शिक्षा - सुभाषितम् #12


नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी ।
गुणी च गुणरागी च विरलः सरलो जनः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
अव्ययम् not
अगुणी अगुणीन् / पुं / प्र.वि / ए.व one who is devoid of good virtue
गुणिनम् गुणीन् / पुं / द्वि.वि / ए.व [as object] one who is endowed with good virtue
वेत्ति विद् [विदँ ज्ञाने] + लट् / प्र.पु / ए.व to know, to understand
गुणी गुणीन् / पुं / प्र.वि / ए.व

पदविवरणम् :-
गुण + इनि = गुणिन् / पुं
गुणिन् + ङीप् = गुणिनी / स्त्री

गुणी - गुणिनौ - गुणिनः (गुणिन् / पुं)
गुणिनी - गुणिन्यौ - गुणिनयः (गुणिनी / स्त्री)
गुणि - गुणिनी - गुणीनि (गुणिन् / नपुं)

गुणिन् / पुं ए.व द्वि.व ब.व
प्र.वि गुणी गुणिनौ गुणिनः
सं.प्र.वि गुणिन् गुणिनौ गुणिनः
द्वि.वि गुणिनम् गुणिनौ गुणिनः
तृ.वि गुणिना गुणिभ्याम् गुणिभिः
च.वि गुणिने गुणिभ्याम् गुणिभ्यः
प.वि गुणिनः गुणिभ्याम् गुणिभ्यः
ष.वि गुणिनः गुणिनोः गुणिनाम्
स.वि गुणिनि गुणिनोः गुणिषु

one who is endowed with good virtue
गुणिषु गुणीन् / पुं / स.वि / ब.व in virtuous people
मत्सरी jealous, envious
गुणी गुणीन् / पुं / प्र.वि / ए.व one who is endowed with good virtue
अव्ययम् and
गुणरागी गुणरागिन् / पुं / प्र.वि / ए.व

पदविवरणम् :-
रञ्ज् + भावे घञ् = राग / पुं
गुणराग + इनि [तद्धित] = गुणरागिन् / पुं & नपुं

समासविवरणम् :-
[बहुव्रीहिसमासः]
गुणानां रागः यः सः गुणरागः ।
one who is fond of good virtue
अव्ययम् and
विरलः विरल / पुं / प्र.वि / ए.व rare
सरलः सरल / पुं / प्र.वि / ए.व simple
जनः जन / पुं / प्र.वि / ए.व people

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
अगुणी गुणिनं न वेत्ति । A person who is devoid of virtues, does not understand a person endowed with virtues.
गुणी गुणिषु मत्सरी (भवति) । A virtuous person envies in virutous people.
गुणी च गुणरागी च सरलः जनः विरलः (अस्ति) । A simple person, who is virtuous and is fond of virtuous people, is rare.

Comments