परिचयः - अन्वयक्रमः #11


चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
चित्रकूटम् चित्रकूट / पुं / द्वि.वि / ए.व to Citrakūṭa
गते
रामे
गत / पुं / स.वि / ए.व
राम / पुं / स.वि / ए.व

पदविवरणम् :-
गम् + क्त = गत / पुं & नपुं
When Rāma had gone

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
पुत्रशोकातुरः पुत्रशोकातुर / पुं / प्र.वि / ए.व

पदविवरणम् :-
पुत्र / पुं
(= son)
शुच् (to regret) + घञ् = शोक / पुं
(= sorrow, grief)
आङ् + तुर (to hasten) + क = आतुर / पुं
(= sick person)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
पुत्रस्य शोकः = पुत्रशोकः

[तृतीयातत्पुरुषसमासः]
पुत्रशोकेन आतुरः = पुत्रशोकातुरः
one who is sick by the sorrow of (separation from his) son
तथा तद् + थाल् = तथा / अव्ययम् then
राजा राजन् / पुं / प्र.वि / ए.व the king
दशरथः दशरथ / पुं / प्र.वि / ए.व Daśaratha
स्वर्गम् स्वर्ग / पुं / द्वि.वि / ए.व to heaven
जगाम गम् + कर्तरि लिँट् / प्र.पु / ए.व went
विलपन् विलपत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
वि + लप् (to speak) + शतृँ = विलपत् / पुं
while lamenting
सुतम् सुत / पुं / द्वि.वि / ए.व son

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (जगाम) गौणक्रिया 1.1 (गते) गौणक्रिया 1.2 (विलपन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि दशरथः पुत्रशोकातुरः
राजा
(दशरथः)
स.प्र.वि
द्वि.वि स्वर्गम् चित्रकूटम् सुतम्
तृ.वि
च.वि
प.वि
ष.वि
स.वि रामे
अव्ययम् तथा
अन्वयः तथा रामे चित्रकूटं गते पुत्रशोकातुरः राजा दशरथः सुतं विलपन् स्वर्गं जगाम ।
तात्पर्यम् Then, when Rāma had gone to Citrakūṭa, the king Daśaratha, one who is sick by the sorrow of (separation from his) son, departed to heaven, while lamenting about his son.
अन्वयरचना जगाम
  • कः जगाम? = दशरथः जगाम
    • कीदृशः दशरथः? = राजा दशरथः
    • पुनः कीदृशः दशरथः? = पुत्रशोकातुरः दशरथः
  • कुत्र जगाम? = स्वर्गं जगाम
  • कदा जगाम? = तथा रामे गते
    • कुत्र रामे गते? = चित्रकूटम् रामे गते
  • किं कुर्वन् जगाम? = विलपन् जगाम
    • कं विलपन्? = सुतं विलपन्

Comments