परिचयः - सुभाषितम् #17


व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
व्याघ्री व्याघ्री / स्त्री / प्र.वि / ए.व

सन्धिविवरणम् :-
व्याघ्री + इव
= व्याघ्र् + (ई + इ ⇒ ई) + व [सवर्णदीर्घसन्धिः ६.१.१०१]
= व्याघ्रीव
tigress
इव अव्ययम् like
तिष्ठति स्था + लँट् / प्र.पु / ए.व stand
जरा जरा / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
जॄ + अङ् + टाप् = जरा / स्त्री

Had we taken जरस् / स्त्री, then
प्र.वि / ए.व would be जराः ।
Then, it would have been जराः परितर्जयन्ती
and not जरा परितर्जयन्ती ।

जरस् / स्त्री ए.व द्वि.व ब.व
प्र.वि जराः जरसौ जरसः
सं.प्र.वि जरः जरसौ जरसः
द्वि.वि जरसम् जरसौ जरसः
तृ.वि जरसा जरोभ्याम् जरोभिः
च.वि जरसे जरोभ्याम् जरोभ्यः
प.वि जरसः जरोभ्याम् जरोभ्यः
ष.वि जरसः जरसोः जरसाम्
स.वि जरसि जरसोः जरःसु / जरस्सु

old age
परितर्जयन्ती परितर्जयन्ती / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
परि + तर्ज् + णिच् + शतृँ / स्त्री
threatening
रोगाः रोग / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
रोगाः + च
= रोगास् + च [विसर्ग-सकारादेशसन्धिः]
= रोगाश् + च [श्चुत्वसन्धिः ८.४.४०]
= रोगाश्च
diseases
अव्ययम् and
शत्रवः शत्रु / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
शत्रव + इव
= शत्रव् + अ + (: ⇒ x) + इव [विसर्गलोपसन्धिः]
= शत्रव इव
enemies
इव अव्ययम् like
प्रहरन्ति प्र + हृ + लँट् / प्र.पु / ब.व assault
देहम् देह / पुं / द्वि.वि / ए.व the body
आयुः आयुस् / नपुं / प्र.वि / ए.व

आयुस् / नपुं ए.व द्वि.व ब.व
प्र.वि आयुः आयुषी आयूंषि
सं.प्र.वि आयुः आयुषी आयूंषि
द्वि.वि आयुः आयुषी आयूंषि
तृ.वि आयुषा आयुर्भ्याम् आयुर्भिः
च.वि आयुषे आयुर्भ्याम् आयुर्भ्यः
प.वि आयुषः आयुर्भ्याम् आयुर्भ्यः
ष.वि आयुषः आयुषोः आयुषाम्
स.वि आयुषि आयुषोः आयुःषु / आयुष्षु

life
परिस्रवति परि + स्रु + लँट् / प्र.पु / ए.व dribbles, oozes, passes away
भिन्नघटात् भिन्नघट / पुं / पं.वि / ए.व

सन्धिविवरणम् :-
भिन्नघटात् + इव
= भिन्नघटाद् + इव [जश्त्वसन्धिः ८.२.३९]
= भिन्नघटादिव

भिन्नघटादिव + अम्भः
= भिन्नघटादिव् + (अ + अ ⇒ आ) + म्भः [सवर्णदीर्घसन्धिः ६.१.१०१]
= भिन्नघटादिवाम्भः
from a cracked pot
इव अव्ययम् like
अम्भः अम्भस् / नपुं / प्र.वि / ए.व

अम्भस् / नपुं ए.व द्वि.व ब.व
प्र.वि अम्भः अम्भसी अम्भांसि
सं.प्र.वि अम्भः अम्भसी अम्भांसि
द्वि.वि अम्भः अम्भसी अम्भांसि
तृ.वि अम्भसा अम्भोभ्याम् अम्भोभिः
च.वि अम्भसे अम्भोभ्याम् अम्भोभ्यः
प.वि अम्भसः अम्भोभ्याम् अम्भोभ्यः
ष.वि अम्भसः अम्भसोः अम्भसाम्
स.वि अम्भसि अम्भसोः अम्भःसु / अम्भस्सु

water
लोकः लोक / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
लोकः + तथा
= लोक + (: ⇒ स्) + तथा [विसर्ग-सकारादेशसन्धिः]
= लोकस्तथा

लोकस्तथा + अपि
= लोकस्तथ् + (आ + अ ⇒ आ) + पि [सवर्णदीर्घसन्धिः ६.१.१०१]
= लोकस्तथापि

लोकस्तथापि + अहितम्
= लोकस्तथाप् + (इ ⇒ य् + अ) + हितम् [यण्सन्धि ६.१.७७]
= लोकस्तथाप्यहितम्
people
तथा अव्ययम् yet
अपि अव्ययम् still
अहितम् अहित / पुं / द्वि.वि / ए.व

पदविवरणम् :-
हि [स्वादिः] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री

समासविवरणम् :-
[नञ्समासः]
न हित = अहित
against welfare, evil means, cause injury
आचरति आङ् + चर् + लँट् / प्र.पु / ए.व

सन्धिविवरणम् :-
आचरति + इति
= आचरत् + (इ + इ ⇒ ई) + ति [सवर्णदीर्घसन्धिः ६.१.१०१]
= आचरतीति
follow
इति अव्ययम् it is
चित्रम् चित्र / नपुं / द्वि.वि / ए.व a wonder

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
व्याघ्री तिष्ठति इव जराः परितर्जयन्ती । Old age stands threatening like a tigress.
शत्रवः इव रोगाः देहम् प्रहरन्ति (च) । Diseases assault the body like enemies.
भिन्नघटात् अम्भः इव आयुः परिस्रवति । Life passes away like water from a cracked pot.
तथा अपि लोकः अहितम् आचरति, इति चित्रम् । Yet, it is a wonder that people live an evil life.

Comments