परिचयः - अन्वयक्रमः #13


स जगाम वनं वीरो रामपादप्रसादकः ।
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ॥
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ।
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व he
जगाम गम् + लिँट् / प्र.पु / ए.व went
वनं वन / नपुं / द्वि.वि / ए.व to the forest
वीरः वीर / पुं / प्र.वि / ए.व one who is powerful, mighty
रामपादप्रसादकः रामपादप्रसादक / पुं / प्र.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= one who delights)
पाद / पुं
(= foot)
प्र + सद् (to lose interest) + णिच् + ण्वुल् = प्रसादक / पुं
(= purifying, soothing, comforting, gladdening, cheering,
propitiating, wishing to win anyone's favour, courting favour)


समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
रामस्य पादौ = रामपाद / पुं

[षष्ठीतत्पुरुषसमासः]
रामपादयोः प्रसादकः = रामपादप्रसादक / पुं
one who propitiates / worships Rāma's feet
गत्वा गम् + क्त्वा / अव्ययम् having gone
तु पादपूर्णारणार्थकम् / अव्ययम् on the other hand
सः तद् / पुं / प्र.वि / ए.व he
महात्मानम् महात्मन् / पुं / द्वि.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great)
आत्मन् / पुं
(= self, soul)

समासविवरणम् :-
[बहुव्रीहिसमासः]
महान् आत्मा यस्य सः, तम् = महात्मानम् / पुं
to one who is lofty-minded, magnanimous

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
to Rāma (one who delights)
सत्यपराक्रमम् सत्यपराक्रम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
सत्य / पुं
(= truth, reality)
परा supreme + क्रम् (to go, to step, to leap) + करणे घञ् / पुं
(= heroism, courage, power, strength, energy)

समासविवरणम् :-
[बहुव्रीहिसमासः]
सत्यः पराक्रमः यस्य सः, तम् = सत्यपराक्रमम् / पुं
to one who is truly supremely powerful
अयाचत् याच् + लँङ् / प्र.पु / ए.व begged
भ्रातरम् भ्रातृ / पुं / द्वि.वि / ए.व to brother
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
to Rāma (one who delights)
आर्यभावपुरस्कृतः आर्यभावपुरस्कृत / पुं / प्र.वि / ए.व

पदविवरणम् :-
(to go) + ण्यत् = आर्य / पुं
(= respectable, venerable)
भू (to be) + घञ् = भाव / पुं
(= natural state of being, innate nature, disposition)
पुरस् + कृ (to do) + क्त = पुरस्कृत / पुं & नपुं
(= accompanied by, possessed of)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
आर्यस्य भावः = आर्यभावः / पुं

[तृतीयातत्पुरुषसमासः]
आर्यभावेन पुरस्कृतः = आर्यभावपुरस्कृतः / पुं
one who worshipped with reverence
त्वम् युष्मद् / त्रि / द्वि.वि / ए.व you
एव अव्ययम् alone
राजा राजन् / पुं / प्र.वि / ए.व the king
धर्मज्ञः धर्मज्ञ / पुं / ए.वि / ए.व the knower of righteousness
इति अव्ययम् thus
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
to Rāma (one who delights)
वचः वचस् / नपुं / द्वि.वि / ए.व the word / statement
अब्रवीत् ब्रू (to speak) + लिँट् / प्र.पु / ए.व

द्विकर्मकः धातुः
  1. रामम्
  2. वचः
spoke

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0
(जगाम)
प्रधानक्रिया 2.0
(अयाचत्)
गौणक्रिया 2.1
(गत्वा)
प्रधानक्रिया 3.0
(अब्रवीत्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सः
(भरतः)
वीरः
रामपादप्रसादकः
(भरतः) (भरतः) आर्यभावपुरस्कृतः त्वम् राजा
धर्मज्ञः
स.प्र.वि
द्वि.वि वनम् रामम् महात्मानम्
सत्यपराक्रमम्
भ्रातरम्
रामम् रामम्
वचः
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम् तु
एव
इति
अन्वयः 1) रामपादप्रसादकः वीरः सः (भरतः) वनं जगाम ।
2) आर्यभावपुरस्कृतः सः (भरतः) रामं गत्वा महात्मानं सत्यपराक्रमं भ्रातरं रामम् अयाचत् ।
3) तु "त्वमेव राजा धर्मज्ञः" इति रामं वचः अब्रवीत् ।
तात्पर्यम् 1) He (Bharata), who is powerful, who propitiates / worships Rāma's feet, went to the forest.
2) He (Bharata), who worshipped with reverence, having gone to Rāma, the brother, the magnanimous, the truly supremely powerful, begged Rāma.
3) On the other hand, "You are knower of righteousness. You alone should be the king." - Rāma thus spoke these words.
अन्वयरचना जगाम
  • कः जगाम? = सः (भरतः) जगाम
    • कीदृशः सः? = रामपादप्रसादकः सः
    • पुनः कीदृशः सः? = वीरः सः
      • कुत्र जगाम? = वनं जगाम
अयाचत्
  • कः अयाचत्? = सः (भरतः) अयाचत्
    • कीदृशः सः? = आर्यभावपुरस्कृतः सः
  • कम् अयाचत्? = रामम् अयाचत्
    • कीदृशं रामम्? = महात्मानं रामम्
    • पुनः कीदृशं रामम्? = सत्यपराक्रमं रामम्
    • पुनः कीदृशं रामम्? = भ्रातरं रामम्
  • किं कृत्वा अयाचत्? = गत्वा अयाचत्
    • कुत्र गत्वा? = रामं गत्वा
अब्रवीत्
  • कः अब्रवीत्? = सः (भरतः) अब्रवीत्
  • कम् अब्रवीत्? = रामम् अब्रवीत्
  • पुनः कम् अब्रवीत्? = वचः अब्रवीत्
  • किम् इति अब्रवीत्? = "त्वमेव राजा धर्मज्ञः" इति अब्रवीत्

Comments