शिक्षा - सुभाषितम् #10


क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
पृथ्वीशय्यः पृथ्वीशय्य / पुं / प्र.वि / ए.व

समासविवरणम् :-
[कर्मधारयसमासः]
पृथ्वी च सा शय्या च = पृथ्वीशय्या / स्त्री
earth is the bed
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
अपि अव्ययम् also
अव्ययम् and
पर्यङ्कशयनः पर्यङ्कशयन / पुं / प्र.वि / ए.व

समासविवरणम् :-
[बहुव्रीहिसमासः TBD ]
पर्यङ्कः शयनः = पर्यङ्कशयन / पुं
cot is the bed
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
शाकाहारः शाकाहार / पुं / प्र.वि / ए.व

समासविवरणम् :-
[बहुव्रीहिसमासः TBD ]
शाकः आहारः = शाकाहार / पुं
vegetable is the food
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
अपि अव्ययम् also
अव्ययम् and
शाल्योदनरुचिः शाल्योदनरुचि / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
शालि + ओदन = शाल्योदन / नपुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
शाल्याः ओदनम् = शाल्योदनम्

[बहुव्रीहिसमासः]
शाल्योदने रुचिः यस्य सः = शाल्योदनरुचि / स्त्री
delicious meal is the food

"शालि" is a special type of rice, popular in Goa and Konkan in India
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
कन्थाधारी कन्थाधारिन् / पुं / प्र.वि / ए.व

पदविवरणम् :-
कन्थाधार + इनि = कन्थाधारिन् / पुं
he wears rags
क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime
अपि अव्ययम् also
अव्ययम् and
दिव्याम्बरधरः दिव्याम्बरधर / पुं / प्र.वि / ए.व

समासविवरणम् :-
[बहुव्रीहिसमासः TBD ]
दिव्य + अम्बर = दिव्याम्बर / पुं

[षष्ठीतत्पुरुषसमासः TBD ]
दिव्याम्बर + धर = दिव्याम्बरधर / पुं
he wears fine dresses
मनस्वी मनस्विन् / पुं / प्र.वि / ए.व a person of steady mind, a determined person
कार्यार्थी कार्यार्थिन् / पुं / प्र.वि / ए.व in pursuit of something
अव्ययम् not
गणयति गण [गण सङ्ख्याने] + लट् / प्र.पु / ए.व count / mind
दुःखम् दुःख / नपुं / द्वि.वि / ए.व discomfort
अव्ययम् not
अव्ययम् and
सुखम् सुख / नपुं / द्वि.वि / ए.व comfort

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
क्वचित् पृथ्वीशय्यः
क्वचित् पर्यङ्कशयनः
अपि च (भवति) ।
Sometime / somewhere earth is the bed, and sometime / somewhere cot is the bed as well.
क्वचित् शाकाहारः
क्वचित् शाल्योदनरुचिः
अपि च (भवति) ।
Sometime / somewhere vegetable is the food, and sometime / somewhere delicious meal is the food as well.
क्वचित् कन्थाधारी
क्वचित् दिव्याम्बरधरः
अपि च (भवति) ।
Sometime / somewhere he wears rags, and sometime / somewhere he wears fine dresses as well.
मनस्वी कार्यार्थी
दुःखं च सुखं
न गणयति ।
A person of steady mind, a determined person, in pursuit of something, does not mind discomfort or comfort.

Comments