कोविदः - सुभाषितम् #02


पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
न पिबन्ति न / अव्ययम्
पा + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
पा [पा पाने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to drink)
does not drink
नद्यः
= सरितः
नदी / स्त्री / प्र.वि / ब.व the rivers
स्वयम्
= स्वतः
स्वयम् / अव्ययम् on its own accord
एव एव / अव्ययम् alone
अम्भः
= जलम्
अम्भस् / नपुं / द्वि.वि / ए.व

अम्भस् / नपुं ए.व द्वि.व ब.व
प्र.वि अम्भः अम्भसी अम्भांसि
सं.प्र.वि अम्भः अम्भसी अम्भांसि
द्वि.वि अम्भः अम्भसी अम्भांसि
तृ.वि अम्भसा अम्भोभ्याम् अम्भोभिः
च.वि अम्भसे अम्भोभ्याम् अम्भोभ्यः
प.वि अम्भसः अम्भोभ्याम् अम्भोभ्यः
ष.वि अम्भसः अम्भसोः अम्भसाम्
स.वि अम्भसि अम्भसोः अम्भःसु / अम्भस्सु

the waters
स्वयम्
= स्वतः
स्वयम् / अव्ययम् on its own accord
न खादन्ति न / अव्ययम्
खाद् + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
खाद् [खादृँ भक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to eat, to consume)
does not eat
फलानि फल / नपुं / द्वि.वि / ब.व the fruits
वृक्षाः
= तरवः
वृक्ष / पुं / प्र.वि / ब.व the trees
न अदन्ति न / अव्ययम्
अद् + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
अद् [अदँ भक्षणे ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to eat, to binge)
does not eat
सस्यम् सस्य / नपुं / द्वि.वि / ए.व the grains
खलु खलु / अव्ययम् isn't it?
वारिवाहाः
= मेघाः
वारिवाह / पुं / प्र.वि / ब.व

धातुविवरणम् :-
वह् [वहँ प्रापणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to flow, to propel, to carry, to haul, to drag)

पदविवरणम् :-
वारि / नपुं
(= water)
वह् + घञ् = वाह / पुं
(= a bearer, a porter, a carrier)

समासविवरणम् :-
[उपपदसमासः]
वारीणि वहन्ति इति वारिवाहाः
(= one who carries water)
the clouds, one who carries water
परोपकाराय
= परोपकारार्थम्
परोपकार / पुं / च.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
पर / पुं
(= other, different)
उप + कृ + घञ् = उपकार / पुं
(= favour, help, assistance)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य उपकारः = परोपकारः
(= for other's help or assistance)
for other's assistance
सताम्
= सज्जनानाम्,
सत्पुरुषाणाम्
सत् / पुं / ष.वि / ब.व

पदविवरणम् :-
अस् + शतृँ = सत् / त्रि (-न्-ती-त्)

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

सत् / नपुं ए.व द्वि.व ब.व
प्र.वि सत् / सद् सती सन्ति
सं.प्र.वि सत् / सद् सती सन्ति
द्वि.वि सत् / सद् सती सन्ति
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

of good people
विभूतयः
= सम्पत्तयः
विभूति / स्त्री / प्र.वि / ब.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
वि + भू + क्तिन् = विभूति / स्त्री
(= wealth)
the wealth

Go Top
विशयः विवरणम्
अन्वयः नद्यः स्वयमेव अम्भः न पिबन्ति । वृक्षाः स्वयं फलानि न खादन्ति । वारिवाहाः (स्वयमेव) सस्यं न अदन्ति खलु ? (तथैव) सतां विभूतयः परोपकाराय (भवन्ति) ।
तात्पर्यम् नदीषु जलं भवति । परन्तु नद्यः तत् जलं स्वयमेव न पिबन्ति । वृक्षेषु फलानि भवन्ति । ते वृक्षाः अपि स्वयमेव फलानि न खादन्ति । तथा वारिवाहाः अपि स्वयमेव सस्यानि न अदन्ति । तथैव सतां अपि तेषां विभूतयः परोपकाराय ददति ।
Purport Rivers do not drink the water themselves. Trees do not eat the fruits themselves. Clouds do not eat the plants themselves. Similarly, the weath of good people are for other's help.

Comments