कोविदः - सुभाषितम् #01


आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
आत्मार्थम्
= आत्मनः निमित्तम्
आत्मार्थ / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
आत्मन् / पुं
(= self, soul)
अर्थ / त्रि (-थः-था-थं)
(= purpose)

समासविवरणम् :-
[चथुर्तीतत्पुरुषसमासः]
आत्मने इदम् = आत्मार्थम्
(= for the sake of oneself)
for the sake of oneself
जीवलोके
= प्रपञ्चे
जीवलोक / पुं / स.वि / ए.व

धातुविवरणम् :-
जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to live, to revive, to live upon, to survive)
लोक् [लोकृँ दर्शने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to see, to perceive, to look)

पदविवरणम् :-
जीव् + घञ् = जीव / पुं
(= existence)
लोक् + घञ् = लोक / पुं
(= world)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
जीवस्य लोकः, तस्मिन् = जीवलोके
(= in the worldly existence)
in the worldly existence
अस्मिन्
= एतस्मिन्
इदम् / पुं / स.वि / ए.व in this
कः
= कः
किम् / पुं / प्र.वि / ए.व which
न जीवति
= जीवनं न करोति
न / अव्ययम्
जीव् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to live, to revive, to live upon, to survive)
does not live
मानवः
= मनुष्यः
मानव / पुं / प्र.वि / ए.व

पदविवरणम् :-
मनु + अपत्यार्थे अण् = मानव / पुं
(= मनोः गोत्रात्पत्यं पुमान् ; the descendant of Manu)
the descendant of Manu, man
परम्
= परन्तु
परम् / अव्ययम् but
परोपकारार्थम्
= अन्येषाम् उपकारार्थम्
परोपकारार्थ / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
पर / पुं
(= other, different)
उप + कृ + घञ् = उपकार / पुं
(= favour, help, assistance)

समासविवरणम् :-
[चथुर्तीतत्पुरुषसमासः]
उपकाराय इदम् = उपकारार्थम्
(= for the sake of help, assistance)

[षष्ठीतत्पुरुषसमासः]
परस्य उपकारार्थम् = परोपकारार्थम्
(= for the sake of other's help or assistance)
for the sake of other's help or assistance
यः
= यः मनुष्यः
यद् / पुं / प्र.वि / ए.व one who
जीवति
= जीवनं करोति
जीव् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to live, to revive, to live upon, to survive)
lives
सः
= सः मनुष्यः (एव)
तद् / पुं / प्र.वि / ए.व he
जीवति
= (वस्तुतः) जीवनं करोति
जीव् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to live, to revive, to live upon, to survive)
lives

Go Top
विशयः विवरणम्
अन्वयः अस्मिन् जीवलोके आत्मार्थं कः मानवः न जीवति ? परं यः परोपकारार्थं जीवति सः जीवति ।
तात्पर्यम् एतस्मिन् जीवलोके आत्मनिमित्तं कः मनुष्यः जीवनं न करोति ? परन्तु यः मनुष्यः अन्येषाम् उपकारार्थं जीवनं करोति, सः एव वस्तुतः जीवनं करोति ।
Purport In this worldly existence, which human does not live for himself? But, whosoever lives for the sake of others, is the one who actually lives.

Comments

  1. धन्यवादः महोदय ।बहु लाभदायकः अस्ति।

    साई सरस्वती।

    ReplyDelete
    Replies
    1. बहवः धन्यवादाः भगिनी ।

      Delete
  2. Thank you sir for taking so much effort and time to prepare in such a detailed manner. We really appreciate you and wish that you should do more and more of such work

    ReplyDelete

Post a Comment