परिचयः - सुभाषितम् #11


यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
यदा अव्ययम् when
किञ्चित् किम् + चित् = किञ्चित् / अव्ययम् a little
ज्ञः ज्ञ / पुं / प्र.वि / ए.व knew
अहम् अस्मद् / त्रि / प्र.वि / ए.व I
गजः गज / पुं / प्र.वि / ए.व an elephant
इव अव्ययम् like
मदान्धः मदान्ध / पुं / प्र.वि / ए.व

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
मदेन अन्धः = मदान्धः
blinded by arrogance
समभवम् सम् + भू + लङ् / उ.पु / ए.व became
तदा अव्ययम् then
सर्वज्ञः सर्वज्ञ / पुं / प्र.वि / ए.व all knower
अस्मि अस् + लट् / उ.पु / ए.व I am
इति अव्ययम् thus
अभवत् भू + लङ् / प्र.पु / ए.व became
अवलिप्तम् अवलिप्त / पुं / प्र.वि / ए.व

पदविवरणम् :-
अव + लिप् + क्त = अवलिप्त / पुं & नपुं
अवलिप्त + टाप् = अवलिप्ता / स्त्री
proud
मम अस्मद् / त्रि / ष.वि / ए.व my
मनः मनस् / नपुं / प्र.वि / ए.व

मनस् / नपुं ए.व द्वि.व ब.व
प्र.वि मनः मनसी मनांसि
सं.प्र.वि मनः मनसी मनांसि
द्वि.वि मनः मनसी मनांसि
तृ.वि मनसा मनोभ्याम् मनोभिः
च.वि मनसे मनोभ्याम् मनोभ्यः
प.वि मनसः मनोभ्याम् मनोभ्यः
ष.वि मनसः मनसोः मनसाम्
स.वि मनसि मनसोः मनःसु / मनस्सु

mind
यदा अव्ययम् when
किञ्चित् किम् + चित् = किञ्चित् / अव्ययम् a little
बुधजनसकाशात् बुधजनसकाश / पुं / पं.वि / ए.व

समासविवरणम् :-
बुधजनस्य सकाशः = बुध + जन + सकाश ??
due to association with scholars
अवगतम् अवगत / पुं / द्वि.वि / ए.व

पदविवरणम् :-
अव + गम् + क्त = अवगत / पुं & नपुं
अवगत + टाप् = अवगत / स्त्री
understand
तदा अव्ययम् then
मूर्खः मूर्ख / पुं / प्र.वि / ए.व fool
अस्मि अस् + लट् / उ.पु / ए.व I am
इति अव्ययम् thus
ज्वरः ज्वर / पुं / प्र.वि / ए.व fever
इव अव्ययम् like
मदः मद / पुं / प्र.वि / ए.व arrogance
मे अस्मद् / त्रि / ष.वि / ए.व my
व्यपगतः व्यपगत / पुं / प्र.वि / ए.व

पदविवरणम् :-
वि + अप + गम् + क्त = व्यपगत / पुं & नपुं
व्यपगत + टाप् = व्यपगता / स्त्री
went away

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
यदा अहं किञ्चित् ज्ञः
मदान्धः गजः इव
समभवम् ।
When I knew a little, I become like an elephant blinded by arrogance.
तदा
"(अहं) सर्वज्ञः अस्मि" इति
मम मनः
अवलिप्तम् अभवत् ।
Then, my mind became proud with the feeling that "I know everything".
यदा
बुधजनसकाशात्
किञ्चित् किञ्चित्
अवगतम्,
When, due to my association with scholars, I learnt a little,
तदा
"(अहं) मूर्खः अस्मि" इति
ज्वरः इव
मे (मम) मदः
व्यपगतः (अभवत्) ।
then, with the realization that "I am a fool", my arrogance went away like fever.

Comments