शिक्षा - सुभाषितम् #13


सत्यं तपो ज्ञानमहिंसतां च
विद्वत्प्रणामं च सुशीलतां च ।
एतानि यो धारयते स विद्वान्
न तत्र शास्त्राध्ययनं हि कारणम् ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
सत्यम् सत्य / नपुं / द्वि.वि / ए.व truth
तपः तपस् / नपुं / द्वि.वि / ए.व penance
ज्ञानम् ज्ञान / नपुं / द्वि.वि / ए.व knowledge
अहिंसताम् अहिंसता / स्त्री / द्वि.वि / ए.व non-violence
अव्ययम् and
विद्वत्प्रणामम् विद्वत्प्रणाम / पुं / द्वि.वि / ए.व

विद् + वतुँप् = विद्वत् / पुं
विद्वत् + प्र + नम् + भावे घञ् = विद्वत्प्रणाम / पुं
bowing before scholars
अव्ययम् and
सुशीलताम् सु + शीलता / स्त्री / द्वि.वि / ए.व good conduct
अव्ययम् and
एतानि एतद् / नपुं / प्र.वि / ब.व all these
यः यद् / पुं / प्र.वि / ब.व one who
धारयते धृ + णिच् + लट् / प्र.पु / ए.व

धृ + णिच् = धारय
practises
सः तद् / पुं / प्र.वि / ब.व he
विद्वान् विद्वस् / पुं / प्र.वि / ए.व

विद् + क्वसु = विद्वस् / पुं
wise man
अव्ययम् not
तत्र अव्ययम् here
शास्त्राध्ययनम् शास्त्राध्ययन / नपुं / द्वि.वि / ए.व

अधि + इङ् + भावे घञ् = अध्ययन / नपुं
शास्त्र + अध्ययन / नपुं
studying the science
हि पादपूर्णारणार्थकम् certainly
कारणम् कारण / नपुं / द्वि.वि / ए.व reason

Go Top
प्रतिपदार्थम् अर्थः (Meaning) अन्वयः (Prose order) तात्पर्यम् (Purport)
सत्यं
तपः
ज्ञानम्
अहिंसतां
विद्वत्प्रणामं
सुशीलतां च ।
Truth, penance, knowledge, non-violence, bowing before scholars and good conduct. सत्यं तपः ज्ञानम् अहिंसतां विद्वत्प्रणामं सुशीलतां च । यः एतानि धारयते सः विद्वान् (भवति) । तत्र शास्त्राध्ययनं हि कारणं न (अस्ति) । Truth, penance, knowledge, non-violence, bowing before scholars and good conduct. One who practises these, is a wise man. Merely learning the science is not the reason (to call someone as wise).
यः एतानि धारयते
सः विद्वान् (भवति) ।
One who practises these, is a wise man.
तत्र शास्त्राध्ययनं हि
कारणं न (अस्ति) ।
Merely learning the science is not the reason (to call someone as wise).

Comments