परिचयः - अन्वयक्रमः #10


चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
चित्रकूटम् चित्रकूट / पुं / द्वि.वि / ए.व Citrakūṭa
अनुप्राप्य अनु + प्र + आप् + ल्यप् = अनुप्राप्य / अव्ययम् having reached
भरद्वाजस्य भरद्वाज / पुं / ष.वि / ए.व of Sage Bharadvāja
शासनात् शासन / नपुं / प.वि / ए.व

पदविवरणम् :-
शास् to order, to direct + ल्युट् = शासन / नपुं
due to the order or command
रम्यम् रम्य / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + यत् = रम्य / नपुं
pleasing, delightful
आवसथम् आवसथ / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
आङ् + वस् + अथ (उणा) = आवसथ / नपुं
house
कृत्वा कृ + क्त्वा = कृत्वा / अव्ययम् having built
रममाणाः रममाण / पुं / प्र.वि / ब.व

पदविवरणम् :-
रम् + शानच् = रममाण / पुं
rejoicing
वने वन / नपुं / स.वि / ए.व in the forest
त्रयः त्रि / पुं / प्र.वि / ब.व three
देवगन्धर्वसङ्काशाः देवगन्धर्वसङ्काश / पुं / प्र.वि / ब.व

पदविवरणम् :-
देव / पुं
गन्धर्व / पुं
सङ्काश / त्रि
(= सम्यक् काशते प्रकाशते इति । सदृशः ।)

समासविवरणम् :-
[द्वन्द्वसमासः]
देवः च गन्धर्वः च = देवगन्धर्वौ

[तृतीयातत्पुरुषसमासः]
देवगन्धर्वैः शङ्काशाः = देवगन्धर्वसङ्काश
like the Devas and the Gandharvas
तत्र अव्ययम् there
ते तद् / पुं / प्र.वि / ब.व those
न्यवसन् नि + वस् + लँङ् / प्र.पु / ब.व lived
सुखम् सुख / नपुं / द्वि.वि / ए.व happily

क्रियाविशेषणं सर्वदा नपुंसकलिङ्गे द्वितियाविभक्तौ च एव भवति ।
(Adverbs are always in neuter gender and 2nd vibhakti.)

More info on Adverbs

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (न्यवसन्) गौणक्रिया 1.1 (अनुप्राप्य) गौणक्रिया 1.2 (कृत्वा)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि ते रममाणाः
त्रयः
देवगन्धर्वसङ्काशाः
(ते) (ते)
स.प्र.वि
द्वि.वि सुखम् चित्रकूटम् आवसथम् रम्यम्
तृ.वि
च.वि
प.वि शासनात्
ष.वि भरद्वाजस्य
स.वि वने
अव्ययम् तत्र
अन्वयः भरद्वाजस्य शासनात् चित्रकूटम् अनुप्राप्य रम्यम् आवसथं कृत्वा देवगन्धर्वसङ्काशा: रममाणा: ते त्रयः तत्र वने सुखम् न्यवसन् ।
तात्पर्यम् As per the directions of Sage Bharadvāja, having reached Citrakūṭa, having built a delightful hermitage, the three of them, who look like the Devas and the Gandharvas, lived happily rejoicing there in the forest.
अन्वयरचना न्यवसन्
  • के न्यवसन्? = ते
    • कति ते? = त्रयः
    • कीदृशाः ते? = देवगन्धर्वसङ्काशाः
    • पुनः कीदृशाः ते? = रममाणाः
  • कथं न्यवसन्? = सुखम्
  • कुत्र न्यवसन्? = तत्र वने
  • किं कृत्वा न्यवसन्? = अनुप्राप्य
    • कम् अनुप्राप्य? = चित्रकूटम्
    • कस्मात् अनुप्राप्य? = शासनात्
      • कस्य शासनात्? = भरद्वाजस्य
  • पुनः किं कृत्वा न्यवसन्? = आवसथम्
    • कीदृशम् आवसथम्? = रम्यम्

Comments