परिचयः - सुभाषितम् #15


पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
पापान् पाप / पुं / द्वि.वि / ब.व the sins (object)
निवारयति नि + वॄ + णिच् + कर्तरि लँट् / प्र.पु / ए.व prevents
योजयते युज् + णिच् + कर्तरि लँट् / प्र.पु / ए.व enjoins
हिताय हित / पुं / च.वि / ए.व

पदविवरणम् :-
हि [हि गतौ वृद्धौ च] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री
good deeds
गुह्यम् गुह्य / पुं / द्वि.वि / ए.व

पदविवरणम् :-
गुह् + भावादौ क्यप् = गुह्य / पुं
secret
निगूहति नि + गुह् + कर्तरि लँट् / प्र.पु / ए.व keeps undisclosed
गुणान् गुण / पुं / द्वि.वि / ब.व good qualities
प्रकटीकरोति प्रकटी + कृ + कर्तरि लँट् / प्र.पु / ए.व

पदविवरणम् :-
प्र + कट् + अच् = प्रकट / पुं & नपुं
प्रकट + ङीप् = प्रकटी / स्त्री
make visible, make known
आपद्गतं आपद्गत / पुं / द्वि.वि / ए.व

पदविवरणम् :-
आङ् + पद् + क्विप् = आपद् / स्त्री
गम् + क्त = गत / पुं & नपुं

सन्धिविवरणम् :-
आपत् + गत
= आपद् + गत [जश्त्वसन्धिः ८.२.३९]
= आपद्गत

समासविवरणम् :-
[द्वितीयातत्पुरुषसमासः]
आपदं गतम् = आपद्गत / पुं & नपुं

आपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि आपत् / आपद् आपदौ आपदः
सं.प्र.वि आपत् / आपद् आपदौ आपदः
द्वि.वि आपदम् आपदौ आपदः
तृ.वि आपदा आपद्भ्याम् आपद्भिः
च.वि आपदे आपद्भ्याम् आपद्भ्यः
प.वि आपदः आपद्भ्याम् आपद्भ्यः
ष.वि आपदः आपदोः आपदाम्
स.वि आपदि आपदोः आपत्सु

during adverse situations
अव्ययम् and
न जहाति न हा + कर्तरि लँट् / प्र.पु / ए.व does not leave
ददाति दा + कर्तरि लँट् / प्र.पु / ए.व gives (the required help)
काले काल / पुं / स.वि / ए.व in times (of need)
सन्मित्रलक्षणम् सन्मित्रलक्षणम् / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
लक्ष् + ल्युट् = लक्षण / नपुं

सन्धिविवरणम् :-
सत् + मित्र
= स + (त् ⇒ द्) + मित्र [जश्त्वसन्धिः ८.२.३९]
= स + (द् ⇒ न्) + मित्र [अनुनासिकसन्धिः ८.४.४५]
= सन्मित्र

समासविवरणम् :-
[कर्मधारयसमासः]
सन् च तत् मित्रं च = सन्मित्रम् / नपुं

[षष्ठीतत्पुरुषसमासः]
सन्मित्रस्य लक्षणम् = सन्मित्रलक्षण / नपुं
characteristics of a good friend
इदम् इदम् / नपुं / द्वि.वि / ए.व this
प्रवदन्ति प्र + वद् + कर्तरि लँट् / प्र.पु / ब.व say
सन्तः सत् / पुं / प्र.वि / ब.व

पदविवरणम् :-
अस् + शँतृ = सत् / पुं

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

the noble men

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(सन्मित्रं) पापान् निवारयति । (A good friend) prevents one from committing sins.
(सन्मित्रं) हिताय योजयते । (A good friend) makes one do good deeds.
(सन्मित्रं) गुह्यं निगूहति । (A good friend) keeps one's secret.
(सन्मित्रं) गुणान् प्रकटीकरोति । (A good friend) makes known, one's good character.
(सन्मित्रं) आपद्गतं न जहाति । (A good friend) does not leave when adversity befalls.
(सन्मित्रं) काले (साहाय्यं) ददाति च । And, (a good friend) provides help when in times (of need).
"सन्मित्रलक्षणम् इदम्" (इति) सन्तः प्रवदन्ति । Noble men say these are the characteristics of a good friend.

Comments

Post a Comment