विजयिभ्याम् विजयिभ्यः
ष.वि विजयिनः विजयिनोः विजयिनाम्
स.वि विजयिनि विजयिनोः विजयिषु

one who has victory by his side
भुजयोः भुज / पुं / स.वि / द्वि.व in the arms
विजयिभुजयोः विजयिभुज / पुं / स.वि / द्वि.व

पदविवरणम् :-
वि + जि + भावे अच् = विजय / त्रि
विजय + इनि = विजयिन् / त्रि

समासविवरणम् :-
[कर्मधारयसमासः]
विजयी च सः भुजः च = विजयिभुज

विजयिन् / पुं ए.व द्वि.व ब.व
प्र.वि विजयी विजयिनौ विजयिनः
सं.प्र.वि विजयिन् विजयिनौ विजयिनः
द्वि.वि विजयिनम् विजयिनौ विजयिनः
तृ.वि विजयिना विजयिभ्याम् विजयिभिः
च.वि विजयिने विजयिभ्याम् विजयिभ्यः
प.वि विजयिनः विजयिभ्याम् विजयिभ्यः
ष.वि विजयिनः विजयिनोः विजयिनाम्
स.वि विजयिनि विजयिनोः विजयिषु

in the arms of one who has victory by his side
वीर्यम् वीर्य / नपुं / प्र.वि / ए.व strength
अतुलम् अतुल / नपुं / प्र.वि / ए.व unparalleled
हृदि हृत् or हृद् / नपुं / स.वि / ए.व

पदविवरणम् :-
हृ + क्विप् = हृ / नपुं
हृ [प्रातिपदिकम्] + तुक् = हृत् / नपुं

हृद् / नपुं ए.व द्वि.व ब.व
प्र.वि हृत् / हृद् हृदी हृन्दि
सं.प्र.वि हृत् / हृद् हृदी हृन्दि
द्वि.वि हृत् / हृद् हृदी हृन्दि
तृ.वि हृदा हृद्भ्याम् हृद्भिः
च.वि हृदे हृद्भ्याम् हृद्भ्यः
प.वि हृदः हृद्भ्याम् हृद्भ्यः
ष.वि हृदः हृदोः हृदाम्
स.वि हृदि हृदोः हृत्सु

in the heart
स्वच्छा स्वच्छा / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
स्वच्छ + टाप् = स्वच्छा / स्त्री
clean
वृत्तिः वृत्ति / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
वृत् + क्तिन् = वृत्ति / स्त्री
conduct
श्रुतम् श्रुत / पुं / प्र.वि / ए.व

पदविवरणम् :-
श्रु + क्त = श्रुत / पुं & नपुं
श्रुत + टाप् = श्रुता / स्त्री
knowledge (as heard) by saints as passed on from one generation to another, aka, Vedas
अधिगतम् अधिगत / पुं / प्र.वि / ए.व

पदविवरणम् :-
अधि + गम् + क्त = अधिगत / पुं & नपुं
अधिगत + टाप् = अधिगता / स्त्री
obtained, assimilated
अव्ययम् and
श्रवणयोः श्रवण / नपुं / स.वि / द्वि.व

पदविवरणम् :-
श्रु + ल्युट् = श्रवण / नपुं
in the ears
विना अव्ययम् without
अपि अव्ययम् also
ऐश्वर्येण ऐश्वर्य / नपुं / ष.वि / ए.व

पदविवरणम् :-
ईश् + वरच् = ईश्वर / पुं
ईश्वर + स्वार्थे ष्यञ् = ऐश्वर्य / नपुं
by money
प्रकृतिमहताम् प्रकृतिमहत् / पुं / ष.वि / ब.व

समासविवरणम् :-
[ TBD ]
of great men who are naturally gifted
मण्डनम् मण्डन / नपुं / प्र.वि / ए.व ornament
इदम् इदम् / नपुं / प्र.वि / ए.व this

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
करे श्लाघ्यः त्यागः
(इति मण्डनः अस्ति) ।
Laudable sacrifice, is the ornament for the hand.
शिरसि गुरुपादप्रणयिता
(इति मण्डना अस्ति) ।
Bowing to the preceptor, is the ornament for the head.
मुखे सत्या वाणी
(इति मण्डना अस्ति) ।
Truthful speech, is the ornament for the mouth.
भुजयोः
विजयि अतुलं वीर्यं
(इति मण्डनम् अस्ति) ।
Unparalleled strength, is the ornament in the arms of one who has victory by his side.

Sri Krishna Sastri takes विजयि as a separate word that goes with अतुलं वीर्यम् ।
विजयिभुजयोः
अतुलं वीर्यं
(इति मण्डनम् अस्ति) ।
Unparalleled strength, is the ornament in the arms of one who has victory by his side.
हृदि स्वच्छा वृत्तिः
(इति मण्डना अस्ति) ।
Clean conduct, is the ornament for the heart.
श्रवणयोः अधिगतं श्रुतम्
(इति मण्डनम् अस्ति) च ।
And, the knowledge (as heard i.e., the Vedas) that is assimilated, is the ornament for the ears.
ऐश्वर्येण विना अपि
प्रकृतिमहताम्
इदम् मण्डनम् (अस्ति) ।
Even without money, the great men, who are naturally gifted, have this ornament.

Comments