परिचयः - अन्वयक्रमः #12


गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
गते
तस्मिन्
गत / पुं / स.वि / ए.व
तद् / पुं / स.वि / ए.व

पदविवरणम् :-
गम् + क्त = गत / पुं & नपुं
when Daśaratha had gone (had died, had reached heaven)

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
तु पादपूर्णारणार्थकम् on the other hand
भरतः भरत / पुं / प्र.वि / ए.व Bharata
वसिष्ठप्रमुखैः वसिष्ठप्रमुख / पुं / तृ.वि / ब.व

पदविवरणम् :-
वसिष्ठः / पुं
(= sage Vasiṣṭha)
प्रमुख / पुं
(= chief, principal)

समासविवरणम् :-
[बहुव्रीहिसमासः]
वसिष्ठः प्रमुखः येषां ते वसिष्ठप्रमुखाः
by those for whom Vasiṣṭha was the chief
द्विजैः द्विज / पुं / तृ.वि / ब.व

पदविवरणम् :-
द्विः + जन ड [कृत्] = द्विः जायते = द्विज / पुं
by the twice-born (Brahmanas)
नियुज्यमानः नियुज्यमान / पुं / प्र.वि / ए.व

पदविवरणम् :-
नि + युज् + कर्मणि शानच् = नियुज्यमान / पुं & नपुं
while being appointed
राज्याय राज्य / नपुं / च.वि / ए.व

पदविवरणम् :-
राज्यं कर्तुं इति अर्थे, परन्तु तुमुन् प्रयोगः नास्ति ।
तुमुनः यस्य कर्मः भवति, तस्य चथुर्ती ।
तुमुनः यस्य कर्मः ⇒ राज्यम् ।
राज्यस्य चथुर्ती ⇒ राज्याय ।
to rule the kingdon
न ऐच्छत् न इष + कर्तरि लँङ् / प्र.पु / ए.व did not wish

सूत्रम् 6.4.72 = आडजादीनाम्

For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त.

इष् + लँङ्
[अनद्यतने लङ् ३.२.१११ इति लँङ्]
→ आट् + इच्छ् + लँङ्
[आडजादीनाम् ६.४.७२ इति आट्-आगमः]
→ आ + इच्छ् + त
[तिप्तस्.. ३.४.७८ इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']
→ आ + इच्छ् + शप् + त
[कर्तरि शप् ३.१.६८ इति शप्]
→ आ + इच्छ् + अ + त्
[इतश्च ३.४.१०० इति इकारलोपः]
→ ऐच्छत्
[आटश्च ६.१.९० इति वृद्धि-एकादेशः]
राज्यम् राज्य / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
राजन् + यत् = राज्य / नपुं
the kingdom
महाबलः महाबल / पुं / प्र.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
बल / पुं
(= strength)

समासविवरणम् :-
[बहुव्रीहिसमासः]
महत् बलं यस्य, सः महाबलः
one who has immense strength

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (न ऐच्छत्) गौणक्रिया 1.1 (गते) गौणक्रिया 1.2 (नियुज्यमानः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि भरतः महाबलः
नियुज्यमानः
स.प्र.वि
द्वि.वि राज्यम् (स्वर्गम्)
तृ.वि वसिष्ठप्रमुखैः
द्विजैः
च.वि राज्याय
प.वि
ष.वि
स.वि तस्मिन्
अव्ययम् तु
अन्वयः तु तस्मिन् (दशरथे स्वर्गं) गते वसिष्ठप्रमुखैः द्विजैः राज्याय नियुज्यमानः महाबलः भरतः राज्यं न ऐच्छत् ।
तात्पर्यम् On the other hand, when he (king Daśaratha) had gone (to heaven), Bharata, one with great, incomprehensible strength, while being appointed by those for whom Vasiṣṭha was the chief and by the twice-born (the Brahmanas), did not wish the kingdom.
अन्वयरचना न ऐच्छत्
  • कः न ऐच्छत्? = भरतः न ऐच्छत्
    • कीदृशः भरतः? = महाबलः भरतः
    • पुनः कीदृशः भरतः? = नियुज्यमानः भरतः
      • कैः नियुज्यमानः? = वसिष्ठप्रमुखैः नियुज्यमानः
      • पुनः कैः नियुज्यमानः? = द्विजैः नियुज्यमानः
      • कस्मै नियुज्यमानः? = राज्याय नियुज्यमानः
      • कदा नियुज्यमानः? = तस्मिन् (दशरथे) गते
  • कं न ऐच्छत्? = राज्यं न ऐच्छत्

Comments