भगवद्गीता ॥०१.०९॥


अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अन्ये अन्य / पुं / प्र.वि / ब.व others
च / अव्ययम् and
बहवः बहु / पुं / प्र.वि / ब.व many
शूराः शूर / पुं / प्र.वि / ब.व valorous men
मदर्थे मदर्थ / पुं / स.वि / ए.व

पदविवरणम् :-
अस्मद् / त्रि
(= I)
अर्थ / त्रि (-थः-था-थं)
(= purpose)

समासविवरणम् :-
[चतुर्थीतत्पुरुषसमासः]
अस्मद् अयम् अर्थः = मद् अयम् अर्थः = मदर्थः
(= for my sake)

More info - अस्मद्-युष्मद् शब्दयोः समासनियमः
for my sake
त्यक्तजीविताः त्यक्तजीवित / पुं / प्र.वि / ब.व

धातुविवरणम् :-
त्यज् [त्यजँ हानौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to quit, to let go, to renounce)
जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to live, to revive, to live upon, to survive)

पदविवरणम् :-
त्यज् + क्त = त्यक्त / त्रि (-तः-ता-तं)
(= having sacrificed)
जीव् + क्त = जीवित / त्रि (-तः-ता-तं)
(= having lived)

समासविवरणम् :-
[तृतीयार्थ-समानाधिकरण-बहुव्रीहिसमासः]
त्यक्ताः जीविताः यैः, ते त्यक्तजीविताः
(= by those, who have sacrificed their lives)
by those, who have sacrificed their lives
नानाशस्त्रप्रहरणाः नानाशस्त्रप्रहरण / पुं / प्र.वि / ब.व

पदविवरणम् :-
नाना / अव्ययम्
(= many, various)
शस + ष्ट्रन् = शस्त्र / नपुं
(= missiles)
प्र + हृ + ल्युट् = प्रहरण / नपुं
(= #1 weapons [or] #2 act of striking)

समासविवरणम् :-
[मध्यमलोपी-कर्मधारयसमासः]
नानाविधानि शस्त्राणि = नानाशस्त्राणि
(= many different missiles)

Interpretation #1
[षष्ठ्यर्थ-समानाधिकरण-बहुव्रीहिसमासः]
नानाशस्त्राणि प्रहरणानि येषां, ते नानाशस्त्रप्रहरणाः
(= they, who have various missiles and weapons)

Interpretation #2
[तृतीयार्थ-समानाधिकरण-बहुव्रीहिसमासः]
नानाशस्त्राणि प्रहरणानि यैः, ते नानाशस्त्रप्रहरणाः
(= they, by them, who strike with various missiles)
they, who have various missiles and weapons
सर्वे सर्व / पुं / प्र.वि / ब.व all
युद्धविशारदाः युद्धविशारद / पुं / प्र.वि / ब.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)

पदविवरणम् :-
युध् + भावे क्त = युद्ध / त्रि (-द्धः-द्धा-द्धं)
(= war)
विशारद / त्रि (-दः-दा-दं)
(= famous, celebrated, expert)

समासविवरणम् :-
[सप्तमीतत्पुरुषसमासः]
युद्धे विशारदाः = युद्धविशारदाः
(= expert / celebrated at war)
those, who are expert / celebrated at war

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (सन्ति) गौणक्रिया 1.1 (त्यक्तजीविताः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि अन्ये बहवः
शूराः
सर्वे
नानाशस्त्रप्रहरणाः
युद्धविशारदाः
त्यक्तजीविताः
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि
स.वि मदर्थे
अव्ययम्
अन्वयः अन्ये बहवः शूराः, सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः, मदर्थे त्यक्तजीविताः सन्ति ।
Purport There are many more, who all are valorous, have various missiles and weapons, are expert / celebrated at war and who have sacrificed their lives for my sake.
अन्वयरचना सन्ति
  • के सन्ति? = अन्ये सर्वे च सन्ति
    • कीदृशाः अन्ये? = शूराः अन्ये सर्वे
    • पुनः कीदृशाः अन्ये? = नानाशस्त्रप्रहरणाः अन्ये सर्वे
    • पुनः कीदृशाः अन्ये? = युद्धविशारदाः अन्ये सर्वे
    • पुनः कीदृशाः अन्ये? = त्यक्तजीविताः अन्ये सर्वे
      • कस्य कृते त्यक्तजीविताः? = मदर्थे त्यक्तजीविताः
  • कति सन्ति? = बहवः सन्ति

Comments