शिक्षा - सुभाषितम् #09


एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
एते एतद् / पुं / प्र.वि / ब.व these people
सत्पुरुषाः सत् + पुरुष / पुं / प्र.वि / ब.व good people
परार्थघटकाः ? people who endeavour for other's sake
स्वार्थान् स्वार्थ / पुं / द्वि.वि / ब.व

पदविवरणम् :-
स्व + अर्थ / पुं
self-interest
परित्यज्य परि + त्यज् + ल्यप् / अव्ययम् having given up
ये यद् / पुं / प्र.वि / ब.व those people, who
सामान्याः सामान्य / नपुं / प्र.वि / ब.व

पदविवरणम् :-
समान + ष्यञ् = सामान्य / नपुं
common / universal
तु पादपूर्णारणार्थकम् on the other hand
परार्थम् परार्थ / पुं / द्वि.वि / ए.व

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य अर्थ = परार्थ
for the sake of others
उद्यमभृतः उद्यमभृत / पुं / प्र.वि / ए.व

पदविवरणम् :-
उद् + यम् + घञ् = उद्यम / पुं

भृ + क्त = भृत / पुं & नपुं
भृत + टाप् = भृता / स्त्री

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
उद्यमेन भृत ? = उद्यमभृत
by undertaking strenuous / continuous effort
स्वार्थाविरोधेन स्वार्थाविरोध / पुं / तृ.वि / ए.व

पदविवरणम् :-
स्व + अर्थ = स्वार्थ

वि + रुध् + घञ् = विरोध / पुं

समासविवरणम् :-
[नञ्तत्पुरुषः]
न विरोध = अविरोध
by not going against self-interest
ये यद् / पुं / प्र.वि / ब.व those people, who
ते तद् / पुं / प्र.वि / ब.व these people
अमी अदस् / पुं / प्र.वि / ब.व

अदस् / पुं ए.व द्वि.व ब.व
प्र.वि असौ अमू अमी
द्वि.वि अमुम् अमू अमून्
तृ.वि अमुना अमूभ्याम् अमीभिः
च.वि अमुष्मै अमूभ्याम् अमीभ्यः
प.वि अमुष्मात् / अमुष्माद् अमूभ्याम् अमीभ्यः
ष.वि अमुष्य अमुयोः अमीषाम्
स.वि अमुष्मिन् अमुयोः अमीषु

that
मानुषराक्षसाः मानुषराक्षस / पुं / प्र.वि / ब.व

समासविवरणम् :-
[कर्मधारयसमासः]
मानुषः च सः राक्षसः च ।
the demons in human form
परहितं परहित / पुं / द्वि.वि / ए.व

पदविवरणम् :-
हि [हि गतौ वृद्धौ च] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री

हितः - हितौ - हिताः ( हित / पुं )
हिता - हिते - हिताः ( हित / स्त्री )
हितम् - हिते - हितानि ( हित / नपुं )

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य हित = परहित
welfare of others
स्वार्थाय स्वार्थ / पुं / च.वि / ए.व

पदविवरणम् :-
स्व + अर्थ = स्वार्थ
for the sake of oneself
निघ्नन्ति नि + हन् + लट् / प्र.पु / ब.व destroy
ये यद् / पुं / प्र.वि / ब.व those people, who
ये यद् / पुं / प्र.वि / ब.व those people, who
तु पादपूर्णारणार्थकम् however
घ्नन्ति हन् + लट् / प्र.पु / ब.व destroy
निरर्थकम् निरर्थक / पुं / द्वि.वि / ए.व

पदविवरणम् :-
निर् + अर्थ + क्त / पुं & नपुं
with no purpose
परहितं परहित / पुं / द्वि.वि / ए.व

पदविवरणम् :-
हि [हि गतौ वृद्धौ च] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री

हितः - हितौ - हिताः ( हित / पुं )
हिता - हिते - हिताः ( हित / स्त्री )
हितम् - हिते - हितानि ( हित / नपुं )

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य हित = परहित
welfare of others
ते तद् / पुं / प्र.वि / ब.व these people
के किम् / पुं / प्र.वि / ब.व who are they?
न जानीमहे ज्ञा + कर्तरि लट् / उ.पु / ब.व we do not know

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
ये परार्थघटकाः
स्वार्थान् परित्यज्य,
एते सत्पुरुषाः (सन्ति) ।
Those who, having given up self-interest, and endeavour for the sake of others, are good people.
तु ये स्वार्थाविरोधेन
परार्थम् उद्यमभृतः,
(एते) सामान्याः (सन्ति) ।
On the other hand, those who, by not going against self-interest, and undertaking strenuous / continuous effort for the sake of others, are common people.
ये स्वार्थाय
परहितं निघ्नन्ति,
ते अमी मानुषराक्षसाः (सन्ति) ।
Those who, for the sake of oneself, destroys the well-being of others, are demons in human form.
तु ये निरर्थकं
परहितं घ्नन्ति,
ते के (सन्ति) ?
(वयं) न जानीमहे ।
However, we do not know what to call those who aimlessly destroys the well-being of others.

Comments