परिचयः - सुभाषितम् #16


लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
लभेत लभ् + कर्तरि विधिलिङ् / प्र.पु / ए.व may get
सिकतासु सिकता / स्त्री / स.वि / ब.व from among the sand

सिकता is always in plural
तैलम् तैल / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
तिल + अण् = तैल / नपुं
oil
अपि अव्ययम् also
यत्नतः यत्न / पुं / पं.वि / ए.व

पदविवरणम् :-
यत् + नङ् = यत्न / पुं
with effort
पीडयन् पीडयत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
पीड् + शतृँ = पीडयत् / पुं & नपुं
while squeezing
पिबेत् पा + कर्तरि विधिलिङ् / प्र.पु / ए.व may drink
अव्ययम् and
मृगतृष्णिकासु मृगतृष्णिका / स्त्री / स.वि / ब.व

समासविवरणम् :-
[बहुव्रीहिसमासः]
मृगाणां तृष्णा यस्या सा मृगतृष्णा । सा एव मृगतृष्णिका ।
among the mirages

मृगतृष्णिका = a mirage; a phenomenon noticeable in the sandy tracts of tropical regions
सलिलम् सलिल / नपुं / द्वि.वि / ए.व water
पिपासा पिपासा / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
पा + सन् + अ = पिपास / पुं
पिपास + टाप् = पिपासा / स्त्री
thirsty person (one who is oppressed by thirst)
अर्दितः अर्दित / पुं / प्र.वि / ए.व

पदविवरणम् :-
अर्द् + क्त = अर्दित / पुं & नपुं
begged
कदाचित् कदा + चित / अव्ययम् sometime
अपि अव्ययम् also
पर्यटन् पर्यटत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
परि + अट् + शतृँ = पर्यटत् / पुं & नपुं
while traveling
शशविषाणम् शशविषाण / पुं / द्वि.वि / ए.व

पदविवरणम् :-
शश / पुं
विषाण / पुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
शशस्य विषाणः = शशविषाण / पुं & नपुं

Below expressions are used to signify things
that do not exist:
  • वन्ध्यासुत = [वन्ध्यायाः सुतः] child of a barren woman.
  • वन्ध्यागौः = barren cow
  • खपुष्प = ख [sky]; flower in the sky
  • गगनकुसुम = गगन [sky]; flower in the sky
  • मृगतृष्णाजल = water in the mirage
  • शशशृङ्ग / शशविषाण = horn of a hare
horn of the hare
आसादयेत् आङ् + सद् + कर्तरि विधिलिङ् / प्र.पु / ए.व may get
अव्ययम् not
तु अव्ययम् but, on the other hand
प्रतिनिविष्टमूर्खजनचित्तम् प्रतिनिविष्टमूर्खजनचित्त / नपुं / प्र.वि / ए.व

पदविवरणम् :-
प्रति + नि + विश् + क्त = प्रतिनिविष्ट / पुं & नपुं
चित् [चितीँ सञ्ज्ञाने] + क्त = चित्त / पुं & नपुं

समासविवरणम् :-
[कर्मधारयसमासः]
मूर्खः च असौ जनः च = मूर्खजन / पुं

[षष्ठीतत्पुरुषसमासः]
मूर्खजनस्य चित्त = मूर्खजनचित्त / पुं & नपुं

[कर्मधारयसमासः]
प्रतिनिविष्टं च तत् मूर्खजनचित्तं च = प्रतिनिविष्टमूर्खजनचित्त / पुं & नपुं
perverse, obstinate mind of a fool

विष्ट = entered, penetrated, pervaded
निविष्ट = fixed on, situated
प्रतिनिविष्ट = perverse, obstinate in holding contrary opinions
मूर्खजनचित्त = mind of a fool
आराधयेत् आङ् + राध् + कर्तरि विधिलिङ् / प्र.पु / ए.व would achieve

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
यत्नतः पीडयन् सिकतासु अपि तैलम् लभेत । One may even get oil from sand, by strenuous pressure.
अर्दितः पिपासा मृगतृष्णिकासु सलिलं पिबेत् च । One may even drink water from a mirage, when oppressed by thirst.
कदाचित् पर्यटन् शशविषाणम् अपि आसादयेत् । One may even chance upon the horn of a hare, during his travel.
तु प्रतिनिविष्टमूर्खजनचित्तं न आराधयेत् । But, one can never win over the mind of an obstinate fool.

Comments