भगवद्गीता ॥०१.१०॥


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अपर्याप्तम् अपर्याप्त / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
आप् [आपॢँ लम्भने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to obtain, to get, to receive)

पदविवरणम् :-
परि + आप् + क्त = पर्याप्त / त्रि (-तः-ता-तं)
(= limited in number)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न पर्याप्तम् = अपर्याप्तम्
(= unlimited in number)
unlimited in number
तत् तद् / नपुं / प्र.वि / ए.व that
अस्माकम् अस्मद् / त्रि / ष.वि / ब.व of ours
बलम् बल / नपुं / प्र.वि / ए.व strength, army
भीष्माभिरक्षितम् भीष्माभिरक्षित / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
रक्ष् [रक्षँ पालने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to protect, to watch, to take care of)

पदविवरणम् :-
भीष्म / पुं
(= Bhīṣmā)
अभि + रक्ष् + क्त = अभिरक्षित / त्रि (-तः-ता-तं)
(= protected)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
भीष्मेण अभिरक्षितम् = भीष्माभिरक्षितम्
(= protected by Bhīṣmā)
protected by Bhīṣmā
पर्याप्तम् पर्याप्त / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
आप् [आपॢँ लम्भने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to obtain, to get, to receive)

पदविवरणम् :-
परि + आप् + क्त = पर्याप्त / त्रि (-तः-ता-तं)
(= limited in number)
limited in number
तु तु / पादपूर्णारणार्थकम् / अव्ययम् whereas, on the other hand
इदम् इदम् / नपुं / प्र.वि / ए.व this
एतेषाम् एतद् / नपुं / ष.वि / ब.व of theirs
बलम् बल / नपुं / प्र.वि / ए.व strength, army
भीमाभिरक्षितम् भीमाभिरक्षित / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
रक्ष् [रक्षँ पालने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to protect, to watch, to take care of)

पदविवरणम् :-
भीम / पुं
(= Bhīmā)
अभि + रक्ष् + क्त = अभिरक्षित / त्रि (-तः-ता-तं)
(= protected)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
भीमेन अभिरक्षितम् = भीमाभिरक्षितम्
(= protected by Bhīmā)
protected by Bhīmā

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अस्ति) प्रधानक्रिया 2.0 (अस्ति)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि तत् अपर्याप्तम्
बलम्
भीष्माभिरक्षितम्
इदम् पर्याप्तम्
बलम्
भीमाभिरक्षितम्
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि अस्माकम् एतेषाम्
स.वि
अव्ययम् तु
अन्वयः अपर्याप्तं तत् अस्माकम् बलं भीष्माभिरक्षितम् (अस्ति) । तु पर्याप्तम् इदम् एतेषां बलं भीमाभिरक्षितम् (अस्ति) ।
Purport That army of ours, protected by Bhīṣmā, is unlimited. (Whereas), this army of theirs, protected by Bhīmā, is limited.
अन्वयरचना अस्ति
  • किम् अस्ति? = तत् बलम् अस्ति
    • कीदृशं बलम्? = अपर्याप्तं बलम्
    • पुनः कीदृशं बलम्? = भीष्माभिरक्षितं बलम्
    • केषां बलम्? = अस्माकं बलम्
अस्ति
  • किम् अस्ति? = इदं बलम् अस्ति
    • कीदृशं बलम्? = पर्याप्तं बलम्
    • पुनः कीदृशं बलम्? = भीमाभिरक्षितं बलम्
    • केषां बलम्? = एतेषां बलम्

Comments